लोमश उवाच 001
एषा मधुविला राजन्समङ्गा सम्प्रकाशते 001a
एतत्कर्दमिलं नाम भरतस्याभिषेचनम् 001c
अलक्ष्म्या किल संयुक्तो वृत्रं हत्वा शचीपतिः 002a
आप्लुतः सर्वपापेभ्यः समङ्गायां व्यमुच्यत 002c
एतद्विनशनं कुक्षौ मैनाकस्य नरर्षभ 003a
अदितिर्यत्र पुत्रार्थं तदन्नमपचत्पुरा 003c
एनं पर्वतराजानमारुह्य पुरुषर्षभ 004a
अयशस्यामसंशब्द्यामलक्ष्मीं व्यपनोत्स्यथ 004c
एते कनखला राजनृषीणां दयिता नगाः 005a
एषा प्रकाशते गङ्गा युधिष्ठिर महानदी 005c
सनत्कुमारो भगवानत्र सिद्धिमगात्पराम् 006a
आजमीढावगाह्यैनां सर्वपापैः प्रमोक्ष्यसे 006c
अपां ह्रदं च पुण्याख्यं भृगुतुङ्गं च पर्वतम् 007a
तूष्णीं गङ्गां च कौन्तेय सामात्यः समुपस्पृश 007c
आश्रमः स्थूलशिरसो रमणीयः प्रकाशते 008a
अत्र मानं च कौन्तेय क्रोधं चैव विवर्जय 008c
एष रैभ्याश्रमः श्रीमान्पाण्डवेय प्रकाशते 009a
भारद्वाजो यत्र कविर्यवक्रीतो व्यनश्यत 009c
युधिष्ठिर उवाच 010
कथंयुक्तोऽभवदृषिर्भरद्वाजः प्रतापवान् 010a
किमर्थं च यवक्रीत ऋषिपुत्रो व्यनश्यत 010c
एतत्सर्वं यथावृत्तं श्रोतुमिच्छामि लोमश 011a
कर्मभिर्देवकल्पानां कीर्त्यमानैर्भृशं रमे 011c
लोमश उवाच 012
भरद्वाजश्च रैभ्यश्च सखायौ सम्बभूवतुः 012a
तावूषतुरिहात्यन्तं प्रीयमाणौ वनान्तरे 012c
रैभ्यस्य तु सुतावास्तामर्वावसुपरावसू 013a
आसीद्यवक्रीः पुत्रस्तु भरद्वाजस्य भारत 013c
रैभ्यो विद्वान्सहापत्यस्तपस्वी चेतरोऽभवत् 014a
तयोश्चाप्यतुला प्रीतिर्बाल्यात्प्रभृति भारत 014c
यवक्रीः पितरं दृष्ट्वा तपस्विनमसत्कृतम् 015a
दृष्ट्वा च सत्कृतं विप्रै रैभ्यं पुत्रैः सहानघ 015c
पर्यतप्यत तेजस्वी मन्युनाभिपरिप्लुतः 016a
तपस्तेपे ततो घोरं वेदज्ञानाय पाण्डव 016c
सुसमिद्धे महत्यग्नौ शरीरमुपतापयन् 017a
जनयामास सन्तापमिन्द्रस्य सुमहातपाः 017c
तत इन्द्रो यवक्रीतमुपगम्य युधिष्ठिर 018a
अब्रवीत्कस्य हेतोस्त्वमास्थितस्तप उत्तमम् 018c
यवक्रीरुवाच 019
द्विजानामनधीता वै वेदाः सुरगणार्चित 019a
प्रतिभान्त्विति तप्येऽहमिदं परमकं तपः 019c
स्वाध्यायार्थे समारम्भो ममायं पाकशासन 020a
तपसा ज्ञातुमिच्छामि सर्वज्ञानानि कौशिक 020c
कालेन महता वेदाः शक्या गुरुमुखाद्विभो 021a
प्राप्तुं तस्मादयं यत्नः परमो मे समास्थितः 021c
इन्द्र उवाच 022
अमार्ग एष विप्रर्षे येन त्वं यातुमिच्छसि 022a
