जनमेजय उवाच 001
प्रभासतीर्थं सम्प्राप्य वृष्णयः पाण्डवास्तथा 001a
किमकुर्वन्कथाश्चैषां कास्तत्रासंस्तपोधन 001c
ते हि सर्वे महात्मानः सर्वशास्त्रविशारदाः 002a
वृष्णयः पाण्डवाश्चैव सुहृदश्च परस्परम् 002c
वैशम्पायन उवाच 003
प्रभासतीर्थं सम्प्राप्य पुण्यं तीर्थं महोदधेः 003a
वृष्णयः पाण्डवान्वीरान्परिवार्योपतस्थिरे 003c
ततो गोक्षीरकुन्देन्दुमृणालरजतप्रभः 004a
वनमाली हली रामो बभाषे पुष्करेक्षणम् 004c
न कृष्ण धर्मश्चरितो भवाय जन्तोरधर्मश्च पराभवाय 005a
युधिष्ठिरो यत्र जटी महात्मा वनाश्रयः क्लिश्यति चीरवासाः 005c
दुर्योधनश्चापि महीं प्रशास्ति न चास्य भूमिर्विवरं ददाति 006a
धर्मादधर्मश्चरितो गरीयानितीव मन्येत नरोऽल्पबुद्धिः 006c
दुर्योधने चापि विवर्धमाने युधिष्ठिरे चासुख आत्तराज्ये 007a
किं न्वद्य कर्तव्यमिति प्रजाभिः शङ्का मिथः सञ्जनिता नराणाम् 007c
अयं हि धर्मप्रभवो नरेन्द्रो धर्मे रतः सत्यधृतिः प्रदाता 008a
चलेद्धि राज्याच्च सुखाच्च पार्थो धर्मादपेतश्च कथं विवर्धेत् 008c
कथं नु भीष्मश्च कृपश्च विप्रो द्रोणश्च राजा च कुलस्य वृद्धः 009a
प्रव्राज्य पार्थान्सुखमाप्नुवन्ति धिक्पापबुद्धीन्भरतप्रधानान् 009c
किं नाम वक्ष्यत्यवनिप्रधानः पितॄन्समागम्य परत्र पापः 010a
पुत्रेषु सम्यक्चरितं मयेति पुत्रानपापानवरोप्य राज्यात् 010c
नासौ धिया सम्प्रतिपश्यति स्म किं नाम कृत्वाहमचक्षुरेवम् 011a
जातः पृथिव्यामिति पार्थिवेषु प्रव्राज्य कौन्तेयमथापि राज्यात् 011c
नूनं समृद्धान्पितृलोकभूमौ चामीकराभान्क्षितिजान्प्रफुल्लान् 012a
विचित्रवीर्यस्य सुतः सपुत्रः कृत्वा नृशंसं बत पश्यति स्म 012c
व्यूढोत्तरांसान्पृथुलोहिताक्षान्नेमान्स्म पृच्छन्स शृणोति नूनम् 013a
प्रस्थापयद्यत्स वनं ह्यशङ्को युधिष्ठिरं सानुजमात्तशस्त्रम् 013c
योऽयं परेषां पृतनां समृद्धां निरायुधो दीर्घभुजो निहन्यात् 014a
श्रुत्वैव शब्दं हि वृकोदरस्य मुञ्चन्ति सैन्यानि शकृत्समूत्रम् 014c
स क्षुत्पिपासाध्वकृशस्तरस्वी समेत्य नानायुधबाणपाणिः 015a
वने स्मरन्वासमिमं सुघोरं शेषं न कुर्यादिति निश्चितं मे 015c
न ह्यस्य वीर्येण बलेन कश्चित्समः पृथिव्यां भविता नरेषु 016a
शीतोष्णवातातपकर्शिताङ्गो न शेषमाजावसुहृत्सु कुर्यात् 016c
प्राच्यां नृपानेकरथेन जित्वा वृकोदरः सानुचरान्रणेषु 017a
स्वस्त्यागमद्योऽतिरथस्तरस्वी सोऽयं वने क्लिश्यति चीरवासाः 017c
यो दन्तकूरे व्यजयन्नृदेवान्समागतान्दाक्षिणात्यान्महीपान् 018a
तं पश्यतेमं सहदेवमद्य तपस्विनं तापसवेषरूपम् 018c
यः पार्थिवानेकरथेन वीरो दिशं प्रतीचीं प्रति युद्धशौण्डः 019a
सोऽयं वने मूलफलेन जीवञ्जटी चरत्यद्य मलाचिताङ्गः 019c
सत्रे समृद्धेऽति रथस्य राज्ञो वेदीतलादुत्पतिता सुता या 020a
सेयं वने वासमिमं सुदुःखं कथं सहत्यद्य सती सुखार्हा 020c
त्रिवर्गमुख्यस्य समीरणस्य देवेश्वरस्याप्यथ वाश्विनोश्च 021a
एषां सुराणां तनयाः कथं नु वने चरन्त्यल्पसुखाः सुखार्हाः 021c
जिते हि धर्मस्य सुते सभार्ये सभ्रातृके सानुचरे निरस्ते 022a
दुर्योधने चापि विवर्धमाने कथं न सीदत्यवनिः सशैला 022c