लोमश उवाच 001
एषा देवनदी पुण्या कौशिकी भरतर्षभ 001a
विश्वामित्राश्रमो रम्य एष चात्र प्रकाशते 001c
आश्रमश्चैव पुण्याख्यः काश्यपस्य महात्मनः 002a
ऋश्यशृङ्गः सुतो यस्य तपस्वी संयतेन्द्रियः 002c
तपसो यः प्रभावेन वर्षयामास वासवम् 003a
अनावृष्ट्यां भयाद्यस्य ववर्ष बलवृत्रहा 003c
मृग्यां जातः स तेजस्वी काश्यपस्य सुतः प्रभुः 004a
विषये लोमपादस्य यश्चकाराद्भुतं महत् 004c
निवर्तितेषु सस्येषु यस्मै शान्तां ददौ नृपः 005a
लोमपादो दुहितरं सावित्रीं सविता यथा 005c
युधिष्ठिर उवाच 006
ऋश्यशृङ्गः कथं मृग्यामुत्पन्नः काश्यपात्मजः 006a
विरुद्धे योनिसंसर्गे कथं च तपसा युतः 006c
किमर्थं च भयाच्छक्रस्तस्य बालस्य धीमतः 007a
अनावृष्ट्यां प्रवृत्तायां ववर्ष बलवृत्रहा 007c
कथंरूपा च शान्ताभूद्राजपुत्री यतव्रता 008a
लोभयामास या चेतो मृगभूतस्य तस्य वै 008c
लोमपादश्च राजर्षिर्यदाश्रूयत धार्मिकः 009a
कथं वै विषये तस्य नावर्षत्पाकशासनः 009c
एतन्मे भगवन्सर्वं विस्तरेण यथातथम् 010a
वक्तुमर्हसि शुश्रूषोरृष्यशृङ्गस्य चेष्टितम् 010c
लोमश उवाच 011
विभाण्डकस्य ब्रह्मर्षेस्तपसा भावितात्मनः 011a
अमोघवीर्यस्य सतः प्रजापतिसमद्युतेः 011c
शृणु पुत्रो यथा जात ऋश्यशृङ्गः प्रतापवान् 012a
महाह्रदे महातेजा बालः स्थविरसम्मतः 012c
महाह्रदं समासाद्य काश्यपस्तपसि स्थितः 013a
दीर्घकालं परिश्रान्त ऋषिर्देवर्षिसम्मतः 013c
तस्य रेतः प्रचस्कन्द दृष्ट्वाप्सरसमुर्वशीम् 014a
अप्सूपस्पृशतो राजन्मृगी तच्चापिबत्तदा 014c
सह तोयेन तृषिता सा गर्भिण्यभवन्नृप 015a
अमोघत्वाद्विधेश्चैव भावित्वाद्दैवनिर्मितात् 015c
तस्यां मृग्यां समभवत्तस्य पुत्रो महानृषिः 016a
ऋश्यशृङ्गस्तपोनित्यो वन एव व्यवर्धत 016c
तस्यर्श्यशृङ्गं शिरसि राजन्नासीन्महात्मनः 017a
तेनर्श्यशृङ्ग इत्येवं तदा स प्रथितोऽभवत् 017c
न तेन दृष्टपूर्वोऽन्यः पितुरन्यत्र मानुषः 018a
तस्मात्तस्य मनो नित्यं ब्रह्मचर्येऽभवन्नृप 018c
एतस्मिन्नेव काले तु सखा दशरथस्य वै 019a
लोमपाद इति ख्यातो अङ्गानामीश्वरोऽभवत् 019c
तेन कामः कृतो मिथ्या ब्राह्मणेभ्य इति श्रुतिः 020a
स ब्राह्मणैः परित्यक्तस्तदा वै जगतीपतिः 020c
पुरोहितापचाराच्च तस्य राज्ञो यदृच्छया 021a
न ववर्ष सहस्राक्षस्ततोऽपीड्यन्त वै प्रजाः 021c
स ब्राह्मणान्पर्यपृच्छत्तपोयुक्तान्मनीषिणः 022a
प्रवर्षणे सुरेन्द्रस्य समर्थान्पृथिवीपतिः 022c
कथं प्रवर्षेत्पर्जन्य उपायः परिदृश्यताम् 023a
तमूचुश्चोदितास्तेन स्वमतानि मनीषिणः 023c
तत्र त्वेको मुनिवरस्तं राजानमुवाच ह 024a
कुपितास्तव राजेन्द्र ब्राह्मणा निष्कृतिं चर 024c
ऋश्यशृङ्गं मुनिसुतमानयस्व च पार्थिव 025a
वानेयमनभिज्ञं च नारीणामार्जवे रतम् 025c
स चेदवतरेद्राजन्विषयं ते महातपाः 026a
सद्यः प्रवर्षेत्पर्जन्य इति मे नात्र संशयः 026c
एतच्छ्रुत्वा वचो राजन्कृत्वा निस्कृतिमात्मनः 027a
स गत्वा पुनरागच्छत्प्रसन्नेषु द्विजातिषु 027c
राजानमागतं दृष्ट्वा प्रतिसञ्जगृहुः प्रजाः 027e
ततोऽङ्गपतिराहूय सचिवान्मन्त्रकोविदान् 028a
ऋश्यशृङ्गागमे यत्नमकरोन्मन्त्रनिश्चये 028c
सोऽध्यगच्छदुपायं तु तैरमात्यैः सहाच्युतः 029a
शास्त्रज्ञैरलमर्थज्ञैर्नीत्यां च परिनिष्ठितैः 029c
तत आनाययामास वारमुख्या महीपतिः 030a
वेश्याः सर्वत्र निष्णातास्ता उवाच स पार्थिवः 030c
ऋश्यशृङ्गमृषेः पुत्रमानयध्वमुपायतः 031a
लोभयित्वाभिविश्वास्य विषयं मम शोभनाः 031c
ता राजभयभीताश्च शापभीताश्च योषितः 032a
अशक्यमूचुस्तत्कार्यं विवर्णा गतचेतसः 032c
तत्र त्वेका जरद्योषा राजानमिदमब्रवीत् 033a
प्रयतिष्ये महाराज तमानेतुं तपोधनम् 033c
अभिप्रेतांस्तु मे कामान्समनुज्ञातुमर्हसि 034a
ततः शक्ष्ये लोभयितुमृश्यशृङ्गमृषेः सुतम् 034c
तस्याः सर्वमभिप्रायमन्वजानात्स पार्थिवः 035a
धनं च प्रददौ भूरि रत्नानि विविधानि च 035c
ततो रूपेण सम्पन्ना वयसा च महीपते 036a
स्त्रिय आदाय काश्चित्सा जगाम वनमञ्जसा 036c