किं विघातेन ते विप्र गच्छाधीहि गुरोर्मुखात् 022c
लोमश उवाच 023
एवमुक्त्वा गतः शक्रो यवक्रीरपि भारत 023a
भूय एवाकरोद्यत्नं तपस्यमितविक्रम 023c
घोरेण तपसा राजंस्तप्यमानो महातपाः 024a
सन्तापयामास भृशं देवेन्द्रमिति नः श्रुतम् 024c
तं तथा तप्यमानं तु तपस्तीव्रं महामुनिम् 025a
उपेत्य बलभिद्देवो वारयामास वै पुनः 025c
अशक्योऽर्थः समारब्धो नैतद्बुद्धिकृतं तव 026a
प्रतिभास्यन्ति वै वेदास्तव चैव पितुश्च ते 026c
यवक्रीरुवाच 027
न चैतदेवं क्रियते देवराज ममेप्सितम् 027a
महता नियमेनाहं तप्स्ये घोरतरं तपः 027c
समिद्धेऽग्नावुपकृत्याङ्गमङ्गं होष्यामि वा मघवंस्तन्निबोध 028a
यद्येतदेवं न करोषि कामं ममेप्सितं देवराजेह सर्वम् 028c
लोमश उवाच 029
निश्चयं तमभिज्ञाय मुनेस्तस्य महात्मनः 029a
प्रतिवारणहेत्वर्थं बुद्ध्या सञ्चिन्त्य बुद्धिमान् 029c
तत इन्द्रोऽकरोद्रूपं ब्राह्मणस्य तपस्विनः 030a
अनेकशतवर्षस्य दुर्बलस्य सयक्ष्मणः 030c
यवक्रीतस्य यत्तीर्थमुचितं शौचकर्मणि 031a
भागीरथ्यां तत्र सेतुं वालुकाभिश्चकार सः 031c
यदास्य वदतो वाक्यं न स चक्रे द्विजोत्तमः 032a
वालुकाभिस्ततः शक्रो गङ्गां समभिपूरयन् 032c
वालुकामुष्टिमनिशं भागीरथ्यां व्यसर्जयत् 033a
सेतुमभ्यारभच्छक्रो यवक्रीतं निदर्शयन् 033c
तं ददर्श यवक्रीस्तु यत्नवन्तं निबन्धने 034a
प्रहसंश्चाब्रवीद्वाक्यमिदं स मुनिपुङ्गवः 034c
किमिदं वर्तते ब्रह्मन्किं च ते ह चिकीर्षितम् 035a
अतीव हि महान्यत्नः क्रियतेऽयं निरर्थकः 035c
इन्द्र उवाच 036
बन्धिष्ये सेतुना गङ्गां सुखः पन्था भविष्यति 036a
क्लिश्यते हि जनस्तात तरमाणः पुनः पुनः 036c
यवक्रीरुवाच 037
नायं शक्यस्त्वया बद्धुं महानोघः कथञ्चन 037a
अशक्याद्विनिवर्तस्व शक्यमर्थं समारभ 037c
इन्द्र उवाच 038
यथैव भवता चेदं तपो वेदार्थमुद्यतम् 038a
अशक्यं तद्वदस्माभिरयं भारः समुद्यतः 038c
यवक्रीरुवाच 039
यथा तव निरर्थोऽयमारम्भस्त्रिदशेश्वर 039a
तथा यदि ममापीदं मन्यसे पाकशासन 039c
क्रियतां यद्भवेच्छक्यं मया सुरगणेश्वर 040a
वरांश्च मे प्रयच्छान्यान्यैरन्यान्भवितास्म्यति 040c
लोमश उवाच 041
तस्मै प्रादाद्वरानिन्द्र उक्तवान्यान्महातपाः 041a
प्रतिभास्यन्ति ते वेदाः पित्रा सह यथेप्सिताः 041c
यच्चान्यत्काङ्क्षसे कामं यवक्रीर्गम्यतामिति 042a
स लब्धकामः पितरमुपेत्याथ ततोऽब्रवीत् 042c