लोमश उवाच 001
ततः श्रुत्वा तु शर्यातिर्वयःस्थं च्यवनं कृतम् 001a
संहृष्टः सेनया सार्धमुपायाद्भार्गवाश्रमम् 001c
च्यवनं च सुकन्यां च दृष्ट्वा देवसुताविव 002a
रेमे महीपः शर्यातिः कृत्स्नां प्राप्य महीमिव 002c
ऋषिणा सत्कृतस्तेन सभार्यः पृथिवीपतिः 003a
उपोपविष्टः कल्याणीः कथाश्चक्रे महामनाः 003c
अथैनं भार्गवो राजन्नुवाच परिसान्त्वयन् 004a
याजयिष्यामि राजंस्त्वां सम्भारानुपकल्पय 004c
ततः परमसंहृष्टः शर्यातिः पृथिवीपतिः 005a
च्यवनस्य महाराज तद्वाक्यं प्रत्यपूजयत् 005c
प्रशस्तेऽहनि यज्ञीये सर्वकामसमृद्धिमत् 006a
कारयामास शर्यातिर्यज्ञायतनमुत्तमम् 006c
तत्रैनं च्यवनो राजन्याजयामास भार्गवः 007a
अद्भुतानि च तत्रासन्यानि तानि निबोध मे 007c
अगृह्णाच्च्यवनः सोममश्विनोर्देवयोस्तदा 008a
तमिन्द्रो वारयामास गृह्यमाणं तयोर्ग्रहम् 008c
इन्द्र उवाच 009
उभावेतौ न सोमार्हौ नासत्याविति मे मतिः 009a
भिषजौ देवपुत्राणां कर्मणा नैवमर्हतः 009c
च्यवन उवाच 010
मावमंस्था महात्मानौ रूपद्रविणवत्तरौ 010a
यौ चक्रतुर्मां मघवन्वृन्दारकमिवाजरम् 010c
ऋते त्वां विबुधांश्चान्यान्कथं वै नार्हतः सवम् 011a
अश्विनावपि देवेन्द्र देवौ विद्धि पुरन्दर 011c
इन्द्र उवाच 012
चिकित्सकौ कर्मकरौ कामरूपसमन्वितौ 012a
लोके चरन्तौ मर्त्यानां कथं सोममिहार्हतः 012c
लोमश उवाच 013
एतदेव यदा वाक्यमाम्रेडयति वासवः 013a
अनादृत्य ततः शक्रं ग्रहं जग्राह भार्गवः 013c
ग्रहीष्यन्तं तु तं सोममश्विनोरुत्तमं तदा 014a
समीक्ष्य बलभिद्देव इदं वचनमब्रवीत् 014c
आभ्यामर्थाय सोमं त्वं ग्रहीष्यसि यदि स्वयम् 015a
वज्रं ते प्रहरिष्यामि घोररूपमनुत्तमम् 015c
एवमुक्तः स्मयन्निन्द्रमभिवीक्ष्य स भार्गवः 016a
जग्राह विधिवत्सोममश्विभ्यामुत्तमं ग्रहम् 016c
ततोऽस्मै प्राहरद्वज्रं घोररूपं शचीपतिः 017a
तस्य प्रहरतो बाहुं स्तम्भयामास भार्गवः 017c
संस्तम्भयित्वा च्यवनो जुहुवे मन्त्रतोऽनलम् 018a
कृत्यार्थी सुमहातेजा देवं हिंसितुमुद्यतः 018c
ततः कृत्या समभवदृषेस्तस्य तपोबलात् 019a
मदो नाम महावीर्यो बृहत्कायो महासुरः 019c
शरीरं यस्य निर्देष्टुमशक्यं तु सुरासुरैः 019e
तस्यास्यमभवद्घोरं तीक्ष्णाग्रदशनं महत् 020a
हनुरेका स्थिता तस्य भूमावेका दिवं गता 020c
चतस्र आयता दंष्ट्रा योजनानां शतं शतम् 021a
इतरे त्वस्य दशना बभूवुर्दशयोजनाः 021c
प्राकारसदृशाकाराः शूलाग्रसमदर्शनाः 021e
बाहू पर्वतसङ्काशावायतावयुतं समौ 022a
नेत्रे रविशशिप्रख्ये वक्त्रमन्तकसन्निभम् 022c
लेलिहञ्जिह्वया वक्त्रं विद्युच्चपललोलया 023a
व्यात्ताननो घोरदृष्टिर्ग्रसन्निव जगद्बलात् 023c
स भक्षयिष्यन्सङ्क्रुद्धः शतक्रतुमुपाद्रवत् 024a
महता घोररूपेण लोकाञ्शब्देन नादयन् 024c