युधिष्ठिर उवाच 001
कथंवीर्यः स राजाभूत्सोमको वदतां वर 001a
कर्माण्यस्य प्रभावं च श्रोतुमिच्छामि तत्त्वतः 001c
लोमश उवाच 002
युधिष्ठिरासीन्नृपतिः सोमको नाम धार्मिकः 002a
तस्य भार्याशतं राजन्सदृशीनामभूत्तदा 002c
स वै यत्नेन महता तासु पुत्रं महीपतिः 003a
कञ्चिन्नासादयामास कालेन महता अपि 003c
कदाचित्तस्य वृद्धस्य यतमानस्य यत्नतः 004a
जन्तुर्नाम सुतस्तस्मिन्स्त्रीशते समजायत 004c
तं जातं मातरः सर्वाः परिवार्य समासते 005a
सततं पृष्ठतः कृत्वा कामभोगान्विशां पते 005c
ततः पिपीलिका जन्तुं कदाचिददशत्स्फिजि 006a
स दष्टो व्यनदद्राजंस्तेन दुःखेन बालकः 006c
ततस्ता मातरः सर्वाः प्राक्रोशन्भृशदुःखिताः 007a
परिवार्य जन्तुं सहिताः स शब्दस्तुमुलोऽभवत् 007c
तमार्तनादं सहसा शुश्राव स महीपतिः 008a
अमात्यपरिषन्मध्ये उपविष्टः सहर्त्विजैः 008c
ततः प्रस्थापयामास किमेतदिति पार्थिवः 009a
तस्मै क्षत्ता यथावृत्तमाचचक्षे सुतं प्रति 009c
त्वरमाणः स चोत्थाय सोमकः सह मन्त्रिभिः 010a
प्रविश्यान्तःपुरं पुत्रमाश्वासयदरिन्दमः 010c
सान्त्वयित्वा तु तं पुत्रं निष्क्रम्यान्तःपुरान्नृपः 011a
ऋत्विजैः सहितो राजन्सहामात्य उपाविशत् 011c
सोमक उवाच 012
धिगस्त्विहैकपुत्रत्वमपुत्रत्वं वरं भवेत् 012a
नित्यातुरत्वाद्भूतानां शोक एवैकपुत्रता 012c
इदं भार्याशतं ब्रह्मन्परीक्ष्योपचितं प्रभो 013a
पुत्रार्थिना मया वोढं न चासां विद्यते प्रजा 013c
एकः कथञ्चिदुत्पन्नः पुत्रो जन्तुरयं मम 014a
यतमानस्य सर्वासु किं नु दुःखमतः परम् 014c
वयश्च समतीतं मे सभार्यस्य द्विजोत्तम 015a
आसां प्राणाः समायत्ता मम चात्रैकपुत्रके 015c
स्यान्नु कर्म तथा युक्तं येन पुत्रशतं भवेत् 016a
महता लघुना वापि कर्मणा दुष्करेण वा 016c
ऋत्विगुवाच 017
अस्ति वै तादृशं कर्म येन पुत्रशतं भवेत् 017a
यदि शक्नोषि तत्कर्तुमथ वक्ष्यामि सोमक 017c
सोमक उवाच 018
कार्यं वा यदि वाकार्यं येन पुत्रशतं भवेत् 018a
कृतमेव हि तद्विद्धि भगवान्प्रब्रवीतु मे 018c
ऋत्विगुवाच 019
यजस्व जन्तुना राजंस्त्वं मया वितते क्रतौ 019a
ततः पुत्रशतं श्रीमद्भविष्यत्यचिरेण ते 019c
वपायां हूयमानायां धूममाघ्राय मातरः 020a
ततस्ताः सुमहावीर्याञ्जनयिष्यन्ति ते सुतान् 020c
तस्यामेव तु ते जन्तुर्भविता पुनरात्मजः 021a
उत्तरे चास्य सौवर्णं लक्ष्म पार्श्वे भविष्यति 021c