लोमश उवाच 001
समुद्रं स समासाद्य वारुणिर्भगवानृषिः 001a
उवाच सहितान्देवानृषींश्चैव समागतान् 001c
एष लोकहितार्थं वै पिबामि वरुणालयम् 002a
भवद्भिर्यदनुष्ठेयं तच्छीघ्रं संविधीयताम् 002c
एतावदुक्त्वा वचनं मैत्रावरुणिरच्युतः 003a
समुद्रमपिबत्क्रुद्धः सर्वलोकस्य पश्यतः 003c
पीयमानं समुद्रं तु दृष्ट्वा देवाः सवासवाः 004a
विस्मयं परमं जग्मुः स्तुतिभिश्चाप्यपूजयन् 004c
त्वं नस्त्राता विधाता च लोकानां लोकभावनः 005a
त्वत्प्रसादात्समुच्छेदं न गच्छेत्सामरं जगत् 005c
सम्पूज्यमानस्त्रिदशैर्महात्मा गन्धर्वतूर्येषु नदत्सु सर्वशः 006a
दिव्यैश्च पुष्पैरवकीर्यमाणो महार्णवं निःसलिलं चकार 006c
दृष्ट्वा कृतं निःसलिलं महार्णवं सुराः समस्ताः परमप्रहृष्टाः 007a
प्रगृह्य दिव्यानि वरायुधानि तान्दानवाञ्जघ्नुरदीनसत्त्वाः 007c
ते वध्यमानास्त्रिदशैर्महात्मभिर्महाबलैर्वेगिभिरुन्नदद्भिः 008a
न सेहिरे वेगवतां महात्मनां वेगं तदा धारयितुं दिवौकसाम् 008c
ते वध्यमानास्त्रिदशैर्दानवा भीमनिस्वनाः 009a
चक्रुः सुतुमुलं युद्धं मुहूर्तमिव भारत 009c
ते पूर्वं तपसा दग्धा मुनिभिर्भावितात्मभिः 010a
यतमानाः परं शक्त्या त्रिदशैर्विनिषूदिताः 010c
ते हेमनिष्काभरणाः कुण्डलाङ्गदधारिणः 011a
निहत्य बह्वशोभन्त पुष्पिता इव किंशुकाः 011c
हतशेषास्ततः केचित्कालेया मनुजोत्तम 012a
विदार्य वसुधां देवीं पातालतलमाश्रिताः 012c
निहतान्दानवान्दृष्ट्वा त्रिदशा मुनिपुङ्गवम् 013a
तुष्टुवुर्विविधैर्वाक्यैरिदं चैवाब्रुवन्वचः 013c
त्वत्प्रसादान्महाभाग लोकैः प्राप्तं महत्सुखम् 014a
त्वत्तेजसा च निहताः कालेयाः क्रूरविक्रमाः 014c
पूरयस्व महाबाहो समुद्रं लोकभावन 015a
यत्त्वया सलिलं पीतं तदस्मिन्पुनरुत्सृज 015c
एवमुक्तः प्रत्युवाच भगवान्मुनिपुङ्गवः 016a
जीर्णं तद्धि मया तोयमुपायोऽन्यः प्रचिन्त्यताम् 016c
पूरणार्थं समुद्रस्य भवद्भिर्यत्नमास्थितैः 016e
एतच्छ्रुत्वा तु वचनं महर्षेर्भावितात्मनः 017a
विस्मिताश्च विषण्णाश्च बभूवुः सहिताः सुराः 017c
परस्परमनुज्ञाप्य प्रणम्य मुनिपुङ्गवम् 018a
प्रजाः सर्वा महाराज विप्रजग्मुर्यथागतम् 018c
त्रिदशा विष्णुना सार्धमुपजग्मुः पितामहम् 019a
पूरणार्थं समुद्रस्य मन्त्रयित्वा पुनः पुनः 019c
ऊचुः प्राञ्जलयः सर्वे सागरस्याभिपूरणम् 019e