लोमश उवाच 001
भृगोर्महर्षेः पुत्रोऽभूच्च्यवनो नाम भार्गवः 001a
समीपे सरसः सोऽस्य तपस्तेपे महाद्युतिः 001c
स्थाणुभूतो महातेजा वीरस्थानेन पाण्डव 002a
अतिष्ठत्सुबहून्कालानेकदेशे विशां पते 002c
स वल्मीकोऽभवदृषिर्लताभिरभिसंवृतः 003a
कालेन महता राजन्समाकीर्णः पिपीलिकैः 003c
तथा स संवृतो धीमान्मृत्पिण्ड इव सर्वशः 004a
तप्यति स्म तपो राजन्वल्मीकेन समावृतः 004c
अथ दीर्घस्य कालस्य शर्यातिर्नाम पार्थिवः 005a
आजगाम सरो रम्यं विहर्तुमिदमुत्तमम् 005c
तस्य स्त्रीणां सहस्राणि चत्वार्यासन्परिग्रहः 006a
एकैव च सुता शुभ्रा सुकन्या नाम भारत 006c
सा सखीभिः परिवृता सर्वाभरणभूषिता 007a
चङ्क्रम्यमाणा वल्मीकं भार्गवस्य समासदत् 007c
सा चैव सुदती तत्र पश्यमाना मनोरमान् 008a
वनस्पतीन्विचिन्वन्ती विजहार सखीवृता 008c
रूपेण वयसा चैव मदनेन मदेन च 009a
बभञ्ज वनवृक्षाणां शाखाः परमपुष्पिताः 009c
तां सखीरहितामेकामेकवस्त्रामलङ्कृताम् 010a
ददर्श भार्गवो धीमांश्चरन्तीमिव विद्युतम् 010c
तां पश्यमानो विजने स रेमे परमद्युतिः 011a
क्षामकण्ठश्च ब्रह्मर्षिस्तपोबलसमन्वितः 011c
तामाबभाषे कल्याणीं सा चास्य न शृणोति वै 011e
ततः सुकन्या वल्मीके दृष्ट्वा भार्गवचक्षुषी 012a
कौतूहलात्कण्टकेन बुद्धिमोहबलात्कृता 012c
किं नु खल्विदमित्युक्त्वा निर्बिभेदास्य लोचने 013a
अक्रुध्यत्स तया विद्धे नेत्रे परममन्युमान् 013c
ततः शर्यातिसैन्यस्य शकृन्मूत्रं समावृणोत् 013e
ततो रुद्धे शकृन्मूत्रे सैन्यमानाहदुःखितम् 014a
तथागतमभिप्रेक्ष्य पर्यपृच्छत्स पार्थिवः 014c
तपोनित्यस्य वृद्धस्य रोषणस्य विशेषतः 015a
केनापकृतमद्येह भार्गवस्य महात्मनः 015c
ज्ञातं वा यदि वाज्ञातं तदृतं ब्रूत माचिरम् 015e
तमूचुः सैनिकाः सर्वे न विद्मोऽपकृतं वयम् 016a
सर्वोपायैर्यथाकामं भवांस्तदधिगच्छतु 016c
ततः स पृथिवीपालः साम्ना चोग्रेण च स्वयम् 017a
पर्यपृच्छत्सुहृद्वर्गं प्रत्यजानन्न चैव ते 017c
आनाहार्तं ततो दृष्ट्वा तत्सैन्यमसुखार्दितम् 018a
पितरं दुःखितं चापि सुकन्येदमथाब्रवीत् 018c
मयाटन्त्येह वल्मीके दृष्टं सत्त्वमभिज्वलत् 019a
खद्योतवदभिज्ञातं तन्मया विद्धमन्तिकात् 019c
एतच्छ्रुत्वा तु शर्यातिर्वल्मीकं तूर्णमाद्रवत् 020a
तत्रापश्यत्तपोवृद्धं वयोवृद्धं च भार्गवम् 020c
अयाचदथ सैन्यार्थं प्राञ्जलिः पृथिवीपतिः 021a
अज्ञानाद्बालया यत्ते कृतं तत्क्षन्तुमर्हसि 021c
ततोऽब्रवीन्महीपालं च्यवनो भार्गवस्तदा 022a
रूपौदार्यसमायुक्तां लोभमोहबलात्कृताम् 022c
तामेव प्रतिगृह्याहं राजन्दुहितरं तव 023a
क्षमिष्यामि महीपाल सत्यमेतद्ब्रवीमि ते 023c
ऋषेर्वचनमाज्ञाय शर्यातिरविचारयन् 024a
ददौ दुहितरं तस्मै च्यवनाय महात्मने 024c
प्रतिगृह्य च तां कन्यां च्यवनः प्रससाद ह 025a
प्राप्तप्रसादो राजा स ससैन्यः पुनराव्रजत् 025c
सुकन्यापि पतिं लब्ध्वा तपस्विनमनिन्दिता 026a
नित्यं पर्यचरत्प्रीत्या तपसा नियमेन च 026c
अग्नीनामतिथीनां च शुश्रूषुरनसूयिका 027a
समाराधयत क्षिप्रं च्यवनं सा शुभानना 027c