लोमश उवाच 001
चङ्क्रम्यमाणः स तदा यवक्रीरकुतोभयः 001a
जगाम माधवे मासि रैभ्याश्रमपदं प्रति 001c
स ददर्शाश्रमे पुण्ये पुष्पितद्रुमभूषिते 002a
विचरन्तीं स्नुषां तस्य किन्नरीमिव भारत 002c
यवक्रीस्तामुवाचेदमुपतिष्ठस्व मामिति 003a
निर्लज्जो लज्जया युक्तां कामेन हृतचेतनः 003c
सा तस्य शीलमाज्ञाय तस्माच्छापाच्च बिभ्यती 004a
तेजस्वितां च रैभ्यस्य तथेत्युक्त्वा जगाम सा 004c
तत एकान्तमुन्नीय मज्जयामास भारत 005a
आजगाम तदा रैभ्यः स्वमाश्रममरिन्दम 005c
रुदन्तीं च स्नुषां दृष्ट्वा भार्यामार्तां परावसोः 006a
सान्त्वयञ्श्लक्ष्णया वाचा पर्यपृच्छद्युधिष्ठिर 006c
सा तस्मै सर्वमाचष्ट यवक्रीभाषितं शुभा 007a
प्रत्युक्तं च यवक्रीतं प्रेक्षापूर्वं तदात्मना 007c
शृण्वानस्यैव रैभ्यस्य यवक्रीतविचेष्टितम् 008a
दहन्निव तदा चेतः क्रोधः समभवन्महान् 008c
स तदा मन्युनाविष्टस्तपस्वी भृशकोपनः 009a
अवलुप्य जटामेकां जुहावाग्नौ सुसंस्कृते 009c
ततः समभवन्नारी तस्या रूपेण सम्मिता 010a
अवलुप्यापरां चाथ जुहावाग्नौ जटां पुनः 010c
ततः समभवद्रक्षो घोराक्षं भीमदर्शनम् 011a
अब्रूतां तौ तदा रैभ्यं किं कार्यं करवामहे 011c
तावब्रवीदृषिः क्रुद्धो यवक्रीर्वध्यतामिति 012a
जग्मतुस्तौ तथेत्युक्त्वा यवक्रीतजिघांसया 012c
ततस्तं समुपास्थाय कृत्या सृष्टा महात्मना 013a
कमण्डलुं जहारास्य मोहयित्वा तु भारत 013c
उच्छिष्टं तु यवक्रीतमपकृष्टकमण्डलुम् 014a
तत उद्यतशूलः स राक्षसः समुपाद्रवत् 014c
तमापतन्तं सम्प्रेक्ष्य शूलहस्तं जिघांसया 015a
यवक्रीः सहसोत्थाय प्राद्रवद्येन वै सरः 015c
जलहीनं सरो दृष्ट्वा यवक्रीस्त्वरितः पुनः 016a
जगाम सरितः सर्वास्ताश्चाप्यासन्विशोषिताः 016c
स काल्यमानो घोरेण शूलहस्तेन रक्षसा 017a
अग्निहोत्रं पितुर्भीतः सहसा समुपाद्रवत् 017c
स वै प्रविशमानस्तु शूद्रेणान्धेन रक्षिणा 018a
निगृहीतो बलाद्द्वारि सोऽवातिष्ठत पार्थिव 018c
निगृहीतं तु शूद्रेण यवक्रीतं स राक्षसः 019a
ताडयामास शूलेन स भिन्नहृदयोऽपतत् 019c
यवक्रीतं स हत्वा तु राक्षसो रैभ्यमागमत् 020a
अनुज्ञातस्तु रैभ्येण तया नार्या सहाचरत् 020c