वैशम्पायन उवाच 001
ते शूरास्ततधन्वानस्तूणवन्तः समार्गणाः 001a
बद्धगोधाङ्गुलित्राणाः खड्गवन्तोऽमितौजसः 001c
परिगृह्य द्विजश्रेष्ठाञ्श्रेष्ठाः सर्वधनुष्मताम् 002a
पाञ्चालीसहिता राजन्प्रययुर्गन्धमादनम् 002c
सरांसि सरितश्चैव पर्वतांश्च वनानि च 003a
वृक्षांश्च बहुलच्छायान्ददृशुर्गिरिमूर्धनि 003c
नित्यपुष्पफलान्देशान्देवर्षिगणसेवितान् 003e
आत्मन्यात्मानमाधाय वीरा मूलफलाशनाः 004a
चेरुरुच्चावचाकारान्देशान्विषमसङ्कटान् 004c
पश्यन्तो मृगजातानि बहूनि विविधानि च 004e
ऋषिसिद्धामरयुतं गन्धर्वाप्सरसां प्रियम् 005a
विविशुस्ते महात्मानः किन्नराचरितं गिरिम् 005c
प्रविशत्स्वथ वीरेषु पर्वतं गन्धमादनम् 006a
चण्डवातं महद्वर्षं प्रादुरासीद्विशां पते 006c
ततो रेणुः समुद्भूतः सपत्रबहुलो महान् 007a
पृथिवीं चान्तरिक्षं च द्यां चैव तमसावृणोत् 007c
न स्म प्रज्ञायते किञ्चिदावृते व्योम्नि रेणुना 008a
न चापि शेकुस्ते कर्तुमन्योन्यस्याभिभाषणम् 008c
न चापश्यन्त तेऽन्योन्यं तमसा हतचक्षुषः 009a
आकृष्यमाणा वातेन साश्मचूर्णेन भारत 009c
द्रुमाणां वातभग्नानां पततां भूतले भृशम् 010a
अन्येषां च महीजानां शब्दः समभवन्महान् 010c
द्यौः स्वित्पतति किं भूमौ दीर्यन्ते पर्वता नु किम् 011a
इति ते मेनिरे सर्वे पवनेन विमोहिताः 011c
ते यथानन्तरान्वृक्षान्वल्मीकान्विषमाणि च 012a
पाणिभिः परिमार्गन्तो भीता वायोर्निलिल्यिरे 012c
ततः कार्मुकमुद्यम्य भीमसेनो महाबलः 013a
कृष्णामादाय सङ्गत्या तस्थावाश्रित्य पादपम् 013c
धर्मराजश्च धौम्यश्च निलिल्याते महावने 014a
अग्निहोत्राण्युपादाय सहदेवस्तु पर्वते 014c
नकुलो ब्राह्मणाश्चान्ये लोमशश्च महातपाः 015a
वृक्षानासाद्य सन्त्रस्तास्तत्र तत्र निलिल्यिरे 015c
मन्दीभूते च पवने तस्मिन्रजसि शाम्यति 016a
महद्भिः पृषतैस्तूर्णं वर्षमभ्याजगाम ह 016c
ततोऽश्मसहिता धाराः संवृण्वन्त्यः समन्ततः 017a
प्रपेतुरनिशं तत्र शीघ्रवातसमीरिताः 017c
ततः सागरगा आपः कीर्यमाणाः समन्ततः 018a
प्रादुरासन्सकलुसाः फेनवत्यो विशां पते 018c
वहन्त्यो वारि बहुलं फेनोडुपपरिप्लुतम् 019a
परिसस्रुर्महाशब्दाः प्रकर्षन्त्यो महीरुहान् 019c
तस्मिन्नुपरते वर्षे वाते च समतां गते 020a
गते ह्यम्भसि निम्नानि प्रादुर्भूते दिवाकरे 020c
निर्जग्मुस्ते शनैः सर्वे समाजग्मुश्च भारत 021a
प्रतस्थुश्च पुनर्वीराः पर्वतं गन्धमादनम् 021c