सात्यकिरुवाच 001
न राम कालः परिदेवनाय यदुत्तरं तत्र तदेव सर्वे 001a
समाचरामो ह्यनतीतकालं युधिष्ठिरो यद्यपि नाह किञ्चित् 001c
ये नाथवन्तो हि भवन्ति लोके ते नात्मना कर्म समारभन्ते 002a
तेषां तु कार्येषु भवन्ति नाथाः शैब्यादयो राम यथा ययातेः 002c
येषां तथा राम समारभन्ते कार्याणि नाथाः स्वमतेन लोके 003a
ते नाथवन्तः पुरुषप्रवीरा नानाथवत्कृच्छ्रमवाप्नुवन्ति 003c
कस्मादयं रामजनार्दनौ च प्रद्युम्नसाम्बौ च मया समेतौ 004a
वसत्यरण्ये सह सोदरीयैस्त्रैलोक्यनाथानधिगम्य नाथान् 004c
निर्यातु साध्वद्य दशार्हसेना प्रभूतनानायुधचित्रवर्मा 005a
यमक्षयं गच्छतु धार्तराष्ट्रः सबान्धवो वृष्णिबलाभिभूतः 005c
त्वं ह्येव कोपात्पृथिवीमपीमां संवेष्टयेस्तिष्ठतु शार्ङ्गधन्वा 006a
स धार्तराष्ट्रं जहि सानुबन्धं वृत्रं यथा देवपतिर्महेन्द्रः 006c
भ्राता च मे यश्च सखा गुरुश्च जनार्दनस्यात्मसमश्च पार्थः 007a
यदर्थमभ्युद्यतमुत्तमं तत्करोति कर्माग्र्यमपारणीयम् 007c
तस्यास्त्रवर्षाण्यहमुत्तमास्त्रैर्विहत्य सर्वाणि रणेऽभिभूय 008a
कायाच्छिरः सर्पविषाग्निकल्पैः शरोत्तमैरुन्मथितास्मि राम 008c
खड्गेन चाहं निशितेन सङ्ख्ये कायाच्छिरस्तस्य बलात्प्रमथ्य 009a
ततोऽस्य सर्वाननुगान्हनिष्ये दुर्योधनं चापि कुरूंश्च सर्वान् 009c
आत्तायुधं मामिह रौहिणेय पश्यन्तु भौमा युधि जातहर्षाः 010a
निघ्नन्तमेकं कुरुयोधमुख्यान्काले महाकक्षमिवान्तकाग्निः 010c
प्रद्युम्नमुक्तान्निशितान्न शक्ताः सोढुं कृपद्रोणविकर्णकर्णाः 011a
जानामि वीर्यं च तवात्मजस्य कार्ष्णिर्भवत्येष यथा रणस्थः 011c
साम्बः ससूतं सरथं भुजाभ्यां दुःशासनं शास्तु बलात्प्रमथ्य 012a
न विद्यते जाम्बवतीसुतस्य रणेऽविषह्यं हि रणोत्कटस्य 012c
एतेन बालेन हि शम्बरस्य दैत्यस्य सैन्यं सहसा प्रणुन्नम् 013a
वृत्तोरुरत्यायतपीनबाहुरेतेन सङ्ख्ये निहतोऽश्वचक्रः 013c
को नाम साम्बस्य रणे मनुष्यो गत्वान्तरं वै भुजयोर्धरेत 013e
यथा प्रविश्यान्तरमन्तकस्य काले मनुष्यो न विनिष्क्रमेत 014a
तथा प्रविश्यान्तरमस्य सङ्ख्ये को नाम जीवन्पुनराव्रजेत 014c
द्रोणं च भीष्मं च महारथौ तौ सुतैर्वृतं चाप्यथ सोमदत्तम् 015a
सर्वाणि सैन्यानि च वासुदेवः प्रधक्ष्यते सायकवह्निजालैः 015c
