लोमश उवाच 001
नृगेण यजमानेन सोमेनेह पुरन्दरः 001a
तर्पितः श्रूयते राजन्स तृप्तो मदमभ्यगात् 001c
इह देवैः सहेन्द्रैर्हि प्रजापतिभिरेव च 002a
इष्टं बहुविधैर्यज्ञैर्महद्भिर्भूरिदक्षिणैः 002c
आमूर्तरयसश्चेह राजा वज्रधरं प्रभुम् 003a
तर्पयामास सोमेन हयमेधेषु सप्तसु 003c
तस्य सप्तसु यज्ञेषु सर्वमासीद्धिरण्मयम् 004a
वानस्पत्यं च भौमं च यद्द्रव्यं नियतं मखे 004c
तेष्वेव चास्य यज्ञेषु प्रयोगाः सप्त विश्रुताः 005a
सप्तैकैकस्य यूपस्य चषालाश्चोपरि स्थिताः 005c
तस्य स्म यूपान्यज्ञेषु भ्राजमानान्हिरण्मयान् 006a
स्वयमुत्थापयामासुर्देवाः सेन्द्रा युधिष्ठिर 006c
तेषु तस्य मखाग्र्येषु गयस्य पृथिवीपतेः 007a
अमाद्यदिन्द्रः सोमेन दक्षिणाभिर्द्विजातयः 007c
सिकता वा यथा लोके यथा वा दिवि तारकाः 008a
यथा वा वर्षतो धारा असङ्ख्येयाश्च केनचित् 008c
तथैव तदसङ्ख्येयं धनं यत्प्रददौ गयः 009a
सदस्येभ्यो महाराज तेषु यज्ञेषु सप्तसु 009c
भवेत्सङ्ख्येयमेतद्वै यदेतत्परिकीर्तितम् 010a
न सा शक्या तु सङ्ख्यातुं दक्षिणा दक्षिणावतः 010c
हिरण्मयीभिर्गोभिश्च कृताभिर्विश्वकर्मणा 011a
ब्राह्मणांस्तर्पयामास नानादिग्भ्यः समागतान् 011c
अल्पावशेषा पृथिवी चैत्यैरासीन्महात्मनः 012a
गयस्य यजमानस्य तत्र तत्र विशां पते 012c
स लोकान्प्राप्तवानैन्द्रान्कर्मणा तेन भारत 013a
सलोकतां तस्य गच्छेत्पयोष्ण्यां य उपस्पृशेत् 013c
तस्मात्त्वमत्र राजेन्द्र भ्रातृभिः सहितोऽनघ 014a
उपस्पृश्य महीपाल धूतपाप्मा भविष्यसि 014c
वैशम्पायन उवाच 015
स पयोष्ण्यां नरश्रेष्ठः स्नात्वा वै भ्रातृभिः सह 015a
वैडूर्यपर्वतं चैव नर्मदां च महानदीम् 015c
समाजगाम तेजस्वी भ्रातृभिः सहितोऽनघः 015e
ततोऽस्य सर्वाण्याचख्यौ लोमशो भगवानृषिः 016a
तीर्थानि रमणीयानि तत्र तत्र विशां पते 016c
यथायोगं यथाप्रीति प्रययौ भ्रातृभिः सह 017a
ददमानोऽसकृद्वित्तं ब्राह्मणेभ्यः सहस्रशः 017c
लोमश उवाच 018
देवानामेति कौन्तेय तथा राज्ञां सलोकताम् 018a
वैडूर्यपर्वतं दृष्ट्वा नर्मदामवतीर्य च 018c
सन्धिरेष नरश्रेष्ठ त्रेताया द्वापरस्य च 019a
एतमासाद्य कौन्तेय सर्वपापैः प्रमुच्यते 019c
एष शर्यातियज्ञस्य देशस्तात प्रकाशते 020a
साक्षाद्यत्रापिबत्सोममश्विभ्यां सह कौशिकः 020c
चुकोप भार्गवश्चापि महेन्द्रस्य महातपाः 021a
संस्तम्भयामास च तं वासवं च्यवनः प्रभुः 021c
सुकन्यां चापि भार्यां स राजपुत्रीमिवाप्तवान् 021e
युधिष्ठिर उवाच 022
कथं विष्टम्भितस्तेन भगवान्पाकशासनः 022a
किमर्थं भार्गवश्चापि कोपं चक्रे महातपाः 022c
नासत्यौ च कथं ब्रह्मन्कृतवान्सोमपीथिनौ 023a
एतत्सर्वं यथावृत्तमाख्यातु भगवान्मम 023c