युधिष्ठिर उवाच 001
भीमसेन यमौ चोभौ पाञ्चालि च निबोधत 001a
नास्ति भूतस्य नाशो वै पश्यतास्मान्वनेचरान् 001c
दुर्बलाः क्लेशिताः स्मेति यद्ब्रवीथेतरेतरम् 002a
अशक्येऽपि व्रजामेति धनञ्जयदिदृक्षया 002c
तन्मे दहति गात्राणि तूलराशिमिवानलः 003a
यच्च वीरं न पश्यामि धनञ्जयमुपान्तिके 003c
तस्य दर्शनतृष्णं मां सानुजं वनमास्थितम् 004a
याज्ञसेन्याः परामर्शः स च वीर दहत्युत 004c
नकुलात्पूर्वजं पार्थं न पश्याम्यमितौजसम् 005a
अजेयमुग्रधन्वानं तेन तप्ये वृकोदर 005c
तीर्थानि चैव रम्याणि वनानि च सरांसि च 006a
चरामि सह युष्माभिस्तस्य दर्शनकाङ्क्षया 006c
पञ्च वर्षाण्यहं वीरं सत्यसन्धं धनञ्जयम् 007a
यन्न पश्यामि बीभत्सुं तेन तप्ये वृकोदर 007c
तं वै श्यामं गुडाकेशं सिंहविक्रान्तगामिनम् 008a
न पश्यामि महाबाहुं तेन तप्ये वृकोदर 008c
कृतास्त्रं निपुणं युद्धे प्रतिमानं धनुष्मताम् 009a
न पश्यामि नरश्रेष्ठं तेन तप्ये वृकोदर 009c
चरन्तमरिसङ्घेषु कालं क्रुद्धमिवान्तकम् 010a
प्रभिन्नमिव मातङ्गं सिंहस्कन्धं धनञ्जयम् 010c
यः स शक्रादनवरो वीर्येण द्रविणेन च 011a
यमयोः पूर्वजः पार्थः श्वेताश्वोऽमितविक्रमः 011c
दुःखेन महताविष्टः स्वकृतेनानिवर्तिना 012a
अजेयमुग्रधन्वानं तं न पश्यामि फल्गुनम् 012c
सततं यः क्षमाशीलः क्षिप्यमाणोऽप्यणीयसा 013a
ऋजुमार्गप्रपन्नस्य शर्मदाताभयस्य च 013c
स तु जिह्मप्रवृत्तस्य माययाभिजिघांसतः 014a
अपि वज्रधरस्यापि भवेत्कालविषोपमः 014c
शत्रोरपि प्रपन्नस्य सोऽनृशंसः प्रतापवान् 015a
दाताभयस्य बीभत्सुरमितात्मा महाबलः 015c
सर्वेषामाश्रयोऽस्माकं रणेऽरीणां प्रमर्दिता 016a
आहर्ता सर्वरत्नानां सर्वेषां नः सुखावहः 016c
रत्नानि यस्य वीर्येण दिव्यान्यासन्पुरा मम 017a
बहूनि बहुजातानि यानि प्राप्तः सुयोधनः 017c
यस्य बाहुबलाद्वीर सभा चासीत्पुरा मम 018a
सर्वरत्नमयी ख्याता त्रिषु लोकेषु पाण्डव 018c
वासुदेवसमं वीर्ये कार्तवीर्यसमं युधि 019a
अजेयमजितं युद्धे तं न पश्यामि फल्गुनम् 019c
सङ्कर्षणं महावीर्यं त्वां च भीमापराजितम् 020a
अनुजातः स वीर्येण वासुदेवं च शत्रुहा 020c
यस्य बाहुबले तुल्यः प्रभावे च पुरन्दरः 021a
जवे वायुर्मुखे सोमः क्रोधे मृत्युः सनातनः 021c
ते वयं तं नरव्याघ्रं सर्वे वीर दिदृक्षवः 022a
प्रवेक्ष्यामो महाबाहो पर्वतं गन्धमादनम् 022c
विशाला बदरी यत्र नरनारायणाश्रमः 023a
तं सदाध्युषितं यक्षैर्द्रक्ष्यामो गिरिमुत्तमम् 023c
कुबेरनलिनीं रम्यां राक्षसैरभिरक्षिताम् 024a
पद्भिरेव गमिष्यामस्तप्यमाना महत्तपः 024c
नातप्ततपसा शक्यो देशो गन्तुं वृकोदर 025a
न नृशंसेन लुब्धेन नाप्रशान्तेन भारत 025c
तत्र सर्वे गमिष्यामो भीमार्जुनपदैषिणः 026a
सायुधा बद्धनिस्त्रिंशाः सह विप्रैर्महाव्रतैः 026c
मक्षिकान्मशकान्दंशान्व्याघ्रान्सिंहान्सरीसृपान् 027a
प्राप्नोत्यनियतः पार्थ नियतस्तान्न पश्यति 027c
ते वयं नियतात्मानः पर्वतं गन्धमादनम् 028a
प्रवेक्ष्यामो मिताहारा धनञ्जयदिदृक्षवः 028c