अष्टावक्र उवाच 001
अत्रोग्रसेनसमितेषु राजन्समागतेष्वप्रतिमेषु राजसु 001a
न वै विवित्सान्तरमस्ति वादिनां महाजले हंसनिनादिनामिव 001c
न मेऽद्य वक्ष्यस्यतिवादिमानिन्ग्लहं प्रपन्नः सरितामिवागमः 002a
हुताशनस्येव समिद्धतेजसः स्थिरो भवस्वेह ममाद्य बन्दिन् 002c
बन्द्युवाच 003
व्याघ्रं शयानं प्रति मा प्रबोधय आशीविषं सृक्किणी लेलिहानम् 003a
पदाहतस्येव शिरोऽभिहत्य नादष्टो वै मोक्ष्यसे तन्निबोध 003c
यो वै दर्पात्संहननोपपन्नः सुदुर्बलः पर्वतमाविहन्ति 004a
तस्यैव पाणिः सनखो विशीर्यते न चैव शैलस्य हि दृश्यते व्रणः 004c
सर्वे राज्ञो मैथिलस्य मैनाकस्येव पर्वताः 005a
निकृष्टभूता राजानो वत्सा अनडुहो यथा 005c
लोमश उवाच 006
अष्टावक्रः समितौ गर्जमानो जातक्रोधो बन्दिनमाह राजन् 006a
उक्ते वाक्ये चोत्तरं मे ब्रवीहि वाक्यस्य चाप्युत्तरं ते ब्रवीमि 006c
बन्द्युवाच 007
एक एवाग्निर्बहुधा समिध्यते एकः सूर्यः सर्वमिदं प्रभासते 007a
एको वीरो देवराजो निहन्ता यमः पितॄणामीश्वरश्चैक एव 007c
अष्टावक्र उवाच 008
द्वाविन्द्राग्नी चरतो वै सखायौ द्वौ देवर्षी नारदः पर्वतश्च 008a
द्वावश्विनौ द्वे च रथस्य चक्रे भार्यापती द्वौ विहितौ विधात्रा 008c
बन्द्युवाच 009
त्रिः सूयते कर्मणा वै प्रजेयं त्रयो युक्ता वाजपेयं वहन्ति 009a
अध्वर्यवस्त्रिषवणानि तन्वते त्रयो लोकास्त्रीणि ज्योतींषि चाहुः 009c
अष्टावक्र उवाच 010
चतुष्टयं ब्राह्मणानां निकेतं चत्वारो युक्ता यज्ञमिमं वहन्ति 010a
दिशश्चतस्रश्चतुरश्च वर्णाश्चतुष्पदा गौरपि शश्वदुक्ता 010c
बन्द्युवाच 011
पञ्चाग्नयः पञ्चपदा च पङ्क्तिर्यज्ञाः पञ्चैवाप्यथ पञ्चेन्द्रियाणि 011a
दृष्टा वेदे पञ्चचूडाश्च पञ्च लोके ख्यातं पञ्चनदं च पुण्यम् 011c
अष्टावक्र उवाच 012
षडाधाने दक्षिणामाहुरेके षडेवेमे ऋतवः कालचक्रम् 012a
षडिन्द्रियाण्युत षट्कृत्तिकाश्च षट्साद्यस्काः सर्ववेदेषु दृष्टाः 012c
बन्द्युवाच 013
सप्त ग्राम्याः पशवः सप्त वन्याः सप्त छन्दांसि क्रतुमेकं वहन्ति 013a
सप्तर्षयः सप्त चाप्यर्हणानि सप्ततन्त्री प्रथिता चैव वीणा 013c
अष्टावक्र उवाच 014
अष्टौ शाणाः शतमानं वहन्ति तथाष्टपादः शरभः सिंहघाती 014a
अष्टौ वसूञ्शुश्रुम देवतासु यूपश्चाष्टास्रिर्विहितः सर्वयज्ञः 014c
बन्द्युवाच 015
नवैवोक्ताः सामिधेन्यः पितॄणां तथा प्राहुर्नवयोगं विसर्गम् 015a
नवाक्षरा बृहती सम्प्रदिष्टा नवयोगो गणनामेति शश्वत् 015c
अष्टावक्र उवाच 016
दशा दशोक्ताः पुरुषस्य लोके सहस्रमाहुर्दश पूर्णं शतानि 016a
दशैव मासान्बिभ्रति गर्भवत्यो दशेरका दश दाशा दशार्णाः 016c
बन्द्युवाच 017
एकादशैकादशिनः पशूनामेकादशैवात्र भवन्ति यूपाः 017a
एकादश प्राणभृतां विकारा एकादशोक्ता दिवि देवेषु रुद्राः 017c
अष्टावक्र उवाच 018
संवत्सरं द्वादश मासमाहुर्जगत्याः पादो द्वादशैवाक्षराणि 018a
द्वादशाहः प्राकृतो यज्ञ उक्तो द्वादशादित्यान्कथयन्तीह विप्राः 018c
बन्द्युवाच 019
त्रयोदशी तिथिरुक्ता महोग्रा त्रयोदशद्वीपवती मही च 019a
