वैशम्पायन उवाच 001
ततः प्रयातः कौशिक्याः पाण्डवो जनमेजय 001a
आनुपूर्व्येण सर्वाणि जगामायतनान्युत 001c
स सागरं समासाद्य गङ्गायाः सङ्गमे नृप 002a
नदीशतानां पञ्चानां मध्ये चक्रे समाप्लवम् 002c
ततः समुद्रतीरेण जगाम वसुधाधिपः 003a
भ्रातृभिः सहितो वीरः कलिङ्गान्प्रति भारत 003c
लोमश उवाच 004
एते कलिङ्गाः कौन्तेय यत्र वैतरणी नदी 004a
यत्रायजत धर्मोऽपि देवाञ्शरणमेत्य वै 004c
ऋषिभिः समुपायुक्तं यज्ञियं गिरिशोभितम् 005a
उत्तरं तीरमेतद्धि सततं द्विजसेवितम् 005c
समेन देवयानेन पथा स्वर्गमुपेयुषः 006a
अत्र वै ऋषयोऽन्येऽपि पुरा क्रतुभिरीजिरे 006c
अत्रैव रुद्रो राजेन्द्र पशुमादत्तवान्मखे 007a
रुद्रः पशुं मानवेन्द्र भागोऽयमिति चाब्रवीत् 007c
हृते पशौ तदा देवास्तमूचुर्भरतर्षभ 008a
मा परस्वमभिद्रोग्धा मा धर्मान्सकलान्नशीः 008c
ततः कल्याणरूपाभिर्वाग्भिस्ते रुद्रमस्तुवन् 009a
इष्ट्या चैनं तर्पयित्वा मानयाञ्चक्रिरे तदा 009c
ततः स पशुमुत्सृज्य देवयानेन जग्मिवान् 010a
अत्रानुवंशो रुद्रस्य तं निबोध युधिष्ठिर 010c
अयातयामं सर्वेभ्यो भागेभ्यो भागमुत्तमम् 011a
देवाः सङ्कल्पयामासुर्भयाद्रुद्रस्य शाश्वतम् 011c
इमां गाथामत्र गायन्नपः स्पृशति यो नरः 012a
देवयानस्तस्य पन्थाश्चक्षुश्चैव प्रकाशते 012c
वैशम्पायन उवाच 013
ततो वैतरणीं सर्वे पाण्डवा द्रौपदी तथा 013a
अवतीर्य महाभागा तर्पयाञ्चक्रिरे पितॄन् 013c
युधिष्ठिर उवाच 014
उपस्पृश्यैव भगवन्नस्यां नद्यां तपोधन 014a
मानुषादस्मि विषयादपेतः पश्य लोमश 014c
सर्वाल्ँलोकान्प्रपश्यामि प्रसादात्तव सुव्रत 015a
वैखानसानां जपतामेष शब्दो महात्मनाम् 015c
लोमश उवाच 016
त्रिशतं वै सहस्राणि योजनानां युधिष्ठिर 016a
यत्र ध्वनिं शृणोष्येनं तूष्णीमास्स्व विशां पते 016c
एतत्स्वयम्भुवो राजन्वनं रम्यं प्रकाशते 017a
यत्रायजत कौन्तेय विश्वकर्मा प्रतापवान् 017c
यस्मिन्यज्ञे हि भूर्दत्ता कश्यपाय महात्मने 018a
सपर्वतवनोद्देशा दक्षिणा वै स्वयम्भुवा 018c
अवासीदच्च कौन्तेय दत्तमात्रा मही तदा 019a
उवाच चापि कुपिता लोकेश्वरमिदं प्रभुम् 019c
न मां मर्त्याय भगवन्कस्मैचिद्दातुमर्हसि 020a
प्रदानं मोघमेतत्ते यास्याम्येषा रसातलम् 020c
विषीदन्तीं तु तां दृष्ट्वा कश्यपो भगवानृषिः 021a
प्रसादयां बभूवाथ ततो भूमिं विशां पते 021c
ततः प्रसन्ना पृथिवी तपसा तस्य पाण्डव 022a
पुनरुन्मज्ज्य सलिलाद्वेदीरूपा स्थिता बभौ 022c
सैषा प्रकाशते राजन्वेदी संस्थानलक्षणा 023a
आरुह्यात्र महाराज वीर्यवान्वै भविष्यसि 023c
अहं च ते स्वस्त्ययनं प्रयोक्ष्ये यथा त्वमेनामधिरोक्ष्यसेऽद्य 024a
स्पृष्टा हि मर्त्येन ततः समुद्रमेषा वेदी प्रविशत्याजमीढ 024c
अग्निर्मित्रो योनिरापोऽथ देव्यो विष्णो रेतस्त्वममृतस्य नाभिः 025a
एवं ब्रुवन्पाण्डव सत्यवाक्यं वेदीमिमां त्वं तरसाधिरोह 025c
वैशम्पायन उवाच 026
ततः कृतस्वस्त्ययनो महात्मा युधिष्ठिरः सागरगामगच्छत् 026a
कृत्वा च तच्छासनमस्य सर्वं महेन्द्रमासाद्य निशामुवास 026c