लोमश उवाच 001
कस्यचित्त्वथ कालस्य सुराणामश्विनौ नृप 001a
कृताभिषेकां विवृतां सुकन्यां तामपश्यताम् 001c
तां दृष्ट्वा दर्शनीयाङ्गीं देवराजसुतामिव 002a
ऊचतुः समभिद्रुत्य नासत्यावश्विनाविदम् 002c
कस्य त्वमसि वामोरु किं वने वै करोषि च 003a
इच्छाव भद्रे ज्ञातुं त्वां तत्त्वमाख्याहि शोभने 003c
ततः सुकन्या संवीता तावुवाच सुरोत्तमौ 004a
शर्यातितनयां वित्तं भार्यां च च्यवनस्य माम् 004c
अथाश्विनौ प्रहस्यैतामब्रूतां पुनरेव तु 005a
कथं त्वमसि कल्याणि पित्रा दत्ता गताध्वने 005c
भ्राजसे वनमध्ये त्वं विद्युत्सौदामिनी यथा 006a
न देवेष्वपि तुल्यां हि त्वया पश्याव भामिनि 006c
सर्वाभरणसम्पन्ना परमाम्बरधारिणी 007a
शोभेथास्त्वनवद्याङ्गि न त्वेवं मलपङ्किनी 007c
कस्मादेवंविधा भूत्वा जराजर्जरितं पतिम् 008a
त्वमुपास्से ह कल्याणि कामभोगबहिष्कृतम् 008c
असमर्थं परित्राणे पोषणे च शुचिस्मिते 009a
साधु च्यवनमुत्सृज्य वरयस्वैकमावयोः 009c
पत्यर्थं देवगर्भाभे मा वृथा यौवनं कृथाः 009e
एवमुक्ता सुकन्या तु सुरौ ताविदमब्रवीत् 010a
रताहं च्यवने पत्यौ मैवं मा पर्यशङ्किथाः 010c
तावब्रूतां पुनस्त्वेनामावां देवभिषग्वरौ 011a
युवानं रूपसम्पन्नं करिष्यावः पतिं तव 011c
ततस्तस्यावयोश्चैव पतिमेकतमं वृणु 012a
एतेन समयेनैनमामन्त्रय वरानने 012c
सा तयोर्वचनाद्राजन्नुपसङ्गम्य भार्गवम् 013a
उवाच वाक्यं यत्ताभ्यामुक्तं भृगुसुतं प्रति 013c
तच्छ्रुत्वा च्यवनो भार्यामुवाच क्रियतामिति 014a
भर्त्रा सा समनुज्ञाता क्रियतामित्यथाब्रवीत् 014c
श्रुत्वा तदश्विनौ वाक्यं तत्तस्याः क्रियतामिति 015a
ऊचतू राजपुत्रीं तां पतिस्तव विशत्वपः 015c
ततोऽम्भश्च्यवनः शीघ्रं रूपार्थी प्रविवेश ह 016a
अश्विनावपि तद्राजन्सरः प्रविशतां प्रभो 016c
ततो मुहूर्तादुत्तीर्णाः सर्वे ते सरसस्ततः 017a
दिव्यरूपधराः सर्वे युवानो मृष्टकुण्डलाः 017c
तुल्यरूपधराश्चैव मनसः प्रीतिवर्धनाः 017e
तेऽब्रुवन्सहिताः सर्वे वृणीष्वान्यतमं शुभे 018a
अस्माकमीप्सितं भद्रे पतित्वे वरवर्णिनि 018c
यत्र वाप्यभिकामासि तं वृणीष्व सुशोभने 018e
सा समीक्ष्य तु तान्सर्वांस्तुल्यरूपधरान्स्थितान् 019a
निश्चित्य मनसा बुद्ध्या देवी वव्रे स्वकं पतिम् 019c
लब्ध्वा तु च्यवनो भार्यां वयोरूपं च वाञ्छितम् 020a
हृष्टोऽब्रवीन्महातेजास्तौ नासत्याविदं वचः 020c
यथाहं रूपसम्पन्नो वयसा च समन्वितः 021a
कृतो भवद्भ्यां वृद्धः सन्भार्यां च प्राप्तवानिमाम् 021c
तस्माद्युवां करिष्यामि प्रीत्याहं सोमपीथिनौ 022a
मिषतो देवराजस्य सत्यमेतद्ब्रवीमि वाम् 022c
तच्छ्रुत्वा हृष्टमनसौ दिवं तौ प्रतिजग्मतुः 023a
च्यवनोऽपि सुकन्या च सुराविव विजह्रतुः 023c