लोमश उवाच 001
भरद्वाजस्तु कौन्तेय कृत्वा स्वाध्यायमाह्निकम् 001a
समित्कलापमादाय प्रविवेश स्वमाश्रमम् 001c
तं स्म दृष्ट्वा पुरा सर्वे प्रत्युत्तिष्ठन्ति पावकाः 002a
न त्वेनमुपतिष्ठन्ति हतपुत्रं तदाग्नयः 002c
वैकृतं त्वग्निहोत्रे स लक्षयित्वा महातपाः 003a
तमन्धं शूद्रमासीनं गृहपालमथाब्रवीत् 003c
किं नु मे नाग्नयः शूद्र प्रतिनन्दन्ति दर्शनम् 004a
त्वं चापि न यथापूर्वं कच्चित्क्षेममिहाश्रमे 004c
कच्चिन्न रैभ्यं पुत्रो मे गतवानल्पचेतनः 005a
एतदाचक्ष्व मे शीघ्रं न हि मे शुध्यते मनः 005c
शूद्र उवाच 006
रैभ्यं गतो नूनमसौ सुतस्ते मन्दचेतनः 006a
तथा हि निहतः शेते राक्षसेन बलीयसा 006c
प्रकाल्यमानस्तेनायं शूलहस्तेन रक्षसा 007a
अग्न्यागारं प्रति द्वारि मया दोर्भ्यां निवारितः 007c
ततः स निहतो ह्यत्र जलकामोऽशुचिर्ध्रुवम् 008a
सम्भावितो हि तूर्णेन शूलहस्तेन रक्षसा 008c
लोमश उवाच 009
भरद्वाजस्तु शूद्रस्य तच्छ्रुत्वा विप्रियं वचः 009a
गतासुं पुत्रमादाय विललाप सुदुःखितः 009c
ब्राह्मणानां किलार्थाय ननु त्वं तप्तवांस्तपः 010a
द्विजानामनधीता वै वेदाः सम्प्रतिभान्त्विति 010c
तथा कल्याणशीलस्त्वं ब्राह्मणेषु महात्मसु 011a
अनागाः सर्वभूतेषु कर्कशत्वमुपेयिवान् 011c
प्रतिषिद्धो मया तात रैभ्यावसथदर्शनात् 012a
गतवानेव तं क्षुद्रं कालान्तकयमोपमम् 012c
यः स जानन्महातेजा वृद्धस्यैकं ममात्मजम् 013a
गतवानेव कोपस्य वशं परमदुर्मतिः 013c
पुत्रशोकमनुप्राप्य एष रैभ्यस्य कर्मणा 014a
त्यक्ष्यामि त्वामृते पुत्र प्राणानिष्टतमान्भुवि 014c
यथाहं पुत्रशोकेन देहं त्यक्ष्यामि किल्बिषी 015a
तथा ज्येष्ठः सुतो रैभ्यं हिंस्याच्छीघ्रमनागसम् 015c
सुखिनो वै नरा येषां जात्या पुत्रो न विद्यते 016a
ते पुत्रशोकमप्राप्य विचरन्ति यथासुखम् 016c
ये तु पुत्रकृताच्छोकाद्भृशं व्याकुलचेतसः 017a
शपन्तीष्टान्सखीनार्तास्तेभ्यः पापतरो नु कः 017c
परासुश्च सुतो दृष्टः शप्तश्चेष्टः सखा मया 018a
ईदृशीमापदं को नु द्वितीयोऽनुभविष्यति 018c
विलप्यैवं बहुविधं भरद्वाजोऽदहत्सुतम् 019a
सुसमिद्धं ततः पश्चात्प्रविवेश हुताशनम् 019c