लोमश उवाच 001
तं दृष्ट्वा घोरवदनं मदं देवः शतक्रतुः 001a
आयान्तं भक्षयिष्यन्तं व्यात्ताननमिवान्तकम् 001c
भयात्संस्तम्भितभुजः सृक्किणी लेलिहन्मुहुः 002a
ततोऽब्रवीद्देवराजश्च्यवनं भयपीडितः 002c
सोमार्हावश्विनावेतावद्य प्रभृति भार्गव 003a
भविष्यतः सत्यमेतद्वचो ब्रह्मन्ब्रवीमि ते 003c
न ते मिथ्या समारम्भो भवत्वेष परो विधिः 004a
जानामि चाहं विप्रर्षे न मिथ्या त्वं करिष्यसि 004c
सोमार्हावश्विनावेतौ यथैवाद्य कृतौ त्वया 005a
भूय एव तु ते वीर्यं प्रकाशेदिति भार्गव 005c
सुकन्यायाः पितुश्चास्य लोके कीर्तिः प्रथेदिति 006a
अतो मयैतद्विहितं तव वीर्यप्रकाशनम् 006c
तस्मात्प्रसादं कुरु मे भवत्वेतद्यथेच्छसि 006e
एवमुक्तस्य शक्रेण च्यवनस्य महात्मनः 007a
स मन्युर्व्यगमच्छीघ्रं मुमोच च पुरन्दरम् 007c
मदं च व्यभजद्राजन्पाने स्त्रीषु च वीर्यवान् 008a
अक्षेषु मृगयायां च पूर्वसृष्टं पुनः पुनः 008c
तथा मदं विनिष्क्षिप्य शक्रं सन्तर्प्य चेन्दुना 009a
अश्विभ्यां सहितान्देवान्याजयित्वा च तं नृपम् 009c
विख्याप्य वीर्यं सर्वेषु लोकेषु वदतां वरः 010a
सुकन्यया सहारण्ये विजहारानुरक्तया 010c
तस्यैतद्द्विजसङ्घुष्टं सरो राजन्प्रकाशते 011a
अत्र त्वं सह सोदर्यैः पितॄन्देवांश्च तर्पय 011c
एतद्दृष्ट्वा महीपाल सिकताक्षं च भारत 012a
सैन्धवारण्यमासाद्य कुल्यानां कुरु दर्शनम् 012c
पुष्करेषु महाराज सर्वेषु च जलं स्पृश 012e
आर्चीकपर्वतश्चैव निवासो वै मनीषिणाम् 013a
सदाफलः सदास्रोतो मरुतां स्थानमुत्तमम् 013c
चैत्याश्चैते बहुशतास्त्रिदशानां युधिष्ठिर 013e
एतच्चन्द्रमसस्तीर्थमृषयः पर्युपासते 014a
वैखानसाश्च ऋषयो वालखिल्यास्तथैव च 014c
शृङ्गाणि त्रीणि पुण्याणि त्रीणि प्रस्रवणानि च 015a
सर्वाण्यनुपरिक्रम्य यथाकाममुपस्पृश 015c
शन्तनुश्चात्र कौन्तेय शुनकश्च नराधिप 016a
नरनारायणौ चोभौ स्थानं प्राप्ताः सनातनम् 016c
इह नित्यशया देवाः पितरश्च महर्षिभिः 017a
आर्चीकपर्वते तेपुस्तान्यजस्व युधिष्ठिर 017c
इह ते वै चरून्प्राश्नन्नृषयश्च विशां पते 018a
यमुना चाक्षयस्रोताः कृष्णश्चेह तपोरतः 018c
यमौ च भीमसेनश्च कृष्णा चामित्रकर्शन 019a
सर्वे चात्र गमिष्यामः सुकृशाः सुतपस्विनः 019c
एतत्प्रस्रवणं पुण्यमिन्द्रस्य मनुजाधिप 020a
यत्र धाता विधाता च वरुणश्चोर्ध्वमागताः 020c
इह ते न्यवसन्राजन्क्षान्ताः परमधर्मिणः 021a
मैत्राणामृजुबुद्धीनामयं गिरिवरः शुभः 021c
एषा सा यमुना राजन्राजर्षिगणसेविता 022a
नानायज्ञचिता राजन्पुण्या पापभयापहा 022c
अत्र राजा महेष्वासो मान्धातायजत स्वयम् 023a
सहदेवश्च कौन्तेय सोमको ददतां वरः 023c