लोमश उवाच 001
उशीरबीजं मैनाकं गिरिं श्वेतं च भारत 001a
समतीतोऽसि कौन्तेय कालशैलं च पार्थिव 001c
एषा गङ्गा सप्तविधा राजते भरतर्षभ 002a
स्थानं विरजसं रम्यं यत्राग्निर्नित्यमिध्यते 002c
एतद्वै मानुषेणाद्य न शक्यं द्रष्टुमप्युत 003a
समाधिं कुरुताव्यग्रास्तीर्थान्येतानि द्रक्ष्यथ 003c
श्वेतं गिरिं प्रवेक्ष्यामो मन्दरं चैव पर्वतम् 004a
यत्र माणिचरो यक्षः कुबेरश्चापि यक्षराट् 004c
अष्टाशीतिसहस्राणि गन्धर्वाः शीघ्रचारिणः 005a
तथा किम्पुरुषा राजन्यक्षाश्चैव चतुर्गुणाः 005c
अनेकरूपसंस्थाना नानाप्रहरणाश्च ते 006a
यक्षेन्द्रं मनुजश्रेष्ठ माणिभद्रमुपासते 006c
तेषामृद्धिरतीवाग्र्या गतौ वायुसमाश्च ते 007a
स्थानात्प्रच्यावयेयुर्ये देवराजमपि ध्रुवम् 007c
तैस्तात बलिभिर्गुप्ता यातुधानैश्च रक्षिताः 008a
दुर्गमाः पर्वताः पार्थ समाधिं परमं कुरु 008c
कुबेरसचिवाश्चान्ये रौद्रा मैत्राश्च राक्षसाः 009a
तैः समेष्याम कौन्तेय यत्तो विक्रमणे भव 009c
कैलासः पर्वतो राजन्षड्योजनशतान्युत 010a
यत्र देवाः समायान्ति विशाला यत्र भारत 010c
असङ्ख्येयास्तु कौन्तेय यक्षराक्षसकिन्नराः 011a
नागाः सुपर्णा गन्धर्वाः कुबेरसदनं प्रति 011c
तान्विगाहस्व पार्थाद्य तपसा च दमेन च 012a
रक्ष्यमाणो मया राजन्भीमसेनबलेन च 012c
स्वस्ति ते वरुणो राजा यमश्च समितिञ्जयः 013a
गङ्गा च यमुना चैव पर्वतश्च दधातु ते 013c
इन्द्रस्य जाम्बूनदपर्वताग्रे शृणोमि घोषं तव देवि गङ्गे 014a
गोपाययेमं सुभगे गिरिभ्यः सर्वाजमीढापचितं नरेन्द्रम् 014c
भवस्व शर्म प्रविविक्षतोऽस्य शैलानिमाञ्शैलसुते नृपस्य 014e
युधिष्ठिर उवाच 015
अपूर्वोऽयं सम्भ्रमो लोमशस्य कृष्णां सर्वे रक्षत मा प्रमादम् 015a
देशो ह्ययं दुर्गतमो मतोऽस्य तस्मात्परं शौचमिहाचरध्वम् 015c
वैशम्पायन उवाच 016
ततोऽब्रवीद्भीममुदारवीर्यं कृष्णां यत्तः पालय भीमसेन 016a
शून्येऽर्जुनेऽसन्निहिते च तात त्वमेव कृष्णां भजसेऽसुखेषु 016c
ततो महात्मा यमजौ समेत्य मूर्धन्युपाघ्राय विमृज्य गात्रे 017a
उवाच तौ बाष्पकलं स राजा मा भैष्टमागच्छतमप्रमत्तौ 017c