लोमश उवाच 001
यः कथ्यते मन्त्रविदग्र्यबुद्धिरौद्दालकिः श्वेतकेतुः पृथिव्याम् 001a
तस्याश्रमं पश्य नरेन्द्र पुण्यं सदाफलैरुपपन्नं महीजैः 001c
साक्षादत्र श्वेतकेतुर्ददर्श सरस्वतीं मानुषदेहरूपाम् 002a
वेत्स्यामि वाणीमिति सम्प्रवृत्तां सरस्वतीं श्वेतकेतुर्बभाषे 002c
तस्मिन्काले ब्रह्मविदां वरिष्ठावास्तां तदा मातुलभागिनेयौ 003a
अष्टावक्रश्चैव कहोडसूनुरौद्दालकिः श्वेतकेतुश्च राजन् 003c
विदेहराजस्य महीपतेस्तौ विप्रावुभौ मातुलभागिनेयौ 004a
प्रविश्य यज्ञायतनं विवादे बन्दिं निजग्राहतुरप्रमेयम् 004c
युधिष्ठिर उवाच 005
कथम्प्रभावः स बभूव विप्रस्तथायुक्तं यो निजग्राह बन्दिम् 005a
अष्टावक्रः केन चासौ बभूव तत्सर्वं मे लोमश शंस तत्त्वम् 005c
लोमश उवाच 006
उद्दालकस्य नियतः शिष्य एको नाम्ना कहोडेति बभूव राजन् 006a
शुश्रूषुराचार्यवशानुवर्ती दीर्घं कालं सोऽध्ययनं चकार 006c
तं वै विप्राः पर्यभवंश्च शिष्यास्तं च ज्ञात्वा विप्रकारं गुरुः सः 007a
तस्मै प्रादात्सद्य एव श्रुतं च भार्यां च वै दुहितरं स्वां सुजाताम् 007c
तस्या गर्भः समभवदग्निकल्पः सोऽधीयानं पितरमथाभ्युवाच 008a
सर्वां रात्रिमध्ययनं करोषि नेदं पितः सम्यगिवोपवर्तते 008c
उपालब्धः शिष्यमध्ये महर्षिः स तं कोपादुदरस्थं शशाप 009a
यस्मात्कुक्षौ वर्तमानो ब्रवीषि तस्माद्वक्रो भवितास्यष्टकृत्वः 009c
स वै तथा वक्र एवाभ्यजायदष्टावक्रः प्रथितो वै महर्षिः 010a
तस्यासीद्वै मातुलः श्वेतकेतुः स तेन तुल्यो वयसा बभूव 010c
सम्पीड्यमाना तु तदा सुजाता विवर्धमानेन सुतेन कुक्षौ 011a
उवाच भर्तारमिदं रहोगता प्रसाद्य हीनं वसुना धनार्थिनी 011c
कथं करिष्याम्यधना महर्षे मासश्चायं दशमो वर्तते मे 012a
न चास्ति ते वसु किञ्चित्प्रजाता येनाहमेतामापदं निस्तरेयम् 012c
उक्तस्त्वेवं भार्यया वै कहोडो वित्तस्यार्थे जनकमथाभ्यगच्छत् 013a
स वै तदा वादविदा निगृह्य निमज्जितो बन्दिनेहाप्सु विप्रः 013c
उद्दालकस्तं तु तदा निशम्य सूतेन वादेऽप्सु तथा निमज्जितम् 014a
उवाच तां तत्र ततः सुजातामष्टावक्रे गूहितव्योऽयमर्थः 014c
ररक्ष सा चाप्यति तं सुमन्त्रं जातोऽप्येवं न स शुश्राव विप्रः 015a
उद्दालकं पितृवच्चापि मेने अष्टावक्रो भ्रातृवच्छ्वेतकेतुम् 015c
ततो वर्षे द्वादशे श्वेतकेतुरष्टावक्रं पितुरङ्के निषण्णम् 016a
अपाकर्षद्गृह्य पाणौ रुदन्तं नायं तवाङ्कः पितुरित्युक्तवांश्च 016c
यत्तेनोक्तं दुरुक्तं तत्तदानीं हृदि स्थितं तस्य सुदुःखमासीत् 017a
गृहं गत्वा मातरं रोदमानः पप्रच्छेदं क्व नु तातो ममेति 017c
ततः सुजाता परमार्तरूपा शापाद्भीता सर्वमेवाचचक्षे 018a
तद्वै तत्त्वं सर्वमाज्ञाय मातुरित्यब्रवीच्छ्वेतकेतुं स विप्रः 018c
गच्छाव यज्ञं जनकस्य राज्ञो बह्वाश्चर्यः श्रूयते तस्य यज्ञः 019a
श्रोष्यावोऽत्र ब्राह्मणानां विवादमन्नं चाग्र्यं तत्र भोक्ष्यावहे च 019c
विचक्षणत्वं च भविष्यते नौ शिवश्च सौम्यश्च हि ब्रह्मघोषः 019e
तौ जग्मतुर्मातुलभागिनेयौ यज्ञं समृद्धं जनकस्य राज्ञः 020a
अष्टावक्रः पथि राज्ञा समेत्य उत्सार्यमाणो वाक्यमिदं जगाद 020c