सोमक उवाच 001
ब्रह्मन्यद्यद्यथा कार्यं तत्तत्कुरु तथा तथा 001a
पुत्रकामतया सर्वं करिष्यामि वचस्तव 001c
लोमश उवाच 002
ततः स याजयामास सोमकं तेन जन्तुना 002a
मातरस्तु बलात्पुत्रमपाकर्षुः कृपान्विताः 002c
हा हताः स्मेति वाशन्त्यस्तीव्रशोकसमन्विताः 003a
तं मातरः प्रत्यकर्षन्गृहीत्वा दक्षिणे करे 003c
सव्ये पाणौ गृहीत्वा तु याजकोऽपि स्म कर्षति 003e
कुररीणामिवार्तानामपाकृष्य तु तं सुतम् 004a
विशस्य चैनं विधिना वपामस्य जुहाव सः 004c
वपायां हूयमानायां गन्धमाघ्राय मातरः 005a
आर्ता निपेतुः सहसा पृथिव्यां कुरुनन्दन 005c
सर्वाश्च गर्भानलभंस्ततस्ताः पार्थिवाङ्गनाः 005e
ततो दशसु मासेषु सोमकस्य विशां पते 006a
जज्ञे पुत्रशतं पूर्णं तासु सर्वासु भारत 006c
जन्तुर्ज्येष्ठः समभवज्जनित्र्यामेव भारत 007a
स तासामिष्ट एवासीन्न तथान्ये निजाः सुताः 007c
तच्च लक्षणमस्यासीत्सौवर्णं पार्श्व उत्तरे 008a
तस्मिन्पुत्रशते चाग्र्यः स बभूव गुणैर्युतः 008c
ततः स लोकमगमत्सोमकस्य गुरुः परम् 009a
अथ काले व्यतीते तु सोमकोऽप्यगमत्परम् 009c
अथ तं नरके घोरे पच्यमानं ददर्श सः 010a
तमपृच्छत्किमर्थं त्वं नरके पच्यसे द्विज 010c
तमब्रवीद्गुरुः सोऽथ पच्यमानोऽग्निना भृशम् 011a
त्वं मया याजितो राजंस्तस्येदं कर्मणः फलम् 011c
एतच्छ्रुत्वा स राजर्षिर्धर्मराजानमब्रवीत् 012a
अहमत्र प्रवेक्ष्यामि मुच्यतां मम याजकः 012c
मत्कृते हि महाभागः पच्यते नरकाग्निना 012e
धर्म उवाच 013
नान्यः कर्तुः फलं राजन्नुपभुङ्क्ते कदाचन 013a
इमानि तव दृश्यन्ते फलानि ददतां वर 013c
सोमक उवाच 014
पुण्यान्न कामये लोकानृतेऽहं ब्रह्मवादिनम् 014a
इच्छाम्यहमनेनैव सह वस्तुं सुरालये 014c
नरके वा धर्मराज कर्मणास्य समो ह्यहम् 015a
पुण्यापुण्यफलं देव सममस्त्वावयोरिदम् 015c
धर्म उवाच 016
यद्येवमीप्सितं राजन्भुङ्क्ष्वास्य सहितः फलम् 016a
तुल्यकालं सहानेन पश्चात्प्राप्स्यसि सद्गतिम् 016c
लोमश उवाच 017
स चकार तथा सर्वं राजा राजीवलोचनः 017a
पुनश्च लेभे लोकान्स्वान्कर्मणा निर्जिताञ्शुभान् 017c
सह तेनैव विप्रेण गुरुणा स गुरुप्रियः 017e
एष तस्याश्रमः पुण्यो य एषोऽग्रे विराजते 018a
क्षान्त उष्यात्र षड्रात्रं प्राप्नोति सुगतिं नरः 018c
एतस्मिन्नपि राजेन्द्र वत्स्यामो विगतज्वराः 019a
षड्रात्रं नियतात्मानः सज्जीभव कुरूद्वह 019c