युधिष्ठिर उवाच 001
अन्तर्हितानि भूतानि रक्षांसि बलवन्ति च 001a
अग्निना तपसा चैव शक्यं गन्तुं वृकोदर 001c
सन्निवर्तय कौन्तेय क्षुत्पिपासे बलान्वयात् 002a
ततो बलं च दाक्ष्यं च संश्रयस्व कुरूद्वह 002c
ऋषेस्त्वया श्रुतं वाक्यं कैलासं पर्वतं प्रति 003a
बुद्ध्या प्रपश्य कौन्तेय कथं कृष्णा गमिष्यति 003c
अथ वा सहदेवेन धौम्येन च सहाभिभो 004a
सूदैः पौरोगवैश्चैव सर्वैश्च परिचारकैः 004c
रथैरश्वैश्च ये चान्ये विप्राः क्लेशासहाः पथि 005a
सर्वैस्त्वं सहितो भीम निवर्तस्वायतेक्षण 005c
त्रयो वयं गमिष्यामो लघ्वाहारा यतव्रताः 006a
अहं च नकुलश्चैव लोमशश्च महातपाः 006c
ममागमनमाकाङ्क्षन्गङ्गाद्वारे समाहितः 007a
वसेह द्रौपदीं रक्षन्यावदागमनं मम 007c
भीम उवाच 008
राजपुत्री श्रमेणार्ता दुःखार्ता चैव भारत 008a
व्रजत्येव हि कल्याणी श्वेतवाहदिदृक्षया 008c
तव चाप्यरतिस्तीव्रा वर्धते तमपश्यतः 009a
किं पुनः सहदेवं च मां च कृष्णां च भारत 009c
रथाः कामं निवर्तन्तां सर्वे च परिचारकाः 010a
सूदाः पौरोगवाश्चैव मन्यते यत्र नो भवान् 010c
न ह्यहं हातुमिच्छामि भवन्तमिह कर्हिचित् 011a
शैलेऽस्मिन्राक्षसाकीर्णे दुर्गेषु विषमेषु च 011c
इयं चापि महाभागा राजपुत्री यतव्रता 012a
त्वामृते पुरुषव्याघ्र नोत्सहेद्विनिवर्तितुम् 012c
तथैव सहदेवोऽयं सततं त्वामनुव्रतः 013a
न जातु विनिवर्तेत मतज्ञो ह्यहमस्य वै 013c
अपि चात्र महाराज सव्यसाचिदिदृक्षया 014a
सर्वे लालसभूताः स्म तस्माद्यास्यामहे सह 014c
यद्यशक्यो रथैर्गन्तुं शैलोऽयं बहुकन्दरः 015a
पद्भिरेव गमिष्यामो मा राजन्विमना भव 015c
अहं वहिष्ये पाञ्चालीं यत्र यत्र न शक्ष्यति 016a
इति मे वर्तते बुद्धिर्मा राजन्विमना भव 016c
सुकुमारौ तथा वीरौ माद्रीनन्दिकरावुभौ 017a
दुर्गे सन्तारयिष्यामि यद्यशक्तौ भविष्यतः 017c
युधिष्ठिर उवाच 018
एवं ते भाषमाणस्य बलं भीमाभिवर्धताम् 018a
यस्त्वमुत्सहसे वोढुं द्रौपदीं विपुलेऽध्वनि 018c
यमजौ चापि भद्रं ते नैतदन्यत्र विद्यते 019a
बलं च ते यशश्चैव धर्मः कीर्तिश्च वर्धताम् 019c
यस्त्वमुत्सहसे नेतुं भ्रातरौ सह कृष्णया 020a
मा ते ग्लानिर्महाबाहो मा च तेऽस्तु पराभवः 020c
वैशम्पायन उवाच 021
ततः कृष्णाब्रवीद्वाक्यं प्रहसन्ती मनोरमा 021a
गमिष्यामि न सन्तापः कार्यो मां प्रति भारत 021c
लोमश उवाच 022
तपसा शक्यते गन्तुं पर्वतो गन्धमादनः 022a
तपसा चैव कौन्तेय सर्वे योक्ष्यामहे वयम् 022c
नकुलः सहदेवश्च भीमसेनश्च पार्थिव 023a
अहं च त्वं च कौन्तेय द्रक्ष्यामः श्वेतवाहनम् 023c
वैशम्पायन उवाच 024
एवं सम्भाषमाणास्ते सुबाहोर्विषयं महत् 024a
ददृशुर्मुदिता राजन्प्रभूतगजवाजिमत् 024c
किराततङ्गणाकीर्णं कुणिन्दशतसङ्कुलम् 025a
हिमवत्यमरैर्जुष्टं बह्वाश्चर्यसमाकुलम् 025c
सुबाहुश्चापि तान्दृष्ट्वा पूजया प्रत्यगृह्णत 026a
विषयान्ते कुणिन्दानामीश्वरः प्रीतिपूर्वकम् 026c
तत्र ते पूजितास्तेन सर्व एव सुखोषिताः 027a
प्रतस्थुर्विमले सूर्ये हिमवन्तं गिरिं प्रति 027c
इन्द्रसेनमुखांश्चैव भृत्यान्पौरोगवांस्तथा 028a
सूदांश्च परिबर्हं च द्रौपद्याः सर्वशो नृप 028c
राज्ञः कुणिन्दाधिपतेः परिदाय महारथाः 029a
पद्भिरेव महावीर्या ययुः कौरवनन्दनाः 029c
ते शनैः प्राद्रवन्सर्वे कृष्णया सह पाण्डवाः 030a
तस्माद्देशात्सुसंहृष्टा द्रष्टुकामा धनञ्जयम् 030c