अकृतव्रण उवाच 001
स वेदाध्ययने युक्तो जमदग्निर्महातपाः 001a
तपस्तेपे ततो देवान्नियमाद्वशमानयत् 001c
स प्रसेनजितं राजन्नधिगम्य नराधिपम् 002a
रेणुकां वरयामास स च तस्मै ददौ नृपः 002c
रेणुकां त्वथ सम्प्राप्य भार्यां भार्गवनन्दनः 003a
आश्रमस्थस्तया सार्धं तपस्तेपेऽनुकूलया 003c
तस्याः कुमाराश्चत्वारो जज्ञिरे रामपञ्चमाः 004a
सर्वेषामजघन्यस्तु राम आसीज्जघन्यजः 004c
फलाहारेषु सर्वेषु गतेष्वथ सुतेषु वै 005a
रेणुका स्नातुमगमत्कदाचिन्नियतव्रता 005c
सा तु चित्ररथं नाम मार्त्तिकावतकं नृपम् 006a
ददर्श रेणुका राजन्नागच्छन्ती यदृच्छया 006c
क्रीडन्तं सलिले दृष्ट्वा सभार्यं पद्ममालिनम् 007a
ऋद्धिमन्तं ततस्तस्य स्पृहयामास रेणुका 007c
व्यभिचारात्तु सा तस्मात्क्लिन्नाम्भसि विचेतना 008a
प्रविवेशाश्रमं त्रस्ता तां वै भर्तान्वबुध्यत 008c
स तां दृष्ट्वा च्युतां धैर्याद्ब्राह्म्या लक्ष्म्या विवर्जिताम् 009a
धिक्शब्देन महातेजा गर्हयामास वीर्यवान् 009c
ततो ज्येष्ठो जामदग्न्यो रुमण्वान्नाम नामतः 010a
आजगाम सुषेणश्च वसुर्विश्वावसुस्तथा 010c
तानानुपूर्व्याद्भगवान्वधे मातुरचोदयत् 011a
न च ते जातसम्मोहाः किञ्चिदूचुर्विचेतसः 011c
ततः शशाप तान्कोपात्ते शप्ताश्चेतनां जहुः 012a
मृगपक्षिसधर्माणः क्षिप्रमासञ्जडोपमाः 012c
ततो रामोऽभ्यगात्पश्चादाश्रमं परवीरहा 013a
तमुवाच महामन्युर्जमदग्निर्महातपाः 013c
जहीमां मातरं पापां मा च पुत्र व्यथां कृथाः 014a
तत आदाय परशुं रामो मातुः शिरोऽहरत् 014c
ततस्तस्य महाराज जमदग्नेर्महात्मनः 015a
कोपो अगच्छत्सहसा प्रसन्नश्चाब्रवीदिदम् 015c
ममेदं वचनात्तात कृतं ते कर्म दुष्करम् 016a
वृणीष्व कामान्धर्मज्ञ यावतो वाञ्छसे हृदा 016c
स वव्रे मातुरुत्थानमस्मृतिं च वधस्य वै 017a
पापेन तेन चास्पर्शं भ्रातॄणां प्रकृतिं तथा 017c
अप्रतिद्वन्द्वतां युद्धे दीर्घमायुश्च भारत 018a
ददौ च सर्वान्कामांस्ताञ्जमदग्निर्महातपाः 018c
कदाचित्तु तथैवास्य विनिष्क्रान्ताः सुताः प्रभो 019a
अथानूपपतिर्वीरः कार्तवीर्योऽभ्यवर्तत 019c
तमाश्रमपदं प्राप्तमृषेर्भार्या समर्चयत् 020a
स युद्धमदसम्मत्तो नाभ्यनन्दत्तथार्चनम् 020c
प्रमथ्य चाश्रमात्तस्माद्धोमधेन्वास्तदा बलात् 021a
जहार वत्सं क्रोशन्त्या बभञ्ज च महाद्रुमान् 021c
आगताय च रामाय तदाचष्ट पिता स्वयम् 022a
गां च रोरूयतीं दृष्ट्वा कोपो रामं समाविशत् 022c
स मन्युवशमापन्नः कार्तवीर्यमुपाद्रवत् 023a
तस्याथ युधि विक्रम्य भार्गवः परवीरहा 023c
चिच्छेद निशितैर्भल्लैर्बाहून्परिघसन्निभान् 024a
सहस्रसम्मितान्राजन्प्रगृह्य रुचिरं धनुः 024c
अर्जुनस्याथ दायादा रामेण कृतमन्यवः 025a
आश्रमस्थं विना रामं जमदग्निमुपाद्रवन् 025c
ते तं जघ्नुर्महावीर्यमयुध्यन्तं तपस्विनम् 026a
असकृद्राम रामेति विक्रोशन्तमनाथवत् 026c
कार्तवीर्यस्य पुत्रास्तु जमदग्निं युधिष्ठिर 027a
घातयित्वा शरैर्जग्मुर्यथागतमरिन्दमाः 027c
अपक्रान्तेषु चैतेषु जमदग्नौ तथागते 028a
समित्पाणिरुपागच्छदाश्रमं भृगुनन्दनः 028c
स दृष्ट्वा पितरं वीरस्तथा मृत्युवशं गतम् 029a
अनर्हन्तं तथाभूतं विललाप सुदुःखितः 029c