यवक्रीरुवाच 001
प्रतिभास्यन्ति वै वेदा मम तातस्य चोभयोः 001a
अति चान्यान्भविष्यावो वरा लब्धास्तथा मया 001c
भरद्वाज उवाच 002
दर्पस्ते भविता तात वराल्ँलब्ध्वा यथेप्सितान् 002a
स दर्पपूर्णः कृपणः क्षिप्रमेव विनश्यसि 002c
अत्राप्युदाहरन्तीमा गाथा देवैरुदाहृताः 003a
ऋषिरासीत्पुरा पुत्र बालधिर्नाम वीर्यवान् 003c
स पुत्रशोकादुद्विग्नस्तपस्तेपे सुदुश्चरम् 004a
भवेन्मम सुतोऽमर्त्य इति तं लब्धवांश्च सः 004c
तस्य प्रसादो देवैश्च कृतो न त्वमरैः समः 005a
नामर्त्यो विद्यते मर्त्यो निमित्तायुर्भविष्यति 005c
बालधिरुवाच 006
यथेमे पर्वताः शश्वत्तिष्ठन्ति सुरसत्तमाः 006a
अक्षयास्तन्निमित्तं मे सुतस्यायुर्भवेदिति 006c
भरद्वाज उवाच 007
तस्य पुत्रस्तदा जज्ञे मेधावी क्रोधनः सदा 007a
स तच्छ्रुत्वाकरोद्दर्पमृषींश्चैवावमन्यत 007c
विकुर्वाणो मुनीनां तु चरमाणो महीमिमाम् 008a
आससाद महावीर्यं धनुषाक्षं मनीषिणम् 008c
तस्यापचक्रे मेधावी तं शशाप स वीर्यवान् 009a
भव भस्मेति चोक्तः स न भस्म समपद्यत 009c
धनुषाक्षस्तु तं दृष्ट्वा मेधाविनमनामयम् 010a
निमित्तमस्य महिषैर्भेदयामास वीर्यवान् 010c
स निमित्ते विनष्टे तु ममार सहसा शिशुः 011a
तं मृतं पुत्रमादाय विललाप ततः पिता 011c
लालप्यमानं तं दृष्ट्वा मुनयः पुनरार्तवत् 012a
ऊचुर्वेदोक्तया पूर्वं गाथया तन्निबोध मे 012c
न दिष्टमर्थमत्येतुमीशो मर्त्यः कथञ्चन 013a
महिषैर्भेदयामास धनुषाक्षो महीधरान् 013c
एवं लब्ध्वा वरान्बाला दर्पपूर्णास्तरस्विनः 014a
क्षिप्रमेव विनश्यन्ति यथा न स्यात्तथा भवान् 014c
एष रैभ्यो महावीर्यः पुत्रौ चास्य तथाविधौ 015a
तं यथा पुत्र नाभ्येषि तथा कुर्यास्त्वतन्द्रितः 015c
स हि क्रुद्धः समर्थस्त्वां पुत्र पीडयितुं रुषा 016a
वैद्यश्चापि तपस्वी च कोपनश्च महानृषिः 016c
यवक्रीरुवाच 017
एवं करिष्ये मा तापं तात कार्षीः कथञ्चन 017a
यथा हि मे भवान्मान्यस्तथा रैभ्यः पिता मम 017c
लोमश उवाच 018
उक्त्वा स पितरं श्लक्ष्णं यवक्रीरकुतोभयः 018a
विप्रकुर्वन्नृषीनन्यानतुष्यत्परया मुदा 018c