युधिष्ठिर उवाच 001
मान्धाता राजशार्दूलस्त्रिषु लोकेषु विश्रुतः 001a
कथं जातो महाब्रह्मन्यौवनाश्वो नृपोत्तमः 001c
कथं चैतां परां काष्ठां प्राप्तवानमितद्युतिः 001e
यस्य लोकास्त्रयो वश्या विष्णोरिव महात्मनः 002a
एतदिच्छाम्यहं श्रोतुं चरितं तस्य धीमतः 002c
यथा मान्धातृशब्दश्च तस्य शक्रसमद्युतेः 003a
जन्म चाप्रतिवीर्यस्य कुशलो ह्यसि भाषितुम् 003c
लोमश उवाच 004
शृणुष्वावहितो राजन्राज्ञस्तस्य महात्मनः 004a
यथा मान्धातृशब्दो वै लोकेषु परिगीयते 004c
इक्ष्वाकुवंशप्रभवो युवनाश्वो महीपतिः 005a
सोऽयजत्पृथिवीपालः क्रतुभिर्भूरिदक्षिणैः 005c
अश्वमेधसहस्रं च प्राप्य धर्मभृतां वरः 006a
अन्यैश्च क्रतुभिर्मुख्यैर्विविधैराप्तदक्षिणैः 006c
अनपत्यस्तु राजर्षिः स महात्मा दृढव्रतः 007a
मन्त्रिष्वाधाय तद्राज्यं वननित्यो बभूव ह 007c
शास्त्रदृष्टेन विधिना संयोज्यात्मानमात्मना 008a
पिपासाशुष्कहृदयः प्रविवेशाश्रमं भृगोः 008c
तामेव रात्रिं राजेन्द्र महात्मा भृगुनन्दनः 009a
इष्टिं चकार सौद्युम्नेर्महर्षिः पुत्रकारणात् 009c
सम्भृतो मन्त्रपूतेन वारिणा कलशो महान् 010a
तत्रातिष्ठत राजेन्द्र पूर्वमेव समाहितः 010c
यत्प्राश्य प्रसवेत्तस्य पत्नी शक्रसमं सुतम् 010e
तं न्यस्य वेद्यां कलशं सुषुपुस्ते महर्षयः 011a
रात्रिजागरणश्रान्ताः सौद्युम्निः समतीत्य तान् 011c
शुष्ककण्ठः पिपासार्तः पाणीयार्थी भृशं नृपः 012a
तं प्रविश्याश्रमं श्रान्तः पाणीयं सोऽभ्ययाचत 012c
तस्य श्रान्तस्य शुष्केण कण्ठेन क्रोशतस्तदा 013a
नाश्रौषीत्कश्चन तदा शकुनेरिव वाशितम् 013c
ततस्तं कलशं दृष्ट्वा जलपूर्णं स पार्थिवः 014a
अभ्यद्रवत वेगेन पीत्वा चाम्भो व्यवासृजत् 014c
स पीत्वा शीतलं तोयं पिपासार्तो महीपतिः 015a
निर्वाणमगमद्धीमान्सुसुखी चाभवत्तदा 015c
ततस्ते प्रत्यबुध्यन्त ऋषयः सनराधिपाः 016a
निस्तोयं तं च कलशं ददृशुः सर्व एव ते 016c
कस्य कर्मेदमिति च पर्यपृच्छन्समागताः 017a
युवनाश्वो मयेत्येव सत्यं समभिपद्यत 017c
न युक्तमिति तं प्राह भगवान्भार्गवस्तदा 018a
सुतार्थं स्थापिता ह्यापस्तपसा चैव सम्भृताः 018c
मया ह्यत्राहितं ब्रह्म तप आस्थाय दारुणम् 019a
पुत्रार्थं तव राजर्षे महाबलपराक्रम 019c
महाबलो महावीर्यस्तपोबलसमन्वितः 020a
यः शक्रमपि वीर्येण गमयेद्यमसादनम् 020c
अनेन विधिना राजन्मयैतदुपपादितम् 021a
अब्भक्षणं त्वया राजन्नयुक्तं कृतमद्य वै 021c
