वैशम्पायन उवाच 001
स तत्र तामुषित्वैकां रजनीं पृथिवीपतिः 001a
तापसानां परं चक्रे सत्कारं भ्रातृभिः सह 001c
लोमशश्चास्य तान्सर्वानाचख्यौ तत्र तापसान् 002a
भृगूनङ्गिरसश्चैव वासिष्ठानथ काश्यपान् 002c
तान्समेत्य स राजर्षिरभिवाद्य कृताञ्जलिः 003a
रामस्यानुचरं वीरमपृच्छदकृतव्रणम् 003c
कदा नु रामो भगवांस्तापसान्दर्शयिष्यति 004a
तेनैवाहं प्रसङ्गेन द्रष्टुमिच्छामि भार्गवम् 004c
अकृतव्रण उवाच 005
आयानेवासि विदितो रामस्य विदितात्मनः 005a
प्रीतिस्त्वयि च रामस्य क्षिप्रं त्वां दर्शयिष्यति 005c
चतुर्दशीमष्टमीं च रामं पश्यन्ति तापसाः 006a
अस्यां रात्र्यां व्यतीतायां भवित्री च चतुर्दशी 006c
युधिष्ठिर उवाच 007
भवाननुगतो वीरं जामदग्न्यं महाबलम् 007a
प्रत्यक्षदर्शी सर्वस्य पूर्ववृत्तस्य कर्मणः 007c
स भवान्कथयत्वेतद्यथा रामेण निर्जिताः 008a
आहवे क्षत्रियाः सर्वे कथं केन च हेतुना 008c
अकृतव्रण उवाच 009
कन्यकुब्जे महानासीत्पार्थिवः सुमहाबलः 009a
गाधीति विश्रुतो लोके वनवासं जगाम सः 009c
वने तु तस्य वसतः कन्या जज्ञेऽप्सरःसमा 010a
ऋचीको भार्गवस्तां च वरयामास भारत 010c
तमुवाच ततो राजा ब्राह्मणं संशितव्रतम् 011a
उचितं नः कुले किञ्चित्पूर्वैर्यत्सम्प्रवर्तितम् 011c
एकतःश्यामकर्णानां पाण्डुराणां तरस्विनाम् 012a
सहस्रं वाजिनां शुल्कमिति विद्धि द्विजोत्तम 012c
न चापि भगवान्वाच्यो दीयतामिति भार्गव 013a
देया मे दुहिता चेयं त्वद्विधाय महात्मने 013c
ऋचीक उवाच 014
एकतःश्यामकर्णानां पाण्डुराणां तरस्विनाम् 014a
दास्याम्यश्वसहस्रं ते मम भार्या सुतास्तु ते 014c
अकृतव्रण उवाच 015
स तथेति प्रतिज्ञाय राजन्वरुणमब्रवीत् 015a
एकतःश्यामकर्णानां पाण्डुराणां तरस्विनाम् 015c
सहस्रं वाजिनामेकं शुल्कार्थं मे प्रदीयताम् 015e
तस्मै प्रादात्सहस्रं वै वाजिनां वरुणस्तदा 016a
तदश्वतीर्थं विख्यातमुत्थिता यत्र ते हयाः 016c
गङ्गायां कन्यकुब्जे वै ददौ सत्यवतीं तदा 017a
ततो गाधिः सुतां तस्मै जन्याश्चासन्सुरास्तदा 017c
लब्ध्वा हयसहस्रं तु तांश्च दृष्ट्वा दिवौकसः 017e
धर्मेण लब्ध्वा तां भार्यामृचीको द्विजसत्तमः 018a
यथाकामं यथाजोषं तया रेमे सुमध्यया 018c
तं विवाहे कृते राजन्सभार्यमवलोककः 019a
आजगाम भृगुश्रेष्ठः पुत्रं दृष्ट्वा ननन्द च 019c
भार्यापती तमासीनं गुरुं सुरगणार्चितम् 020a
अर्चित्वा पर्युपासीनौ प्राञ्जली तस्थतुस्तदा 020c
ततः स्नुषां स भगवान्प्रहृष्टो भृगुरब्रवीत् 021a
वरं वृणीष्व सुभगे दाता ह्यस्मि तवेप्सितम् 021c
सा वै प्रसादयामास तं गुरुं पुत्रकारणात् 022a
आत्मनश्चैव मातुश्च प्रसादं च चकार सः 022c
भृगुरुवाच 023
ऋतौ त्वं चैव माता च स्नाते पुंसवनाय वै 023a
आलिङ्गेतां पृथग्वृक्षौ साश्वत्थं त्वमुदुम्बरम् 023c
आलिङ्गने तु ते राजंश्चक्रतुः स्म विपर्ययम् 024a
कदाचिद्भृगुरागच्छत्तं च वेद विपर्ययम् 024c
अथोवाच महातेजा भृगुः सत्यवतीं स्नुषाम् 025a
ब्राह्मणः क्षत्रवृत्तिर्वै तव पुत्रो भविष्यति 025c
क्षत्रियो ब्राह्मणाचारो मातुस्तव सुतो महान् 026a
भविष्यति महावीर्यः साधूनां मार्गमास्थितः 026c
ततः प्रसादयामास श्वशुरं सा पुनः पुनः 027a
न मे पुत्रो भवेदीदृक्कामं पौत्रो भवेदिति 027c
एवमस्त्विति सा तेन पाण्डव प्रतिनन्दिता 028a
जमदग्निं ततः पुत्रं सा जज्ञे काल आगते 028c
तेजसा वर्चसा चैव युक्तं भार्गवनन्दनम् 028e
स वर्धमानस्तेजस्वी वेदस्याध्ययनेन वै 029a
बहूनृषीन्महातेजाः पाण्डवेयात्यवर्तत 029c
तं तु कृत्स्नो धनुर्वेदः प्रत्यभाद्भरतर्षभ 030a
चतुर्विधानि चास्त्राणि भास्करोपमवर्चसम् 030c