श्येन उवाच 001
धर्मात्मानं त्वाहुरेकं सर्वे राजन्महीक्षितः 001a
स वै धर्मविरुद्धं त्वं कस्मात्कर्म चिकीर्षसि 001c
विहितं भक्षणं राजन्पीड्यमानस्य मे क्षुधा 002a
मा भाङ्क्षीर्धर्मलोभेन धर्ममुत्सृष्टवानसि 002c
राजोवाच 003
सन्त्रस्तरूपस्त्राणार्थी त्वत्तो भीतो महाद्विज 003a
मत्सकाशमनुप्राप्तः प्राणगृध्नुरयं द्विजः 003c
एवमभ्यागतस्येह कपोतस्याभयार्थिनः 004a
अप्रदाने परोऽधर्मः किं त्वं श्येन प्रपश्यसि 004c
प्रस्पन्दमानः सम्भ्रान्तः कपोतः श्येन लक्ष्यते 005a
मत्सकाशं जीवितार्थी तस्य त्यागो विगर्हितः 005c
श्येन उवाच 006
आहारात्सर्वभूतानि सम्भवन्ति महीपते 006a
आहारेण विवर्धन्ते तेन जीवन्ति जन्तवः 006c
शक्यते दुस्त्यजेऽप्यर्थे चिररात्राय जीवितुम् 007a
न तु भोजनमुत्सृज्य शक्यं वर्तयितुं चिरम् 007c
भक्ष्याद्विलोपितस्याद्य मम प्राणा विशां पते 008a
विसृज्य कायमेष्यन्ति पन्थानमपुनर्भवम् 008c
प्रमृते मयि धर्मात्मन्पुत्रदारं नशिष्यति 009a
रक्षमाणः कपोतं त्वं बहून्प्राणान्नशिष्यसि 009c
धर्मं यो बाधते धर्मो न स धर्मः कुधर्म तत् 010a
अविरोधी तु यो धर्मः स धर्मः सत्यविक्रम 010c
विरोधिषु महीपाल निश्चित्य गुरुलाघवम् 011a
न बाधा विद्यते यत्र तं धर्मं समुदाचरेत् 011c
गुरुलाघवमाज्ञाय धर्माधर्मविनिश्चये 012a
यतो भूयांस्ततो राजन्कुरु धर्मविनिश्चयम् 012c
राजोवाच 013
बहुकल्याणसंयुक्तं भाषसे विहगोत्तम 013a
सुपर्णः पक्षिराट्किं त्वं धर्मज्ञश्चास्यसंशयम् 013c
तथा हि धर्मसंयुक्तं बहु चित्रं प्रभाषसे 013e
न तेऽस्त्यविदितं किञ्चिदिति त्वा लक्षयाम्यहम् 014a
शरणैषिणः परित्यागं कथं साध्विति मन्यसे 014c
आहारार्थं समारम्भस्तव चायं विहङ्गम 015a
शक्यश्चाप्यन्यथा कर्तुमाहारोऽप्यधिकस्त्वया 015c
गोवृषो वा वराहो वा मृगो वा महिषोऽपि वा 016a
त्वदर्थमद्य क्रियतां यद्वान्यदभिकाङ्क्षसे 016c
श्येन उवाच 017
न वराहं न चोक्षाणं न मृगान्विविधांस्तथा 017a
भक्षयामि महाराज किमन्नाद्येन तेन मे 017c
यस्तु मे दैवविहितो भक्षः क्षत्रियपुङ्गव 018a
तमुत्सृज महीपाल कपोतमिममेव मे 018c
श्येनाः कपोतान्खादन्ति स्थितिरेषा सनातनी 019a
मा राजन्मार्गमाज्ञाय कदलीस्कन्धमारुह 019c
राजोवाच 020
राज्यं शिबीनामृद्धं वै शाधि पक्षिगणार्चित 020a
यद्वा कामयसे किञ्चिच्छ्येन सर्वं ददानि ते 020c
विनेमं पक्षिणं श्येन शरणार्थिनमागतम् 020e
येनेमं वर्जयेथास्त्वं कर्मणा पक्षिसत्तम 021a
तदाचक्ष्व करिष्यामि न हि दास्ये कपोतकम् 021c
श्येन उवाच 022
उशीनर कपोते ते यदि स्नेहो नराधिप 022a
आत्मनो मांसमुत्कृत्य कपोततुलया धृतम् 022c
यदा समं कपोतेन तव मांसं भवेन्नृप 023a
तदा प्रदेयं तन्मह्यं सा मे तुष्टिर्भविष्यति 023c
राजोवाच 024
अनुग्रहमिमं मन्ये श्येन यन्माभियाचसे 024a
तस्मात्तेऽद्य प्रदास्यामि स्वमांसं तुलया धृतम् 024c
लोमश उवाच 025
अथोत्कृत्य स्वमांसं तु राजा परमधर्मवित् 025a
तुलयामास कौन्तेय कपोतेन सहाभिभो 025c
ध्रियमाणस्तु तुलया कपोतो व्यतिरिच्यते 026a
पुनश्चोत्कृत्य मांसानि राजा प्रादादुशीनरः 026c
न विद्यते यदा मांसं कपोतेन समं धृतम् 027a
तत उत्कृत्तमांसोऽसावारुरोह स्वयं तुलाम् 027c
श्येन उवाच 028
इन्द्रोऽहमस्मि धर्मज्ञ कपोतो हव्यवाडयम् 028a
जिज्ञासमानौ धर्मे त्वां यज्ञवाटमुपागतौ 028c
यत्ते मांसानि गात्रेभ्य उत्कृत्तानि विशां पते 029a
एषा ते भास्वरी कीर्तिर्लोकानभिभविष्यति 029c
यावल्लोके मनुष्यास्त्वां कथयिष्यन्ति पार्थिव 030a
तावत्कीर्तिश्च लोकाश्च स्थास्यन्ति तव शाश्वताः 030c
लोमश उवाच 031
तत्पाण्डवेय सदनं राज्ञस्तस्य महात्मनः 031a
पश्यस्वैतन्मया सार्धं पुण्यं पापप्रमोचनम् 031c
अत्र वै सततं देवा मुनयश्च सनातनाः 032a
दृश्यन्ते ब्राह्मणै राजन्पुण्यवद्भिर्महात्मभिः 032c