किं नाम लोकेष्वविषह्यमस्ति कृष्णस्य सर्वेषु सदैवतेषु 016a
आत्तायुधस्योत्तमबाणपाणेश्चक्रायुधस्याप्रतिमस्य युद्धे 016c
ततोऽनिरुद्धोऽप्यसिचर्मपाणिर्महीमिमां धार्तराष्ट्रैर्विसञ्ज्ञैः 017a
हृतोत्तमाङ्गैर्निहतैः करोतु कीर्णां कुशैर्वेदिमिवाध्वरेषु 017c
गदोल्मुकौ बाहुकभानुनीथाः शूरश्च सङ्ख्ये निशठः कुमारः 018a
रणोत्कटौ सारणचारुदेष्णौ कुलोचितं विप्रथयन्तु कर्म 018c
सवृष्णिभोजान्धकयोधमुख्या समागता क्षत्रियशूरसेना 019a
हत्वा रणे तान्धृतराष्ट्रपुत्राल्ँलोके यशः स्फीतमुपाकरोतु 019c
ततोऽभिमन्युः पृथिवीं प्रशास्तु यावद्व्रतं धर्मभृतां वरिष्ठः 020a
युधिष्ठिरः पारयते महात्मा द्यूते यथोक्तं कुरुसत्तमेन 020c
अस्मत्प्रमुक्तैर्विशिखैर्जितारिस्ततो महीं भोक्ष्यति धर्मराजः 021a
निर्धार्तराष्ट्रां हतसूतपुत्रामेतद्धि नः कृत्यतमं यशश्यम् 021c
वासुदेव उवाच 022
असंशयं माधव सत्यमेतद्गृह्णीम ते वाक्यमदीनसत्त्व 022a
स्वाभ्यां भुजाभ्यामजितां तु भूमिं नेच्छेत्कुरूणामृषभः कथञ्चित् 022c
न ह्येष कामान्न भयान्न लोभाद्युधिष्ठिरो जातु जह्यात्स्वधर्मम् 023a
भीमार्जुनौ चातिरथौ यमौ वा तथैव कृष्णा द्रुपदात्मजेयम् 023c
उभौ हि युद्धेऽप्रतिमौ पृथिव्यां वृकोदरश्चैव धनञ्जयश्च 024a
कस्मान्न कृत्स्नां पृथिवीं प्रशासेन्माद्रीसुताभ्यां च पुरस्कृतोऽयम् 024c
यदा तु पाञ्चालपतिर्महात्मा सकेकयश्चेदिपतिर्वयं च 025a
योत्स्याम विक्रम्य परांस्तदा वै सुयोधनस्त्यक्ष्यति जीवलोकम् 025c
युधिष्ठिर उवाच 026
नैतच्चित्रं माधव यद्ब्रवीषि सत्यं तु मे रक्ष्यतमं न राज्यम् 026a
कृष्णस्तु मां वेद यथावदेकः कृष्णं च वेदाहमथो यथावत् 026c
यदैव कालं पुरुषप्रवीरो वेत्स्यत्ययं माधव विक्रमस्य 027a
तदा रणे त्वं च शिनिप्रवीर सुयोधनं जेष्यसि केशवश्च 027c
प्रतिप्रयान्त्वद्य दशार्हवीरा दृढोऽस्मि नाथैर्नरलोकनाथैः 028a
धर्मेऽप्रमादं कुरुताप्रमेया द्रष्टास्मि भूयः सुखिनः समेतान् 028c
वैशम्पायन उवाच 029
तेऽन्योन्यमामन्त्र्य तथाभिवाद्य वृद्धान्परिस्वज्य शिशूंश्च सर्वान् 029a
यदुप्रवीराः स्वगृहाणि जग्मू राजापि तीर्थान्यनुसञ्चचार 029c
विसृज्य कृष्णं त्वथ धर्मराजो विदर्भराजोपचितां सुतीर्थाम् 030a
सुतेन सोमेन विमिश्रितोदां ततः पयोष्णीं प्रति स ह्युवास 030c