लोमश उवाच 001
तानुवाच समेतांस्तु ब्रह्मा लोकपितामहः 001a
गच्छध्वं विबुधाः सर्वे यथाकामं यथेप्सितम् 001c
महता कालयोगेन प्रकृतिं यास्यतेऽर्णवः 002a
ज्ञातीन्वै कारणं कृत्वा महाराज्ञो भगीरथात् 002c
युधिष्ठिर उवाच 003
कथं वै ज्ञातयो ब्रह्मन्कारणं चात्र किं मुने 003a
कथं समुद्रः पूर्णश्च भगीरथपरिश्रमात् 003c
एतदिच्छाम्यहं श्रोतुं विस्तरेण तपोधन 004a
कथ्यमानं त्वया विप्र राज्ञां चरितमुत्तमम् 004c
वैशम्पायन उवाच 005
एवमुक्तस्तु विप्रेन्द्रो धर्मराज्ञा महात्मना 005a
कथयामास माहात्म्यं सगरस्य महात्मनः 005c
लोमश उवाच 006
इक्ष्वाकूणां कुले जातः सगरो नाम पार्थिवः 006a
रूपसत्त्वबलोपेतः स चापुत्रः प्रतापवान् 006c
स हैहयान्समुत्साद्य तालजङ्घांश्च भारत 007a
वशे च कृत्वा राज्ञोऽन्यान्स्वराज्यमन्वशासत 007c
तस्य भार्ये त्वभवतां रूपयौवनदर्पिते 008a
वैदर्भी भरतश्रेष्ठ शैब्या च भरतर्षभ 008c
स पुत्रकामो नृपतिस्तताप सुमहत्तपः 009a
पत्नीभ्यां सह राजेन्द्र कैलासं गिरिमाश्रितः 009c
स तप्यमानः सुमहत्तपो योगसमन्वितः 010a
आससाद महात्मानं त्र्यक्षं त्रिपुरमर्दनम् 010c
शङ्करं भवमीशानं शूलपानिं पिनाकिनम् 011a
त्र्यम्बकं शिवमुग्रेशं बहुरूपमुमापतिम् 011c
स तं दृष्ट्वैव वरदं पत्नीभ्यां सहितो नृपः 012a
प्रणिपत्य महाबाहुः पुत्रार्थं समयाचत 012c
तं प्रीतिमान्हरः प्राह सभार्यं नृपसत्तमम् 013a
यस्मिन्वृतो मुहूर्तेऽहं त्वयेह नृपते वरम् 013c
षष्टिः पुत्रसहस्राणि शूराः समरदर्पिताः 014a
एकस्यां सम्भविष्यन्ति पत्न्यां तव नरोत्तम 014c
ते चैव सर्वे सहिताः क्षयं यास्यन्ति पार्थिव 015a
एको वंशधरः शूर एकस्यां सम्भविष्यति 015c
एवमुक्त्वा तु तं रुद्रस्तत्रैवान्तरधीयत 015e
स चापि सगरो राजा जगाम स्वं निवेशनम् 016a
पत्नीभ्यां सहितस्तात सोऽतिहृष्टमनास्तदा 016c
तस्याथ मनुजश्रेष्ठ ते भार्ये कमलेक्षणे 017a
वैदर्भी चैव शैब्या च गर्भिण्यौ सम्बभूवतुः 017c
ततः कालेन वैदर्भी गर्भालाबुं व्यजायत 018a
शैब्या च सुषुवे पुत्रं कुमारं देवरूपिणम् 018c
तदालाबुं समुत्स्रष्टुं मनश्चक्रे स पार्थिवः 019a
अथान्तरिक्षाच्छुश्राव वाचं गम्भीरनिस्वनाम् 019c
राजन्मा साहसं कार्षीः पुत्रान्न त्यक्तुमर्हसि 020a
अलाबुमध्यान्निष्कृष्य बीजं यत्नेन गोप्यताम् 020c
सोपस्वेदेषु पात्रेषु घृतपूर्णेषु भागशः 021a
ततः पुत्रसहस्राणि षष्टिं प्राप्स्यसि पार्थिव 021c
महादेवेन दिष्टं ते पुत्रजन्म नराधिप 022a
अनेन क्रमयोगेन मा ते बुद्धिरतोऽन्यथा 022c