लोमश उवाच 001
ते तं दृष्ट्वा हयं राजन्सम्प्रहृष्टतनूरुहाः 001a
अनादृत्य महात्मानं कपिलं कालचोदिताः 001c
सङ्क्रुद्धाः समधावन्त अश्वग्रहणकाङ्क्षिणः 001e
ततः क्रुद्धो महाराज कपिलो मुनिसत्तमः 002a
वासुदेवेति यं प्राहुः कपिलं मुनिसत्तमम् 002c
स चक्षुर्विवृतं कृत्वा तेजस्तेषु समुत्सृजन् 003a
ददाह सुमहातेजा मन्दबुद्धीन्स सागरान् 003c
तान्दृष्ट्वा भस्मसाद्भूतान्नारदः सुमहातपाः 004a
सगरान्तिकमागच्छत्तच्च तस्मै न्यवेदयत् 004c
स तच्छ्रुत्वा वचो घोरं राजा मुनिमुखोद्गतम् 005a
मुहूर्तं विमना भूत्वा स्थाणोर्वाक्यमचिन्तयत् 005c
आत्मानमात्मनाश्वास्य हयमेवान्वचिन्तयत् 005e
अंशुमन्तं समाहूय असमञ्जःसुतं तदा 006a
पौत्रं भरतशार्दूल इदं वचनमब्रवीत् 006c
षष्टिस्तानि सहस्राणि पुत्राणाममितौजसाम् 007a
कापिलं तेज आसाद्य मत्कृते निधनं गताः 007c
तव चापि पिता तात परित्यक्तो मयानघ 008a
धर्मं संरक्षमाणेन पौराणां हितमिच्छता 008c
युधिष्ठिर उवाच 009
किमर्थं राजशार्दूलः सगरः पुत्रमात्मजम् 009a
त्यक्तवान्दुस्त्यजं वीरं तन्मे ब्रूहि तपोधन 009c
लोमश उवाच 010
असमञ्जा इति ख्यातः सगरस्य सुतो ह्यभूत् 010a
यं शैब्या जनयामास पौराणां स हि दारकान् 010c
खुरेषु क्रोशतो गृह्य नद्यां चिक्षेप दुर्बलान् 010e
ततः पौराः समाजग्मुर्भयशोकपरिप्लुताः 011a
सगरं चाभ्ययाचन्त सर्वे प्राञ्जलयः स्थिताः 011c
त्वं नस्त्राता महाराज परचक्रादिभिर्भयैः 012a
असमञ्जोभयाद्घोरात्ततो नस्त्रातुमर्हसि 012c
पौराणां वचनं श्रुत्वा घोरं नृपतिसत्तमः 013a
मुहूर्तं विमना भूत्वा सचिवानिदमब्रवीत् 013c
असमञ्जाः पुरादद्य सुतो मे विप्रवास्यताम् 014a
यदि वो मत्प्रियं कार्यमेतच्छीघ्रं विधीयताम् 014c
एवमुक्ता नरेन्द्रेण सचिवास्ते नराधिप 015a
यथोक्तं त्वरिताश्चक्रुर्यथाज्ञापितवान्नृपः 015c
एतत्ते सर्वमाख्यातं यथा पुत्रो महात्मना 016a
पौराणां हितकामेन सगरेण विवासितः 016c
अंशुमांस्तु महेष्वासो यदुक्तः सगरेण ह 017a
तत्ते सर्वं प्रवक्ष्यामि कीर्त्यमानं निबोध मे 017c
सगर उवाच 018
पितुश्च तेऽहं त्यागेन पुत्राणां निधनेन च 018a
अलाभेन तथाश्वस्य परितप्यामि पुत्रक 018c
तस्माद्दुःखाभिसन्तप्तं यज्ञविघ्नाच्च मोहितम् 019a
हयस्यानयनात्पौत्र नरकान्मां समुद्धर 019c
लोमश उवाच 020
अंशुमानेवमुक्तस्तु सगरेण महात्मना 020a
जगाम दुःखात्तं देशं यत्र वै दारिता मही 020c
स तु तेनैव मार्गेण समुद्रं प्रविवेश ह 021a
अपश्यच्च महात्मानं कपिलं तुरगं च तम् 021c
स दृष्ट्वा तेजसो राशिं पुराणमृषिसत्तमम् 022a
प्रणम्य शिरसा भूमौ कार्यमस्मै न्यवेदयत् 022c
ततः प्रीतो महातेजाः कपिलोंऽशुमतोऽभवत् 023a
उवाच चैनं धर्मात्मा वरदोऽस्मीति भारत 023c
स वव्रे तुरगं तत्र प्रथमं यज्ञकारणात् 024a
द्वितीयमुदकं वव्रे पितॄणां पावनेप्सया 024c
तमुवाच महातेजाः कपिलो मुनिपुङ्गवः 025a
ददानि तव भद्रं ते यद्यत्प्रार्थयसेऽनघ 025c
त्वयि क्षमा च धर्मश्च सत्यं चापि प्रतिष्ठितम् 026a
त्वया कृतार्थः सगरः पुत्रवांश्च त्वया पिता 026c
तव चैव प्रभावेन स्वर्गं यास्यन्ति सागराः 027a
पौत्रश्च ते त्रिपथगां त्रिदिवादानयिष्यति 027c
पावनार्थं सागराणां तोषयित्वा महेश्वरम् 027e
हयं नयस्व भद्रं ते यज्ञियं नरपुङ्गव 028a
यज्ञः समाप्यतां तात सगरस्य महात्मनः 028c
अंशुमानेवमुक्तस्तु कपिलेन महात्मना 029a
आजगाम हयं गृह्य यज्ञवाटं महात्मनः 029c
सोऽभिवाद्य ततः पादौ सगरस्य महात्मनः 030a
मूर्ध्नि तेनाप्युपाघ्रातस्तस्मै सर्वं न्यवेदयत् 030c
यथा दृष्टं श्रुतं चापि सागराणां क्षयं तथा 031a
तं चास्मै हयमाचष्ट यज्ञवाटमुपागतम् 031c
तच्छ्रुत्वा सगरो राजा पुत्रजं दुःखमत्यजत् 032a
अंशुमन्तं च सम्पूज्य समापयत तं क्रतुम् 032c
समाप्तयज्ञः सगरो देवैः सर्वैः सभाजितः 033a
पुत्रत्वे कल्पयामास समुद्रं वरुणालयम् 033c
प्रशास्य सुचिरं कालं राज्यं राजीवलोचनः 034a
पौत्रे भारं समावेश्य जगाम त्रिदिवं तदा 034c
अंशुमानपि धर्मात्मा महीं सागरमेखलाम् 035a
प्रशशास महाराज यथैवास्य पितामहः 035c
तस्य पुत्रः समभवद्दिलीपो नाम धर्मवित् 036a
तस्मै राज्यं समाधाय अंशुमानपि संस्थितः 036c
दिलीपस्तु ततः श्रुत्वा पितॄणां निधनं महत् 037a
पर्यतप्यत दुःखेन तेषां गतिमचिन्तयत् 037c
गङ्गावतरणे यत्नं सुमहच्चाकरोन्नृपः 038a
न चावतारयामास चेष्टमानो यथाबलम् 038c
तस्य पुत्रः समभवच्छ्रीमान्धर्मपरायणः 039a
भगीरथ इति ख्यातः सत्यवागनसूयकः 039c
अभिषिच्य तु तं राज्ये दिलीपो वनमाश्रितः 040a
तपःसिद्धिसमायोगात्स राजा भरतर्षभ 040c
वनाज्जगाम त्रिदिवं कालयोगेन भारत 040e