ऋश्यशृङ्ग उवाच 001
इहागतो जटिलो ब्रह्मचारी न वै ह्रस्वो नातिदीर्घो मनस्वी 001a
सुवर्णवर्णः कमलायताक्षः सुतः सुराणामिव शोभमानः 001c
समृद्धरूपः सवितेव दीप्तः सुशुक्लकृष्णाक्षतरश्चकोरैः 002a
नीलाः प्रसन्नाश्च जटाः सुगन्धा हिरण्यरज्जुग्रथिताः सुदीर्घाः 002c
आधाररूपा पुनरस्य कण्ठे विभ्राजते विद्युदिवान्तरिक्षे 003a
द्वौ चास्य पिण्डावधरेण कण्ठमजातरोमौ सुमनोहरौ च 003c
विलग्नमध्यश्च स नाभिदेशे कटिश्च तस्यातिकृतप्रमाणा 004a
तथास्य चीरान्तरिता प्रभाति हिरण्मयी मेखला मे यथेयम् 004c
अन्यच्च तस्याद्भुतदर्शनीयं विकूजितं पादयोः सम्प्रभाति 005a
पाण्योश्च तद्वत्स्वनवन्निबद्धौ कलापकावक्षमाला यथेयम् 005c
विचेष्टमानस्य च तस्य तानि कूजन्ति हंसा सरसीव मत्ताः 006a
चीराणि तस्याद्भुतदर्शनानि नेमानि तद्वन्मम रूपवन्ति 006c
वक्त्रं च तस्याद्भुतदर्शनीयं प्रव्याहृतं ह्लादयतीव चेतः 007a
पुंस्कोकिलस्येव च तस्य वाणी तां शृण्वतो मे व्यथितोऽन्तरात्मा 007c
यथा वनं माधवमासि मध्ये समीरितं श्वसनेनाभिवाति 008a
तथा स वात्युत्तमपुण्यगन्धी निषेव्यमाणः पवनेन तात 008c
सुसंयताश्चापि जटा विभक्ता द्वैधीकृता भान्ति समा ललाटे 009a
कर्णौ च चित्रैरिव चक्रवालैः समावृतौ तस्य सुरूपवद्भिः 009c
तथा फलं वृत्तमथो विचित्रं समाहनत्पाणिना दक्षिणेन 010a
तद्भूमिमासाद्य पुनः पुनश्च समुत्पतत्यद्भुतरूपमुच्चैः 010c
तच्चापि हत्वा परिवर्ततेऽसौ वातेरितो वृक्ष इवावघूर्णः 011a
तं प्रेक्ष्य मे पुत्रमिवामराणां प्रीतिः परा तात रतिश्च जाता 011c
स मे समाश्लिष्य पुनः शरीरं जटासु गृह्याभ्यवनाम्य वक्त्रम् 012a
वक्त्रेण वक्त्रं प्रणिधाय शब्दं चकार तन्मेऽजनयत्प्रहर्षम् 012c
न चापि पाद्यं बहु मन्यतेऽसौ फलानि चेमानि मयाहृतानि 013a
एवंव्रतोऽस्मीति च मामवोचत्फलानि चान्यानि नवान्यदान्मे 013c
मयोपयुक्तानि फलानि तानि नेमानि तुल्यानि रसेन तेषाम् 014a
न चापि तेषां त्वगियं यथैषां साराणि नैषामिव सन्ति तेषाम् 014c
तोयानि चैवातिरसानि मह्यं प्रादात्स वै पातुमुदाररूपः 015a
पीत्वैव यान्यभ्यधिकः प्रहर्षो ममाभवद्भूश्चलितेव चासीत् 015c
इमानि चित्राणि च गन्धवन्ति माल्यानि तस्योद्ग्रथितानि पट्टैः 016a
यानि प्रकीर्येह गतः स्वमेव स आश्रमं तपसा द्योतमानः 016c
गतेन तेनास्मि कृतो विचेता गात्रं च मे सम्परितप्यतीव 017a
इच्छामि तस्यान्तिकमाशु गन्तुं तं चेह नित्यं परिवर्तमानम् 017c
गच्छामि तस्यान्तिकमेव तात का नाम सा व्रतचर्या च तस्य 018a
इच्छाम्यहं चरितुं तेन सार्धं यथा तपः स चरत्युग्रकर्मा 018c