लोमश उवाच 001
स तु राजा महेष्वासश्चक्रवर्ती महारथः 001a
बभूव सर्वलोकस्य मनोनयननन्दनः 001c
स शुश्राव महाबाहुः कपिलेन महात्मना 002a
पितॄणां निधनं घोरमप्राप्तिं त्रिदिवस्य च 002c
स राज्यं सचिवे न्यस्य हृदयेन विदूयता 003a
जगाम हिमवत्पार्श्वं तपस्तप्तुं नरेश्वरः 003c
आरिराधयिषुर्गङ्गां तपसा दग्धकिल्बिषः 004a
सोऽपश्यत नरश्रेष्ठ हिमवन्तं नगोत्तमम् 004c
शृङ्गैर्बहुविधाकारैर्धातुमद्भिरलङ्कृतम् 005a
पवनालम्बिभिर्मेघैः परिष्वक्तं समन्ततः 005c
नदीकुञ्जनितम्बैश्च सोदकैरुपशोभितम् 006a
गुहाकन्दरसंलीनैः सिंहव्याघ्रैर्निषेवितम् 006c
शकुनैश्च विचित्राङ्गैः कूजद्भिर्विविधा गिरः 007a
भृङ्गराजैस्तथा हंसैर्दात्यूहैर्जलकुक्कुटैः 007c
मयूरैः शतपत्रैश्च कोकिलैर्जीवजीवकैः 008a
चकोरैरसितापाङ्गैस्तथा पुत्रप्रियैरपि 008c
जलस्थानेषु रम्येषु पद्मिनीभिश्च सङ्कुलम् 009a
सारसानां च मधुरैर्व्याहृतैः समलङ्कृतम् 009c
किन्नरैरप्सरोभिश्च निषेवितशिलातलम् 010a
दिशागजविषाणाग्रैः समन्ताद्घृष्टपादपम् 010c
विद्याधरानुचरितं नानारत्नसमाकुलम् 011a
विषोल्बणैर्भुजङ्गैश्च दीप्तजिह्वैर्निषेवितम् 011c
क्वचित्कनकसङ्काशं क्वचिद्रजतसन्निभम् 012a
क्वचिदञ्जनपुञ्जाभं हिमवन्तमुपागमत् 012c
स तु तत्र नरश्रेष्ठस्तपो घोरं समाश्रितः 013a
फलमूलाम्बुभक्षोऽभूत्सहस्रं परिवत्सरान् 013c
संवत्सरसहस्रे तु गते दिव्ये महानदी 014a
दर्शयामास तं गङ्गा तदा मूर्तिमती स्वयम् 014c
गङ्गोवाच 015
किमिच्छसि महाराज मत्तः किं च ददानि ते 015a
तद्ब्रवीहि नरश्रेष्ठ करिष्यामि वचस्तव 015c
लोमश उवाच 016
एवमुक्तः प्रत्युवाच राजा हैमवतीं तदा 016a
पितामहा मे वरदे कपिलेन महानदि 016c
अन्वेषमाणास्तुरगं नीता वैवस्वतक्षयम् 016e
षष्टिस्तानि सहस्राणि सागराणां महात्मनाम् 017a
कापिलं तेज आसाद्य क्षणेन निधनं गताः 017c
तेषामेवं विनष्टानां स्वर्गे वासो न विद्यते 018a
यावत्तानि शरीराणि त्वं जलैर्नाभिषिञ्चसि 018c
स्वर्गं नय महाभागे मत्पितॄन्सगरात्मजान् 019a
तेषामर्थेऽभियाचामि त्वामहं वै महानदि 019c
एतच्छ्रुत्वा वचो राज्ञो गङ्गा लोकनमस्कृता 020a
भगीरथमिदं वाक्यं सुप्रीता समभाषत 020c
करिष्यामि महाराज वचस्ते नात्र संशयः 021a
वेगं तु मम दुर्धार्यं पतन्त्या गगनाच्च्युतम् 021c
न शक्तस्त्रिषु लोकेषु कश्चिद्धारयितुं नृप 022a
अन्यत्र विबुधश्रेष्ठान्नीलकण्ठान्महेश्वरात् 022c
तं तोषय महाबाहो तपसा वरदं हरम् 023a
स तु मां प्रच्युतां देवः शिरसा धारयिष्यति 023c
करिष्यति च ते कामं पितॄणां हितकाम्यया 023e
एतच्छ्रुत्वा वचो राजन्महाराजो भगीरथः 024a
कैलासं पर्वतं गत्वा तोषयामास शङ्करम् 024c
ततस्तेन समागम्य कालयोगेन केनचित् 025a
अगृह्णाच्च वरं तस्माद्गङ्गाया धारणं नृप 025c
स्वर्गवासं समुद्दिश्य पितॄणां स नरोत्तमः 025e