वैशम्पायन उवाच 001
ततः प्रयातमात्रेषु पाण्डवेषु महात्मसु 001a
पद्भ्यामनुचिता गन्तुं द्रौपदी समुपाविशत् 001c
श्रान्ता दुःखपरीता च वातवर्षेण तेन च 002a
सौकुमार्याच्च पाञ्चाली सम्मुमोह यशस्विनी 002c
सा पात्यमाना मोहेन बाहुभ्यामसितेक्षणा 003a
वृत्ताभ्यामनुरूपाभ्यामूरू समवलम्बत 003c
आलम्बमाना सहितावूरू गजकरोपमौ 004a
पपात सहसा भूमौ वेपन्ती कदली यथा 004c
तां पतन्तीं वरारोहां सज्जमानां लतामिव 005a
नकुलः समभिद्रुत्य परिजग्राह वीर्यवान् 005c
नकुल उवाच 006
राजन्पाञ्चालराजस्य सुतेयमसितेक्षणा 006a
श्रान्ता निपतिता भूमौ तामवेक्षस्व भारत 006c
अदुःखार्हा परं दुःखं प्राप्तेयं मृदुगामिनी 007a
आश्वासय महाराज तामिमां श्रमकर्शिताम् 007c
वैशम्पायन उवाच 008
राजा तु वचनात्तस्य भृशं दुःखसमन्वितः 008a
भीमश्च सहदेवश्च सहसा समुपाद्रवन् 008c
तामवेक्ष्य तु कौन्तेयो विवर्णवदनां कृशाम् 009a
अङ्कमानीय धर्मात्मा पर्यदेवयदातुरः 009c
कथं वेश्मसु गुप्तेषु स्वास्तीर्णशयनोचिता 010a
शेते निपतिता भूमौ सुखार्हा वरवर्णिनी 010c
सुकुमारौ कथं पादौ मुखं च कमलप्रभम् 011a
मत्कृतेऽद्य वरार्हायाः श्यामतां समुपागतम् 011c
किमिदं द्यूतकामेन मया कृतमबुद्धिना 012a
आदाय कृष्णां चरता वने मृगगणायुते 012c
सुखं प्राप्स्यति पाञ्चाली पाण्डवान्प्राप्य वै पतीन् 013a
इति द्रुपदराजेन पित्रा दत्तायतेक्षणा 013c
तत्सर्वमनवाप्यैव श्रमशोकाद्धि कर्शिता 014a
शेते निपतिता भूमौ पापस्य मम कर्मभिः 014c
तथा लालप्यमाने तु धर्मराजे युधिष्ठिरे 015a
धौम्यप्रभृतयः सर्वे तत्राजग्मुर्द्विजोत्तमाः 015c
ते समाश्वासयामासुराशीर्भिश्चाप्यपूजयन् 016a
रक्षोघ्नांश्च तथा मन्त्राञ्जेपुश्चक्रुश्च ते क्रियाः 016c
पठ्यमानेषु मन्त्रेषु शान्त्यर्थं परमर्षिभिः 017a
स्पृश्यमाना करैः शीतैः पाण्डवैश्च मुहुर्मुहुः 017c
सेव्यमाना च शीतेन जलमिश्रेण वायुना 018a
पाञ्चाली सुखमासाद्य लेभे चेतः शनैः शनैः 018c
परिगृह्य च तां दीनां कृष्णामजिनसंस्तरे 019a
तदा विश्रामयामासुर्लब्धसञ्ज्ञां तपस्विनीम् 019c
तस्या यमौ रक्ततलौ पादौ पूजितलक्षणौ 020a
कराभ्यां किणजाताभ्यां शनकैः संववाहतुः 020c
पर्याश्वासयदप्येनां धर्मराजो युधिष्ठिरः 021a
उवाच च कुरुश्रेष्ठो भीमसेनमिदं वचः 021c
बहवः पर्वता भीम विषमा हिमदुर्गमाः 022a
तेषु कृष्णा महाबाहो कथं नु विचरिष्यति 022c
भीमसेन उवाच 023
त्वां राजन्राजपुत्रीं च यमौ च पुरुषर्षभौ 023a
स्वयं नेष्यामि राजेन्द्र मा विषादे मनः कृथाः 023c
अथ वासौ मया जातो विहगो मद्बलोपमः 024a
वहेदनघ सर्वान्नो वचनात्ते घतोत्कचः 024c
वैशम्पायन उवाच 025
अनुज्ञातो धर्मराज्ञा पुत्रं सस्मार राक्षसम् 025a
घटोत्कचश्च धर्मात्मा स्मृतमात्रः पितुस्तदा 025c
कृताञ्जलिरुपातिष्ठदभिवाद्याथ पाण्डवान् 025e
ब्राह्मणांश्च महाबाहुः स च तैरभिनन्दितः 026a
उवाच भीमसेनं स पितरं सत्यविक्रमः 026c
स्मृतोऽस्मि भवता शीघ्रं शुश्रूषुरहमागतः 027a
आज्ञापय महाबाहो सर्वं कर्तास्म्यसंशयम् 027c
तच्छ्रुत्वा भीमसेनस्तु राक्षसं परिषस्वजे 027e