वैशम्पायन उवाच 001
ततः प्रयातः कौन्तेयः क्रमेण भरतर्षभ 001a
नन्दामपरनन्दां च नद्यौ पापभयापहे 001c
स पर्वतं समासाद्य हेमकूटमनामयम् 002a
अचिन्त्यानद्भुतान्भावान्ददर्श सुबहून्नृपः 002c
वाचो यत्राभवन्मेघा उपलाश्च सहस्रशः 003a
नाशक्नुवंस्तमारोढुं विषण्णमनसो जनाः 003c
वायुर्नित्यं ववौ यत्र नित्यं देवश्च वर्षति 004a
सायं प्रातश्च भगवान्दृश्यते हव्यवाहनः 004c
एवं बहुविधान्भावानद्भुतान्वीक्ष्य पाण्डवः 005a
लोमशं पुनरेव स्म पर्यपृच्छत्तदद्भुतम् 005c
लोमश उवाच 006
यथाश्रुतमिदं पूर्वमस्माभिररिकर्शन 006a
तदेकाग्रमना राजन्निबोध गदतो मम 006c
अस्मिन्नृषभकूटेऽभूदृषभो नाम तापसः 007a
अनेकशतवर्षायुस्तपस्वी कोपनो भृशम् 007c
स वै सम्भाष्यमाणोऽन्यैः कोपाद्गिरिमुवाच ह 008a
य इह व्याहरेत्कश्चिदुपलानुत्सृजेस्तदा 008c
वातं चाहूय मा शब्दमित्युवाच स तापसः 009a
व्याहरंश्चैव पुरुषो मेघेन विनिवार्यते 009c
एवमेतानि कर्माणि राजंस्तेन महर्षिणा 010a
कृतानि कानिचित्कोपात्प्रतिषिद्धानि कानिचित् 010c
नन्दामभिगतान्देवान्पुरा राजन्निति श्रुतिः 011a
अन्वपद्यन्त सहसा पुरुषा देवदर्शिनः 011c
ते दर्शनमनिच्छन्तो देवाः शक्रपुरोगमाः 012a
दुर्गं चक्रुरिमं देशं गिरिप्रत्यूहरूपकम् 012c
तदा प्रभृति कौन्तेय नरा गिरिमिमं सदा 013a
नाशक्नुवनभिद्रष्टुं कुत एवाधिरोहितुम् 013c
नातप्ततपसा शक्यो द्रष्टुमेष महागिरिः 014a
आरोढुं वापि कौन्तेय तस्मान्नियतवाग्भव 014c
इह देवाः सदा सर्वे यज्ञानाजह्रुरुत्तमान् 015a
तेषामेतानि लिङ्गानि दृश्यन्तेऽद्यापि भारत 015c
कुशाकारेव दूर्वेयं संस्तीर्णेव च भूरियम् 016a
यूपप्रकारा बहवो वृक्षाश्चेमे विशां पते 016c
देवाश्च ऋषयश्चैव वसन्त्यद्यापि भारत 017a
तेषां सायं तथा प्रातर्दृश्यते हव्यवाहनः 017c
इहाप्लुतानां कौन्तेय सद्यः पाप्मा विहन्यते 018a
कुरुश्रेष्ठाभिषेकं वै तस्मात्कुरु सहानुजः 018c
ततो नन्दाप्लुताङ्गस्त्वं कौशिकीमभियास्यसि 019a
विश्वामित्रेण यत्रोग्रं तपस्तप्तमनुत्तमम् 019c
वैशम्पायन उवाच 020
ततस्तत्र समाप्लुत्य गात्राणि सगणो नृपः 020a
जगाम कौशिकीं पुण्यां रम्यां शिवजलां नदीम् 020c