अष्टावक्र उवाच 001
अन्धस्य पन्था बधिरस्य पन्थाः स्त्रियः पन्था वैवधिकस्य पन्थाः 001a
राज्ञः पन्था ब्राह्मणेनासमेत्य समेत्य तु ब्राह्मणस्यैव पन्थाः 001c
राजोवाच 002
पन्था अयं तेऽद्य मया निसृष्टो येनेच्छसे तेन कामं व्रजस्व 002a
न पावको विद्यते वै लघीयानिन्द्रोऽपि नित्यं नमते ब्राह्मणानाम् 002c
अष्टावक्र उवाच 003
यज्ञं द्रष्टुं प्राप्तवन्तौ स्व तात कौतूहलं नौ बलवद्वै विवृद्धम् 003a
आवां प्राप्तावतिथी सम्प्रवेशं काङ्क्षावहे द्वारपते तवाज्ञाम् 003c
ऐन्द्रद्युम्नेर्यज्ञदृशाविहावां विवक्षू वै जनकेन्द्रं दिदृक्षू 004a
न वै क्रोधाद्व्याधिनैवोत्तमेन संयोजय द्वारपाल क्षणेन 004c
द्वारपाल उवाच 005
बन्देः समादेशकरा वयं स्म निबोध वाक्यं च मयेर्यमाणम् 005a
न वै बालाः प्रविशन्त्यत्र विप्रा वृद्धा विद्वांसः प्रविशन्ति द्विजाग्र्याः 005c
अष्टावक्र उवाच 006
यद्यत्र वृद्धेषु कृतः प्रवेशो युक्तं मम द्वारपाल प्रवेष्टुम् 006a
वयं हि वृद्धाश्चरितव्रताश्च वेदप्रभावेन प्रवेशनार्हाः 006c
शुश्रूषवश्चापि जितेन्द्रियाश्च ज्ञानागमे चापि गताः स्म निष्ठाम् 007a
न बाल इत्यवमन्तव्यमाहुर्बालोऽप्यग्निर्दहति स्पृश्यमानः 007c
द्वारपाल उवाच 008
सरस्वतीमीरय वेदजुष्टामेकाक्षरां बहुरूपां विराजम् 008a
अङ्गात्मानं समवेक्षस्व बालं किं श्लाघसे दुर्लभा वादसिद्धिः 008c
अष्टावक्र उवाच 009
न ज्ञायते कायवृद्ध्या विवृद्धिर्यथाष्ठीला शाल्मलेः सम्प्रवृद्धा 009a
ह्रस्वोऽल्पकायः फलितो विवृद्धो यश्चाफलस्तस्य न वृद्धभावः 009c
द्वारपाल उवाच 010
वृद्धेभ्य एवेह मतिं स्म बाला गृह्णन्ति कालेन भवन्ति वृद्धाः 010a
न हि ज्ञानमल्पकालेन शक्यं कस्माद्बालो वृद्ध इवावभाषसे 010c
अष्टावक्र उवाच 011
न तेन स्थविरो भवति येनास्य पलितं शिरः 011a
बालोऽपि यः प्रजानाति तं देवाः स्थविरं विदुः 011c
न हायनैर्न पलितैर्न वित्तेन न बन्धुभिः 012a
ऋषयश्चक्रिरे धर्मं योऽनूचानः स नो महान् 012c
दिदृक्षुरस्मि सम्प्राप्तो बन्दिनं राजसंसदि 013a
निवेदयस्व मां द्वाःस्थ राज्ञे पुष्करमालिने 013c
द्रष्टास्यद्य वदतो द्वारपाल मनीषिभिः सह वादे विवृद्धे 014a
उताहो वाप्युच्चतां नीचतां वा तूष्णीं भूतेष्वथ सर्वेषु चाद्य 014c
द्वारपाल उवाच 015
कथं यज्ञं दशवर्षो विशेस्त्वं विनीतानां विदुषां सम्प्रवेश्यम् 015a
उपायतः प्रयतिष्ये तवाहं प्रवेशने कुरु यत्नं यथावत् 015c
अष्टावक्र उवाच 016
भो भो राजञ्जनकानां वरिष्ठ सभाज्यस्त्वं त्वयि सर्वं समृद्धम् 016a
त्वं वा कर्ता कर्मणां यज्ञियानां ययातिरेको नृपतिर्वा पुरस्तात् 016c
विद्वान्बन्दी वेदविदो निगृह्य वादे भग्नानप्रतिशङ्कमानः 017a
त्वया निसृष्टैः पुरुषैराप्तकृद्भिर्जले सर्वान्मज्जयतीति नः श्रुतम् 017c
स तच्छ्रुत्वा ब्राह्मणानां सकाशाद्ब्रह्मोद्यं वै कथयितुमागतोऽस्मि 018a
क्वासौ बन्दी यावदेनं समेत्य नक्षत्राणीव सविता नाशयामि 018c
राजोवाच 019
आशंससे बन्दिनं त्वं विजेतुमविज्ञात्वा वाक्यबलं परस्य 019a
विज्ञातवीर्यैः शक्यमेवं प्रवक्तुं दृष्टश्चासौ ब्राह्मणैर्वादशीलैः 019c
अष्टावक्र उवाच 020
विवादितोऽसौ न हि मादृशैर्हि सिंहीकृतस्तेन वदत्यभीतः 020a
समेत्य मां निहतः शेष्यतेऽद्य मार्गे भग्नं शकटमिवाबलाक्षम् 020c
राजोवाच 021
षण्णाभेर्द्वादशाक्षस्य चतुर्विंशतिपर्वणः 021a
यस्त्रिषष्टिशतारस्य वेदार्थं स परः कविः 021c
अष्टावक्र उवाच 022
चतुर्विंशतिपर्व त्वां षण्णाभि द्वादशप्रधि 022a
तत्त्रिषष्टिशतारं वै चक्रं पातु सदागति 022c
राजोवाच 023
वडवे इव संयुक्ते श्येनपाते दिवौकसाम् 023a
कस्तयोर्गर्भमाधत्ते गर्भं सुषुवतुश्च कम् 023c
अष्टावक्र उवाच 024
मा स्म ते ते गृहे राजञ्शात्रवाणामपि ध्रुवम् 024a
वातसारथिराधत्ते गर्भं सुषुवतुश्च तम् 024c
राजोवाच 025
किं स्वित्सुप्तं न निमिषति किं स्विज्जातं न चोपति 025a
कस्य स्विद्धृदयं नास्ति किं स्विद्वेगेन वर्धते 025c
अष्टावक्र उवाच 026
मत्स्यः सुप्तो न निमिषत्यण्डं जातं न चोपति 026a
अश्मनो हृदयं नास्ति नदी वेगेन वर्धते 026c
राजोवाच 027
न त्वा मन्ये मानुषं देवसत्त्वं न त्वं बालः स्थविरस्त्वं मतो मे 027a
न ते तुल्यो विद्यते वाक्प्रलापे तस्माद्द्वारं वितराम्येष बन्दी 027c