लोमश उवाच 001
इह मर्त्यास्तपस्तप्त्वा स्वर्गं गच्छन्ति भारत 001a
मर्तुकामा नरा राजन्निहायान्ति सहस्रशः 001c
एवमाशीः प्रयुक्ता हि दक्षेण यजता पुरा 002a
इह ये वै मरिष्यन्ति ते वै स्वर्गजितो नराः 002c
एषा सरस्वती पुण्या दिव्या चोघवती नदी 003a
एतद्विनशनं नाम सरस्वत्या विशां पते 003c
द्वारं निषादराष्ट्रस्य येषां द्वेषात्सरस्वती 004a
प्रविष्टा पृथिवीं वीर मा निषादा हि मां विदुः 004c
एष वै चमसोद्भेदो यत्र दृश्या सरस्वती 005a
यत्रैनामभ्यवर्तन्त दिव्याः पुण्याः समुद्रगाः 005c
एतत्सिन्धोर्महत्तीर्थं यत्रागस्त्यमरिन्दम 006a
लोपामुद्रा समागम्य भर्तारमवृणीत वै 006c
एतत्प्रभासते तीर्थं प्रभासं भास्करद्युते 007a
इन्द्रस्य दयितं पुण्यं पवित्रं पापनाशनम् 007c
एतद्विष्णुपदं नाम दृश्यते तीर्थमुत्तमम् 008a
एषा रम्या विपाशा च नदी परमपावनी 008c
अत्रैव पुत्रशोकेन वसिष्ठो भगवानृषिः 009a
बद्ध्वात्मानं निपतितो विपाशः पुनरुत्थितः 009c
काश्मीरमण्डलं चैतत्सर्वपुण्यमरिन्दम 010a
महर्षिभिश्चाध्युषितं पश्येदं भ्रातृभिः सह 010c
अत्रोत्तराणां सर्वेषामृषीणां नाहुषस्य च 011a
अग्नेश्चात्रैव संवादः काश्यपस्य च भारत 011c
एतद्द्वारं महाराज मानसस्य प्रकाशते 012a
वर्षमस्य गिरेर्मध्ये रामेण श्रीमता कृतम् 012c
एष वातिकषण्डो वै प्रख्यातः सत्यविक्रमः 013a
नाभ्यवर्तत यद्द्वारं विदेहानुत्तरं च यः 013c
एष उज्जानको नाम यवक्रीर्यत्र शान्तवान् 014a
अरुन्धतीसहायश्च वसिष्ठो भगवानृषिः 014c
ह्रदश्च कुशवानेष यत्र पद्मं कुशेशयम् 015a
आश्रमश्चैव रुक्मिण्या यत्राशाम्यदकोपना 015c
समाधीनां समासस्तु पाण्डवेय श्रुतस्त्वया 016a
तं द्रक्ष्यसि महाराज भृगुतुङ्गं महागिरिम् 016c
जलां चोपजलां चैव यमुनामभितो नदीम् 017a
उशीनरो वै यत्रेष्ट्वा वासवादत्यरिच्यत 017c
तां देवसमितिं तस्य वासवश्च विशां पते 018a
अभ्यगच्छत राजानं ज्ञातुमग्निश्च भारत 018c
जिज्ञासमानौ वरदौ महात्मानमुशीनरम् 019a
इन्द्रः श्येनः कपोतोऽग्निर्भूत्वा यज्ञेऽभिजग्मतुः 019c
ऊरुं राज्ञः समासाद्य कपोतः श्येनजाद्भयात् 020a
शरणार्थी तदा राजन्निलिल्ये भयपीडितः 020c