युधिष्ठिर उवाच 001
किमर्थं सहसा विन्ध्यः प्रवृद्धः क्रोधमूर्छितः 001a
एतदिच्छाम्यहं श्रोतुं विस्तरेण महामुने 001c
लोमश उवाच 002
अद्रिराजं महाशैलं मरुं कनकपर्वतम् 002a
उदयास्तमये भानुः प्रदक्षिणमवर्तत 002c
तं तु दृष्ट्वा तथा विन्ध्यः शैलः सूर्यमथाब्रवीत् 003a
यथा हि मेरुर्भवता नित्यशः परिगम्यते 003c
प्रदक्षिणं च क्रियते मामेवं कुरु भास्कर 003e
एवमुक्तस्ततः सूर्यः शैलेन्द्रं प्रत्यभाषत 004a
नाहमात्मेच्छया शैल करोम्येनं प्रदक्षिणम् 004c
एष मार्गः प्रदिष्टो मे येनेदं निर्मितं जगत् 004e
एवमुक्तस्ततः क्रोधात्प्रवृद्धः सहसाचलः 005a
सूर्याचन्द्रमसोर्मार्गं रोद्धुमिच्छन्परन्तप 005c
ततो देवाः सहिताः सर्व एव सेन्द्राः समागम्य महाद्रिराजम् 006a
निवारयामासुरुपायतस्तं न च स्म तेषां वचनं चकार 006c
अथाभिजग्मुर्मुनिमाश्रमस्थं तपस्विनं धर्मभृतां वरिष्ठम् 007a
अगस्त्यमत्यद्भुतवीर्यदीप्तं तं चार्थमूचुः सहिताः सुरास्ते 007c
देवा ऊचुः 008
सूर्याचन्द्रमसोर्मार्गं नक्षत्राणां गतिं तथा 008a
शैलराजो वृणोत्येष विन्ध्यः क्रोधवशानुगः 008c
तं निवारयितुं शक्तो नान्यः कश्चिद्द्विजोत्तम 009a
ऋते त्वां हि महाभाग तस्मादेनं निवारय 009c
लोमश उवाच 010
तच्छ्रुत्वा वचनं विप्रः सुराणां शैलमभ्यगात् 010a
सोऽभिगम्याब्रवीद्विन्ध्यं सदारः समुपस्थितः 010c
मार्गमिच्छाम्यहं दत्तं भवता पर्वतोत्तम 011a
दक्षिणामभिगन्तास्मि दिशं कार्येण केनचित् 011c
यावदागमनं मह्यं तावत्त्वं प्रतिपालय 012a
निवृत्ते मयि शैलेन्द्र ततो वर्धस्व कामतः 012c
एवं स समयं कृत्वा विन्ध्येनामित्रकर्शन 013a
अद्यापि दक्षिणाद्देशाद्वारुणिर्न निवर्तते 013c
एतत्ते सर्वमाख्यातं यथा विन्ध्यो न वर्धते 014a
अगस्त्यस्य प्रभावेन यन्मां त्वं परिपृच्छसि 014c
कालेयास्तु यथा राजन्सुरैः सर्वैर्निषूदिताः 015a
अगस्त्याद्वरमासाद्य तन्मे निगदतः शृणु 015c
त्रिदशानां वचः श्रुत्वा मैत्रावरुणिरब्रवीत् 016a
किमर्थमभियाताः स्थ वरं मत्तः किमिच्छथ 016c
एवमुक्तास्ततस्तेन देवास्तं मुनिमब्रुवन् 016e
एवं त्वयेच्छाम कृतं महर्षे महार्णवं पीयमानं महात्मन् 017a
ततो वधिष्याम सहानुबन्धान्कालेयसञ्ज्ञान्सुरविद्विषस्तान् 017c
त्रिदशानां वचः श्रुत्वा तथेति मुनिरब्रवीत् 018a
करिष्ये भवतां कामं लोकानां च महत्सुखम् 018c
एवमुक्त्वा ततोऽगच्छत्समुद्रं सरितां पतिम् 019a
ऋषिभिश्च तपःसिद्धैः सार्धं देवैश्च सुव्रतः 019c
मनुष्योरगगन्धर्वयक्षकिम्पुरुषास्तथा 020a
अनुजग्मुर्महात्मानं द्रष्टुकामास्तदद्भुतम् 020c
ततोऽभ्यगच्छन्सहिताः समुद्रं भीमनिस्वनम् 021a
नृत्यन्तमिव चोर्मीभिर्वल्गन्तमिव वायुना 021c
हसन्तमिव फेनौघैः स्खलन्तं कन्दरेषु च 022a
नानाग्राहसमाकीर्णं नानाद्विजगणायुतम् 022c
अगस्त्यसहिता देवाः सगन्धर्वमहोरगाः 023a
ऋषयश्च महाभागाः समासेदुर्महोदधिम् 023c