लोमश उवाच 001
अस्मिन्किल स्वयं राजन्निष्टवान्वै प्रजापतिः 001a
सत्रमिष्टीकृतं नाम पुरा वर्षसहस्रिकम् 001c
अम्बरीषश्च नाभाग इष्टवान्यमुनामनु 002a
यज्ञैश्च तपसा चैव परां सिद्धिमवाप सः 002c
देशो नाहुषयज्ञानामयं पुण्यतमो नृप 003a
यत्रेष्ट्वा दश पद्मानि सदस्येभ्यो निसृष्टवान् 003c
सार्वभौमस्य कौन्तेय ययातेरमितौजसः 004a
स्पर्धमानस्य शक्रेण पश्येदं यज्ञवास्त्विह 004c
पश्य नानाविधाकारैरग्निभिर्निचितां महीम् 005a
मज्जन्तीमिव चाक्रान्तां ययातेर्यज्ञकर्मभिः 005c
एषा शम्येकपत्रा सा शरकं चैतदुत्तमम् 006a
पश्य रामह्रदानेतान्पश्य नारायणाश्रमम् 006c
एतदार्चीकपुत्रस्य योगैर्विचरतो महीम् 007a
अपसर्पणं महीपाल रौप्यायाममितौजसः 007c
अत्रानुवंशं पठतः शृणु मे कुरुनन्दन 008a
उलूखलैराभरणैः पिशाची यदभाषत 008c
युगन्धरे दधि प्राश्य उषित्वा चाच्युतस्थले 009a
तद्वद्भूतिलये स्नात्वा सपुत्रा वस्तुमिच्छसि 009c
एकरात्रमुषित्वेह द्वितीयं यदि वत्स्यसि 010a
एतद्वै ते दिवा वृत्तं रात्रौ वृत्तमतोऽन्यथा 010c
अत्राद्याहो निवत्स्यामः क्षपां भरतसत्तम 011a
द्वारमेतद्धि कौन्तेय कुरुक्षेत्रस्य भारत 011c
अत्रैव नाहुषो राजा राजन्क्रतुभिरिष्टवान् 012a
ययातिर्बहुरत्नाढ्यैर्यत्रेन्द्रो मुदमभ्यगात् 012c
एतत्प्लक्षावतरणं यमुनातीर्थमुच्यते 013a
एतद्वै नाकपृष्ठस्य द्वारमाहुर्मनीषिणः 013c
अत्र सारस्वतैर्यज्ञैरीजानाः परमर्षयः 014a
यूपोलूखलिनस्तात गच्छन्त्यवभृथाप्लवम् 014c
अत्रैव भरतो राजा मेध्यमश्वमवासृजत् 015a
असकृत्कृष्णसारङ्गं धर्मेणावाप्य मेदिनीम् 015c
अत्रैव पुरुषव्याघ्र मरुत्तः सत्रमुत्तमम् 016a
आस्ते देवर्षिमुख्येन संवर्तेनाभिपालितः 016c
अत्रोपस्पृश्य राजेन्द्र सर्वाल्ँलोकान्प्रपश्यति 017a
पूयते दुष्कृताच्चैव समुपस्पृश्य भारत 017c
वैशम्पायन उवाच 018
तत्र सभ्रातृकः स्नात्वा स्तूयमानो महर्षिभिः 018a
लोमशं पाण्डवश्रेष्ठ इदं वचनमब्रवीत् 018c
सर्वाल्ँलोकान्प्रपश्यामि तपसा सत्यविक्रम 019a
इहस्थः पाण्डवश्रेष्ठं पश्यामि श्वेतवाहनम् 019c
लोमश उवाच 020
एवमेतन्महाबाहो पश्यन्ति परमर्षयः 020a
सरस्वतीमिमां पुण्यां पश्यैकशरणावृताम् 020c
यत्र स्नात्वा नरश्रेष्ठ धूतपाप्मा भविष्यति 021a
इह सारस्वतैर्यज्ञैरिष्टवन्तः सुरर्षयः 021c
ऋषयश्चैव कौन्तेय तथा राजर्षयोऽपि च 021e
वेदी प्रजापतेरेषा समन्तात्पञ्चयोजना 022a
कुरोर्वै यज्ञशीलस्य क्षेत्रमेतन्महात्मनः 022c