लोमश उवाच 001
एतच्छ्रुत्वान्तरिक्षाच्च स राजा राजसत्तम 001a
यथोक्तं तच्चकाराथ श्रद्दधद्भरतर्षभ 001c
षष्टिः पुत्रसहस्राणि तस्याप्रतिमतेजसः 002a
रुद्रप्रसादाद्राजर्षेः समजायन्त पार्थिव 002c
ते घोराः क्रूरकर्माण आकाशपरिसर्पिणः 003a
बहुत्वाच्चावजानन्तः सर्वाल्ँलोकान्सहामरान् 003c
त्रिदशांश्चाप्यबाधन्त तथा गन्धर्वराक्षसान् 004a
सर्वाणि चैव भूतानि शूराः समरशालिनः 004c
वध्यमानास्ततो लोकाः सागरैर्मन्दबुद्धिभिः 005a
ब्रह्माणं शरणं जग्मुः सहिताः सर्वदैवतैः 005c
तानुवाच महाभागः सर्वलोकपितामहः 006a
गच्छध्वं त्रिदशाः सर्वे लोकैः सार्धं यथागतम् 006c
नातिदीर्घेण कालेन सागराणां क्षयो महान् 007a
भविष्यति महाघोरः स्वकृतैः कर्मभिः सुराः 007c
एवमुक्तास्ततो देवा लोकाश्च मनुजेश्वर 008a
पितामहमनुज्ञाप्य विप्रजग्मुर्यथागतम् 008c
ततः काले बहुतिथे व्यतीते भरतर्षभ 009a
दीक्षितः सगरो राजा हयमेधेन वीर्यवान् 009c
तस्याश्वो व्यचरद्भूमिं पुत्रैः सुपरिरक्षितः 009e
समुद्रं स समासाद्य निस्तोयं भीमदर्शनम् 010a
रक्ष्यमाणः प्रयत्नेन तत्रैवान्तरधीयत 010c
ततस्ते सागरास्तात हृतं मत्वा हयोत्तमम् 011a
आगम्य पितुराचख्युरदृश्यं तुरगं हृतम् 011c
तेनोक्ता दिक्षु सर्वासु सर्वे मार्गत वाजिनम् 011e
ततस्ते पितुराज्ञाय दिक्षु सर्वासु तं हयम् 012a
अमार्गन्त महाराज सर्वं च पृथिवीतलम् 012c
ततस्ते सागराः सर्वे समुपेत्य परस्परम् 013a
नाध्यगच्छन्त तुरगमश्वहर्तारमेव च 013c
आगम्य पितरं चोचुस्ततः प्राञ्जलयोऽग्रतः 014a
ससमुद्रवनद्वीपा सनदीनदकन्दरा 014c
सपर्वतवनोद्देशा निखिलेन मही नृप 014e
अस्माभिर्विचिता राजञ्शासनात्तव पार्थिव 015a
न चाश्वमधिगच्छामो नाश्वहर्तारमेव च 015c
श्रुत्वा तु वचनं तेषां स राजा क्रोधमूर्छितः 016a
उवाच वचनं सर्वांस्तदा दैववशान्नृप 016c
अनागमाय गच्छध्वं भूयो मार्गत वाजिनम् 017a
यज्ञियं तं विना ह्यश्वं नागन्तव्यं हि पुत्रकाः 017c
प्रतिगृह्य तु सन्देशं ततस्ते सगरात्मजाः 018a
भूय एव महीं कृत्स्नां विचेतुमुपचक्रमुः 018c
अथापश्यन्त ते वीराः पृथिवीमवदारिताम् 019a
समासाद्य बिलं तच्च खनन्तः सगरात्मजाः 019c
कुद्दालैर्ह्रेषुकैश्चैव समुद्रमखनंस्तदा 019e
स खन्यमानः सहितैः सागरैर्वरुणालयः 020a
अगच्छत्परमामार्तिं दार्यमाणः समन्ततः 020c
असुरोरगरक्षांसि सत्त्वानि विविधानि च 021a
आर्तनादमकुर्वन्त वध्यमानानि सागरैः 021c
छिन्नशीर्षा विदेहाश्च भिन्नजान्वस्थिमस्तकाः 022a
प्राणिनः समदृश्यन्त शतशोऽथ सहस्रशः 022c
एवं हि खनतां तेषां समुद्रं मकरालयम् 023a
व्यतीतः सुमहान्कालो न चाश्वः समदृश्यत 023c
ततः पूर्वोत्तरे देशे समुद्रस्य महीपते 024a
विदार्य पातालमथ सङ्क्रुद्धाः सगरात्मजाः 024c
अपश्यन्त हयं तत्र विचरन्तं महीतले 024e
कपिलं च महात्मानं तेजोराशिमनुत्तमम् 025a
तपसा दीप्यमानं तं ज्वालाभिरिव पावकम् 025c