विभाण्डक उवाच 001
रक्षांसि चैतानि चरन्ति पुत्र रूपेण तेनाद्भुतदर्शनेन 001a
अतुल्यरूपाण्यतिघोरवन्ति विघ्नं सदा तपसश्चिन्तयन्ति 001c
सुरूपरूपाणि च तानि तात प्रलोभयन्ते विविधैरुपायैः 002a
सुखाच्च लोकाच्च निपातयन्ति तान्युग्रकर्माणि मुनीन्वनेषु 002c
न तानि सेवेत मुनिर्यतात्मा सतां लोकान्प्रार्थयानः कथञ्चित् 003a
कृत्वा विघ्नं तापसानां रमन्ते पापाचारास्तपसस्तान्यपाप 003c
असज्जनेनाचरितानि पुत्र पापान्यपेयानि मधूनि तानि 004a
माल्यानि चैतानि न वै मुनीनां स्मृतानि चित्रोज्ज्वलगन्धवन्ति 004c
लोमश उवाच 005
रक्षांसि तानीति निवार्य पुत्रं विभाण्डकस्तां मृगयाम्बभूव 005a
नासादयामास यदा त्र्यहेण तदा स पर्याववृतेऽऽश्रमाय 005c
यदा पुनः काश्यपो वै जगाम फलान्याहर्तुं विधिना श्रामणेन 006a
तदा पुनर्लोभयितुं जगाम सा वेशयोषा मुनिमृश्यशृङ्गम् 006c
दृष्ट्वैव तामृश्यशृङ्गः प्रहृष्टः सम्भ्रान्तरूपोऽभ्यपतत्तदानीम् 007a
प्रोवाच चैनां भवतोऽऽश्रमाय गच्छाव यावन्न पिता ममैति 007c
ततो राजन्काश्यपस्यैकपुत्रं प्रवेश्य योगेन विमुच्य नावम् 008a
प्रलोभयन्त्यो विविधैरुपायैराजग्मुरङ्गाधिपतेः समीपम् 008c
संस्थाप्य तामाश्रमदर्शने तु सन्तारितां नावमतीव शुभ्राम् 009a
तीरादुपादाय तथैव चक्रे राजाश्रमं नाम वनं विचित्रम् 009c
अन्तःपुरे तं तु निवेश्य राजा विभाण्डकस्यात्मजमेकपुत्रम् 010a
ददर्श देवं सहसा प्रवृष्टमापूर्यमाणं च जगज्जलेन 010c
स लोमपादः परिपूर्णकामः सुतां ददावृश्यशृङ्गाय शान्ताम् 011a
क्रोधप्रतीकारकरं च चक्रे गोभिश्च मार्गेष्वभिकर्षणं च 011c
विभाण्डकस्याव्रजतः स राजा पशून्प्रभूतान्पशुपांश्च वीरान् 012a
समादिशत्पुत्रगृद्धी महर्षिर्विभाण्डकः परिपृच्छेद्यदा वः 012c
स वक्तव्यः प्राञ्जलिभिर्भवद्भिः पुत्रस्य ते पशवः कर्षणं च 013a
किं ते प्रियं वै क्रियतां महर्षे दासाः स्म सर्वे तव वाचि बद्धाः 013c
अथोपायात्स मुनिश्चण्डकोपः स्वमाश्रमं मूलफलानि गृह्य 014a
अन्वेषमाणश्च न तत्र पुत्रं ददर्श चुक्रोध ततो भृशं सः 014c
ततः स कोपेन विदीर्यमाण आशङ्कमानो नृपतेर्विधानम् 015a
जगाम चम्पां प्रदिधक्षमाणस्तमङ्गराजं विषयं च तस्य 015c
स वै श्रान्तः क्षुधितः काश्यपस्तान्घोषान्समासादितवान्समृद्धान् 016a
गोपैश्च तैर्विधिवत्पूज्यमानो राजेव तां रात्रिमुवास तत्र 016c
सम्प्राप्य सत्कारमतीव तेभ्यः प्रोवाच कस्य प्रथिताः स्थ सौम्याः 017a
ऊचुस्ततस्तेऽभ्युपगम्य सर्वे धनं तवेदं विहितं सुतस्य 017c
देशे तु देशे तु स पूज्यमानस्तांश्चैव शृण्वन्मधुरान्प्रलापान् 018a
प्रशान्तभूयिष्ठरजाः प्रहृष्टः समाससादाङ्गपतिं पुरस्थम् 018c
सम्पूजितस्तेन नरर्षभेण ददर्श पुत्रं दिवि देवं यथेन्द्रम् 019a
शान्तां स्नुषां चैव ददर्श तत्र सौदामिनीमुच्चरन्तीं यथैव 019c
ग्रामांश्च घोषांश्च सुतं च दृष्ट्वा शान्तां च शान्तोऽस्य परः स कोपः 020a
चकार तस्मै परमं प्रसादं विभाण्डको भूमिपतेर्नरेन्द्र 020c
स तत्र निक्षिप्य सुतं महर्षिरुवाच सूर्याग्निसमप्रभावम् 021a
जाते पुत्रे वनमेवाव्रजेथा राज्ञः प्रियाण्यस्य सर्वाणि कृत्वा 021c
स तद्वचः कृतवानृश्यशृङ्गो ययौ च यत्रास्य पिता बभूव 022a
शान्ता चैनं पर्यचरद्यथावत्खे रोहिणी सोममिवानुकूला 022c
अरुन्धती वा सुभगा वसिष्ठं लोपामुद्रा वापि यथा ह्यगस्त्यम् 023a
नलस्य वा दमयन्ती यथाभूद्यथा शची वज्रधरस्य चैव 023c
नाडायनी चेन्द्रसेना यथैव वश्या नित्यं मुद्गलस्याजमीढ 024a
तथा शान्ता ऋश्यशृङ्गं वनस्थं प्रीत्या युक्ता पर्यचरन्नरेन्द्र 024c
तस्याश्रमः पुण्य एषो विभाति महाह्रदं शोभयन्पुण्यकीर्तेः 025a
अत्र स्नातः कृतकृत्यो विशुद्धस्तीर्थान्यन्यान्यनुसंयाहि राजन् 025c