राम उवाच 001
ममापराधात्तैः क्षुद्रैर्हतस्त्वं तात बालिशैः 001a
कार्तवीर्यस्य दायादैर्वने मृग इवेषुभिः 001c
धर्मज्ञस्य कथं तात वर्तमानस्य सत्पथे 002a
मृत्युरेवंविधो युक्तः सर्वभूतेष्वनागसः 002c
किं नु तैर्न कृतं पापं यैर्भवांस्तपसि स्थितः 003a
अयुध्यमानो वृद्धः सन्हतः शरशतैः शितैः 003c
किं नु ते तत्र वक्ष्यन्ति सचिवेषु सुहृत्सु च 004a
अयुध्यमानं धर्मज्ञमेकं हत्वानपत्रपाः 004c
अकृतव्रण उवाच 005
विलप्यैवं स करुणं बहु नानाविधं नृप 005a
प्रेतकार्याणि सर्वाणि पितुश्चक्रे महातपाः 005c
ददाह पितरं चाग्नौ रामः परपुरञ्जयः 006a
प्रतिजज्ञे वधं चापि सर्वक्षत्रस्य भारत 006c
सङ्क्रुद्धोऽतिबलः शूरः शस्त्रमादाय वीर्यवान् 007a
जघ्निवान्कार्तवीर्यस्य सुतानेकोऽन्तकोपमः 007c
तेषां चानुगता ये च क्षत्रियाः क्षत्रियर्षभ 008a
तांश्च सर्वानवामृद्नाद्रामः प्रहरतां वरः 008c
त्रिःसप्तकृत्वः पृथिवीं कृत्वा निःक्षत्रियां प्रभुः 009a
समन्तपञ्चके पञ्च चकार रुधिरह्रदान् 009c
स तेषु तर्पयामास पितॄन्भृगुकुलोद्वहः 010a
साक्षाद्ददर्श चर्चीकं स च रामं न्यवारयत् 010c
ततो यज्ञेन महता जामदग्न्यः प्रतापवान् 011a
तर्पयामास देवेन्द्रमृत्विग्भ्यश्च महीं ददौ 011c
वेदीं चाप्यददद्धैमीं कश्यपाय महात्मने 012a
दशव्यामायतां कृत्वा नवोत्सेधां विशां पते 012c
तां कश्यपस्यानुमते ब्राह्मणाः खण्डशस्तदा 013a
व्यभजंस्तेन ते राजन्प्रख्याताः खाण्डवायनाः 013c
स प्रदाय महीं तस्मै कश्यपाय महात्मने 014a
अस्मिन्महेन्द्रे शैलेन्द्रे वसत्यमितविक्रमः 014c
एवं वैरमभूत्तस्य क्षत्रियैर्लोकवासिभिः 015a
पृथिवी चापि विजिता रामेणामिततेजसा 015c
वैशम्पायन उवाच 016
ततश्चतुर्दशीं रामः समयेन महामनाः 016a
दर्शयामास तान्विप्रान्धर्मराजं च सानुजम् 016c
स तमानर्च राजेन्द्रो भ्रातृभिः सहितः प्रभुः 017a
द्विजानां च परां पूजां चक्रे नृपतिसत्तमः 017c
अर्चयित्वा जामदग्न्यं पूजितस्तेन चाभिभूः 018a
महेन्द्र उष्य तां रात्रिं प्रययौ दक्षिणामुखः 018c