लोमश उवाच 020
एतावदुक्त्वा विरराम बन्दी श्लोकस्यार्धं व्याजहाराष्टवक्रः 020a
त्रयोदशाहानि ससार केशी त्रयोदशादीन्यतिच्छन्दांसि चाहुः 020c
ततो महानुदतिष्ठन्निनादस्तूष्णीम्भूतं सूतपुत्रं निशम्य 021a
अधोमुखं ध्यानपरं तदानीमष्टावक्रं चाप्युदीर्यन्तमेव 021c
तस्मिंस्तथा सङ्कुले वर्तमाने स्फीते यज्ञे जनकस्याथ राज्ञः 022a
अष्टावक्रं पूजयन्तोऽभ्युपेयुर्विप्राः सर्वे प्राञ्जलयः प्रतीताः 022c
अष्टावक्र उवाच 023
अनेन वै ब्राह्मणाः शुश्रुवांसो वादे जित्वा सलिले मज्जिताः किल 023a
तानेव धर्मानयमद्य बन्दी प्राप्नोतु गृह्याप्सु निमज्जयैनम् 023c
बन्द्युवाच 024
अहं पुत्रो वरुणस्योत राज्ञस्तत्रास सत्रं द्वादशवार्षिकं वै 024a
सत्रेण ते जनक तुल्यकालं तदर्थं ते प्रहिता मे द्विजाग्र्याः 024c
एते सर्वे वरुणस्योत यज्ञं द्रष्टुं गता इह आयान्ति भूयः 025a
अष्टावक्रं पूजये पूजनीयं यस्य हेतोर्जनितारं समेष्ये 025c
अष्टावक्र उवाच 026
विप्राः समुद्राम्भसि मज्जितास्ते वाचा जिता मेधया आविदानाः 026a
तां मेधया वाचमथोज्जहार यथा वाचमवचिन्वन्ति सन्तः 026c
अग्निर्दहञ्जातवेदाः सतां गृहान्विसर्जयंस्तेजसा न स्म धाक्षीत् 027a
बालेषु पुत्रेषु कृपणं वदत्सु तथा वाचमवचिन्वन्ति सन्तः 027c
श्लेष्मातकी क्षीणवर्चाः शृणोषि उताहो त्वां स्तुतयो मादयन्ति 028a
हस्तीव त्वं जनक वितुद्यमानो न मामिकां वाचमिमां शृणोषि 028c
जनक उवाच 029
शृणोमि वाचं तव दिव्यरूपाममानुषीं दिव्यरूपोऽसि साक्षात् 029a
अजैषीर्यद्बन्दिनं त्वं विवादे निसृष्ट एष तव कामोऽद्य बन्दी 029c
अष्टावक्र उवाच 030
नानेन जीवता कश्चिदर्थो मे बन्दिना नृप 030a
पिता यद्यस्य वरुणो मज्जयैनं जलाशये 030c
बन्द्युवाच 031
अहं पुत्रो वरुणस्योत राज्ञो न मे भयं सलिले मज्जितस्य 031a
इमं मुहूर्तं पितरं द्रक्ष्यतेऽयमष्टावक्रश्चिरनष्टं कहोडम् 031c
लोमश उवाच 032
ततस्ते पूजिता विप्रा वरुणेन महात्मना 032a
उदतिष्ठन्त ते सर्वे जनकस्य समीपतः 032c
कहोड उवाच 033
इत्यर्थमिच्छन्ति सुताञ्जना जनक कर्मणा 033a
यदहं नाशकं कर्तुं तत्पुत्रः कृतवान्मम 033c
उताबलस्य बलवानुत बालस्य पण्डितः 034a
उत वाविदुषो विद्वान्पुत्रो जनक जायते 034c
बन्द्युवाच 035
शितेन ते परशुना स्वयमेवान्तको नृप 035a
शिरांस्यपाहरत्वाजौ रिपूणां भद्रमस्तु ते 035c
महदुक्थ्यं गीयते साम चाग्र्यं सम्यक्सोमः पीयते चात्र सत्रे 036a
शुचीन्भागान्प्रतिजगृहुश्च हृष्टाः साक्षाद्देवा जनकस्येह यज्ञे 036c
लोमश उवाच 037
समुत्थितेष्वथ सर्वेषु राजन्विप्रेषु तेष्वधिकं सुप्रभेषु 037a
अनुज्ञातो जनकेनाथ राज्ञा विवेश तोयं सागरस्योत बन्दी 037c
अष्टावक्रः पितरं पूजयित्वा सम्पूजितो ब्राह्मणैस्तैर्यथावत् 038a
प्रत्याजगामाश्रममेव चाग्र्यं जित्वा बन्दिं सहितो मातुलेन 038c
अत्र कौन्तेय सहितो भ्रातृभिस्त्वं सुखोषितः सह विप्रैः प्रतीतः 039a
पुण्यान्यन्यानि शुचिकर्मैकभक्तिर्मया सार्धं चरितास्याजमीढ 039c