लोमश उवाच 001
सा तु नाव्याश्रमं चक्रे राजकार्यार्थसिद्धये 001a
सन्देशाच्चैव नृपतेः स्वबुद्ध्या चैव भारत 001c
नानापुष्पफलैर्वृक्षैः कृत्रिमैरुपशोभितम् 002a
नानागुल्मलतोपेतैः स्वादुकामफलप्रदैः 002c
अतीव रमणीयं तदतीव च मनोहरम् 003a
चक्रे नाव्याश्रमं रम्यमद्भुतोपमदर्शनम् 003c
ततो निबध्य तां नावमदूरे काश्यपाश्रमात् 004a
चारयामास पुरुषैर्विहारं तस्य वै मुनेः 004c
ततो दुहितरं वेश्या समाधायेतिकृत्यताम् 005a
दृष्ट्वान्तरं काश्यपस्य प्राहिणोद्बुद्धिसम्मताम् 005c
सा तत्र गत्वा कुशला तपोनित्यस्य सन्निधौ 006a
आश्रमं तं समासाद्य ददर्श तमृषेः सुतम् 006c
वेश्योवाच 007
कच्चिन्मुने कुशलं तापसानां कच्चिच्च वो मूलफलं प्रभूतम् 007a
कच्चिद्भवान्रमते चाश्रमेऽस्मिंस्त्वां वै द्रष्टुं साम्प्रतमागतोऽस्मि 007c
कच्चित्तपो वर्धते तापसानां पिता च ते कच्चिदहीनतेजाः 008a
कच्चित्त्वया प्रीयते चैव विप्र कच्चित्स्वाध्यायः क्रियते ऋश्यशृङ्ग 008c
ऋश्यशृङ्ग उवाच 009
ऋद्धो भवाञ्ज्योतिरिव प्रकाशते मन्ये चाहं त्वामभिवादनीयम् 009a
पाद्यं वै ते सम्प्रदास्यामि कामाद्यथाधर्मं फलमूलानि चैव 009c
कौश्यां बृस्यामास्स्व यथोपजोषं कृष्णाजिनेनावृतायां सुखायाम् 010a
क्व चाश्रमस्तव किं नाम चेदं व्रतं ब्रह्मंश्चरसि हि देववत्त्वम् 010c
वेश्योवाच 011
ममाश्रमः काश्यपपुत्र रम्यस्त्रियोजनं शैलमिमं परेण 011a
तत्र स्वधर्मोऽनभिवादनं नो न चोदकं पाद्यमुपस्पृशामः 011c
ऋश्यशृङ्ग उवाच 012
फलानि पक्वानि ददानि तेऽहं भल्लातकान्यामलकानि चैव 012a
परूषकानीङ्गुदधन्वनानि प्रियालानां कामकारं कुरुष्व 012c
लोमश उवाच 013
सा तानि सर्वाणि विसर्जयित्वा भक्षान्महार्हान्प्रददौ ततोऽस्मै 013a
तान्यृश्यशृङ्गस्य महारसानि भृशं सुरूपाणि रुचिं ददुर्हि 013c
ददौ च माल्यानि सुगन्धवन्ति चित्राणि वासांसि च भानुमन्ति 014a
पानानि चाग्र्याणि ततो मुमोद चिक्रीड चैव प्रजहास चैव 014c
सा कन्दुकेनारमतास्य मूले विभज्यमाना फलिता लतेव 015a
गात्रैश्च गात्राणि निषेवमाणा समाश्लिषच्चासकृदृश्यशृङ्गम् 015c
सर्जानशोकांस्तिलकांश्च वृक्षान्प्रपुष्पितानवनाम्यावभज्य 016a
विलज्जमानेव मदाभिभूता प्रलोभयामास सुतं महर्षेः 016c
अथर्श्यशृङ्गं विकृतं समीक्ष्य पुनः पुनः पीड्य च कायमस्य 017a
अवेक्षमाणा शनकैर्जगाम कृत्वाग्निहोत्रस्य तदापदेशम् 017c
तस्यां गतायां मदनेन मत्तो विचेतनश्चाभवदृश्यशृङ्गः 018a
तामेव भावेन गतेन शून्यो विनिःश्वसन्नार्तरूपो बभूव 018c
ततो मुहूर्ताद्धरिपिङ्गलाक्षः प्रवेष्टितो रोमभिरा नखाग्रात् 019a
स्वाध्यायवान्वृत्तसमाधियुक्तो विभाण्डकः काश्यपः प्रादुरासीत् 019c
सोऽपश्यदासीनमुपेत्य पुत्रं ध्यायन्तमेकं विपरीतचित्तम् 020a
विनिःश्वसन्तं मुहुरूर्ध्वदृष्टिं विभाण्डकः पुत्रमुवाच दीनम् 020c
न कल्प्यन्ते समिधः किं नु तात कच्चिद्धुतं चाग्निहोत्रं त्वयाद्य 021a
सुनिर्णिक्तं स्रुक्स्रुवं होमधेनुः कच्चित्सवत्सा च कृता त्वयाद्य 021c
न वै यथापूर्वमिवासि पुत्र चिन्तापरश्चासि विचेतनश्च 022a
दीनोऽतिमात्रं त्वमिहाद्य किं नु पृच्छामि त्वां क इहाद्यागतोऽभूत् 022c