न त्वद्य शक्यमस्माभिरेतत्कर्तुमतोऽन्यथा 022a
नूनं दैवकृतं ह्येतद्यदेवं कृतवानसि 022c
पिपासितेन याः पीता विधिमन्त्रपुरस्कृताः 023a
आपस्त्वया महाराज मत्तपोवीर्यसम्भृताः 023c
ताभ्यस्त्वमात्मना पुत्रमेवंवीर्यं जनिष्यसि 023e
विधास्यामो वयं तत्र तवेष्टिं परमाद्भुताम् 024a
यथा शक्रसमं पुत्रं जनयिष्यसि वीर्यवान् 024c
ततो वर्षशते पूर्णे तस्य राज्ञो महात्मनः 025a
वामं पार्श्वं विनिर्भिद्य सुतः सूर्य इवापरः 025c
निश्चक्राम महातेजा न च तं मृत्युराविशत् 026a
युवनाश्वं नरपतिं तदद्भुतमिवाभवत् 026c
ततः शक्रो महातेजास्तं दिदृक्षुरुपागमत् 027a
प्रदेशिनीं ततोऽस्यास्ये शक्रः समभिसन्दधे 027c
मामयं धास्यतीत्येवं परिभाष्टः स वज्रिणा 028a
मान्धातेति च नामास्य चक्रुः सेन्द्रा दिवौकसः 028c
प्रदेशिनीं शक्रदत्तामास्वाद्य स शिशुस्तदा 029a
अवर्धत महीपाल किष्कूणां च त्रयोदश 029c
वेदास्तं सधनुर्वेदा दिव्यान्यस्त्राणि चेश्वरम् 030a
उपतस्थुर्महाराज ध्यातमात्राणि सर्वशः 030c
धनुराजगवं नाम शराः शृङ्गोद्भवाश्च ये 031a
अभेद्यं कवचं चैव सद्यस्तमुपसंश्रयन् 031c
सोऽभिषिक्तो मघवता स्वयं शक्रेण भारत 032a
धर्मेण व्यजयल्लोकांस्त्रीन्विष्णुरिव विक्रमैः 032c
तस्याप्रतिहतं चक्रं प्रावर्तत महात्मनः 033a
रत्नानि चैव राजर्षिं स्वयमेवोपतस्थिरे 033c
तस्येयं वसुसम्पूर्णा वसुधा वसुधाधिप 034a
तेनेष्टं विविधैर्यज्ञैर्बहुभिः स्वाप्तदक्षिणैः 034c
चितचैत्यो महातेजा धर्मं प्राप्य च पुष्कलम् 035a
शक्रस्यार्धासनं राजल्ँलब्धवानमितद्युतिः 035c
एकाह्ना पृथिवी तेन धर्मनित्येन धीमता 036a
निर्जिता शासनादेव सरत्नाकरपत्तना 036c
तस्य चित्यैर्महाराज क्रतूनां दक्षिणावताम् 037a
चतुरन्ता मही व्याप्ता नासीत्किञ्चिदनावृतम् 037c
तेन पद्मसहस्राणि गवां दश महात्मना 038a
ब्राह्मणेभ्यो महाराज दत्तानीति प्रचक्षते 038c
तेन द्वादशवार्षिक्यामनावृष्ट्यां महात्मना 039a
वृष्टं सस्यविवृद्ध्यर्थं मिषतो वज्रपाणिनः 039c
तेन सोमकुलोत्पन्नो गान्धाराधिपतिर्महान् 040a
गर्जन्निव महामेघः प्रमथ्य निहतः शरैः 040c
प्रजाश्चतुर्विधास्तेन जिता राजन्महात्मना 041a
तेनात्मतपसा लोकाः स्थापिताश्चापि तेजसा 041c
तस्यैतद्देवयजनं स्थानमादित्यवर्चसः 042a
पश्य पुण्यतमे देशे कुरुक्षेत्रस्य मध्यतः 042c
एतत्ते सर्वमाख्यातं मान्धातुश्चरितं महत् 043a
जन्म चाग्र्यं महीपाल यन्मां त्वं परिपृच्छसि 043c