वैशम्पायन उवाच 001
गच्छन्स तीर्थानि महानुभावः पुण्यानि रम्याणि ददर्श राजा 001a
सर्वाणि विप्रैरुपशोभितानि क्वचित्क्वचिद्भारत सागरस्य 001c
स वृत्तवांस्तेषु कृताभिषेकः सहानुजः पार्थिवपुत्रपौत्रः 002a
समुद्रगां पुण्यतमां प्रशस्तां जगाम पारिक्षित पाण्डुपुत्रः 002c
तत्रापि चाप्लुत्य महानुभावः सन्तर्पयामास पितॄन्सुरांश्च 003a
द्विजातिमुख्येषु धनं विसृज्य गोदावरिं सागरगामगच्छत् 003c
ततो विपाप्मा द्रविडेषु राजन्समुद्रमासाद्य च लोकपुण्यम् 004a
अगस्त्यतीर्थं च पवित्रपुण्यं नारीतीर्थान्यथ वीरो ददर्श 004c
तत्रार्जुनस्याग्र्यधनुर्धरस्य निशम्य तत्कर्म परैरसह्यम् 005a
सम्पूज्यमानः परमर्षिसङ्घैः परां मुदं पाण्डुसुतः स लेभे 005c
स तेषु तीर्थेष्वभिषिक्तगात्रः कृष्णासहायः सहितोऽनुजैश्च 006a
सम्पूजयन्विक्रममर्जुनस्य रेमे महीपालपतिः पृथिव्याम् 006c
ततः सहस्राणि गवां प्रदाय तीर्थेषु तेष्वम्बुधरोत्तमस्य 007a
हृष्टः सह भ्रातृभिरर्जुनस्य सङ्कीर्तयामास गवां प्रदानम् 007c
स तानि तीर्थानि च सागरस्य पुण्यानि चान्यानि बहूनि राजन् 008a
क्रमेण गच्छन्परिपूर्णकामः शूर्पारकं पुण्यतमं ददर्श 008c
तत्रोदधेः कञ्चिदतीत्य देशं ख्यातं पृथिव्यां वनमाससाद 009a
तप्तं सुरैर्यत्र तपः पुरस्तादिष्टं तथा पुण्यतमैर्नरेन्द्रैः 009c
स तत्र तामग्र्यधनुर्धरस्य वेदीं ददर्शायतपीनबाहुः 010a
ऋचीकपुत्रस्य तपस्विसङ्घैः समावृतां पुण्यकृदर्चनीयाम् 010c
ततो वसूनां वसुधाधिपः स मरुद्गणानां च तथाश्विनोश्च 011a
वैवस्वतादित्यधनेश्वराणामिन्द्रस्य विष्णोः सवितुर्विभोश्च 011c
भगस्य चन्द्रस्य दिवाकरस्य पतेरपां साध्यगणस्य चैव 012a
धातुः पितॄणां च तथा महात्मा रुद्रस्य राजन्सगणस्य चैव 012c
सरस्वत्याः सिद्धगणस्य चैव पूष्णश्च ये चाप्यमरास्तथान्ये 013a
पुण्यानि चाप्यायतनानि तेषां ददर्श राजा सुमनोहराणि 013c
तेषूपवासान्विविधानुपोष्य दत्त्वा च रत्नानि महाधनानि 014a
तीर्थेषु सर्वेषु परिप्लुताङ्गः पुनः स शूर्पारकमाजगाम 014c
स तेन तीर्थेन तु सागरस्य पुनः प्रयातः सह सोदरीयैः 015a
द्विजैः पृथिव्यां प्रथितं महद्भिस्तीर्थं प्रभासं समुपाजगाम 015c
तत्राभिषिक्तः पृथुलोहिताक्षः सहानुजैर्देवगणान्पितॄंश्च 016a
सन्तर्पयामास तथैव कृष्णा ते चापि विप्राः सह लोमशेन 016c
स द्वादशाहं जलवायुभक्षः कुर्वन्क्षपाहःसु तदाभिषेकम् 017a
समन्ततोऽग्नीनुपदीपयित्वा तेपे तपो धर्मभृतां वरिष्ठः 017c
तमुग्रमास्थाय तपश्चरन्तं शुश्राव रामश्च जनार्दनश्च 018a
तौ सर्ववृष्णिप्रवरौ ससैन्यौ युधिष्ठिरं जग्मतुराजमीढम् 018c
ते वृष्णयः पाण्डुसुतान्समीक्ष्य भूमौ शयानान्मलदिग्धगात्रान् 019a
अनर्हतीं द्रौपदीं चापि दृष्ट्वा सुदुःखिताश्चुक्रुशुरार्तनादम् 019c
ततः स रामं च जनार्दनं च कार्ष्णिं च साम्बं च शिनेश्च पौत्रम् 020a
अन्यांश्च वृष्णीनुपगम्य पूजां चक्रे यथाधर्ममदीनसत्त्वः 020c
ते चापि सर्वान्प्रतिपूज्य पार्थांस्तैः सत्कृताः पाण्डुसुतैस्तथैव 021a
युधिष्ठिरं सम्परिवार्य राजन्नुपाविशन्देवगणा यथेन्द्रम् 021c
तेषां स सर्वं चरितं परेषां वने च वासं परमप्रतीतः 022a
अस्त्रार्थमिन्द्रस्य गतं च पार्थं कृष्णे शशंसामरराजपुत्रम् 022c
श्रुत्वा तु ते तस्य वचः प्रतीतास्तांश्चापि दृष्ट्वा सुकृशानतीव 023a
नेत्रोद्भवं सम्मुमुचुर्दशार्हा दुःखार्तिजं वारि महानुभावाः 023c