लोमश उवाच 001
एतस्मिन्नेव काले तु बृहद्द्युम्नो महीपतिः 001a
सत्रमास्ते महाभागो रैभ्ययाज्यः प्रतापवान् 001c
तेन रैभ्यस्य वै पुत्रावर्वावसुपरावसू 002a
वृतौ सहायौ सत्रार्थे बृहद्द्युम्नेन धीमता 002c
तत्र तौ समनुज्ञातौ पित्रा कौन्तेय जग्मतुः 003a
आश्रमे त्वभवद्रैभ्यो भार्या चैव परावसोः 003c
अथावलोककोऽगच्छद्गृहानेकः परावसुः 004a
कृष्णाजिनेन संवीतं ददर्श पितरं वने 004c
जघन्यरात्रे निद्रान्धः सावशेषे तमस्यपि 005a
चरन्तं गहनेऽरण्ये मेने स पितरं मृगम् 005c
मृगं तु मन्यमानेन पिता वै तेन हिंसितः 006a
अकामयानेन तदा शरीरत्राणमिच्छता 006c
स तस्य प्रेतकार्याणि कृत्वा सर्वाणि भारत 007a
पुनरागम्य तत्सत्रमब्रवीद्भ्रातरं वचः 007c
इदं कर्म न शक्तस्त्वं वोढुमेकः कथञ्चन 008a
मया तु हिंसितस्तातो मन्यमानेन तं मृगम् 008c
सोऽस्मदर्थे व्रतं साधु चर त्वं ब्रह्महिंसनम् 009a
समर्थो ह्यहमेकाकी कर्म कर्तुमिदं मुने 009c
अर्वावसुरुवाच 010
करोतु वै भवान्सत्रं बृहद्द्युम्नस्य धीमतः 010a
ब्रह्महत्यां चरिष्येऽहं त्वदर्थं नियतेन्द्रियः 010c
लोमश उवाच 011
स तस्या ब्रह्महत्यायाः पारं गत्वा युधिष्ठिर 011a
अर्वावसुस्तदा सत्रमाजगाम पुनर्मुनिः 011c
ततः परावसुर्दृष्ट्वा भ्रातरं समुपस्थितम् 012a
बृहद्द्युम्नमुवाचेदं वचनं परिषद्गतम् 012c
एष ते ब्रह्महा यज्ञं मा द्रष्टुं प्रविशेदिति 013a
ब्रह्महा प्रेक्षितेनापि पीडयेत्त्वां न संशयः 013c
प्रेष्यैरुत्सार्यमाणस्तु राजन्नर्वावसुस्तदा 014a
न मया ब्रह्महत्येयं कृतेत्याह पुनः पुनः 014c
उच्यमानोऽसकृत्प्रेष्यैर्ब्रह्महन्निति भारत 015a
नैव स प्रतिजानाति ब्रह्महत्यां स्वयं कृताम् 015c
मम भ्रात्रा कृतमिदं मया तु परिरक्षितम् 015e
प्रीतास्तस्याभवन्देवाः कर्मणार्वावसोर्नृप 016a
तं ते प्रवरयामासुर्निरासुश्च परावसुम् 016c
ततो देवा वरं तस्मै ददुरग्निपुरोगमाः 017a
स चापि वरयामास पितुरुत्थानमात्मनः 017c
अनागस्त्वं तथा भ्रातुः पितुश्चास्मरणं वधे 018a
भरद्वाजस्य चोत्थानं यवक्रीतस्य चोभयोः 018c
ततः प्रादुर्बभूवुस्ते सर्व एव युधिष्ठिर 019a
अथाब्रवीद्यवक्रीतो देवानग्निपुरोगमान् 019c
समधीतं मया ब्रह्म व्रतानि चरितानि च 020a
कथं नु रैभ्यः शक्तो मामधीयानं तपस्विनम् 020c
तथायुक्तेन विधिना निहन्तुममरोत्तमाः 020e
देवा ऊचुः 021
मैवं कृथा यवक्रीत यथा वदसि वै मुने 021a
ऋते गुरुमधीता हि सुखं वेदास्त्वया पुरा 021c
अनेन तु गुरून्दुःखात्तोषयित्वा स्वकर्मणा 022a
कालेन महता क्लेशाद्ब्रह्माधिगतमुत्तमम् 022c
लोमश उवाच 023
यवक्रीतमथोक्त्वैवं देवाः साग्निपुरोगमाः 023a
सञ्जीवयित्वा तान्सर्वान्पुनर्जग्मुस्त्रिविष्टपम् 023c
आश्रमस्तस्य पुण्योऽयं सदापुष्पफलद्रुमः 024a
अत्रोष्य राजशार्दूल सर्वपापैः प्रमोक्ष्यसे 024c