देवा ऊचुः 001
इतः प्रदानाद्वर्तन्ते प्रजाः सर्वाश्चतुर्विधाः 001a
ता भाविता भावयन्ति हव्यकव्यैर्दिवौकसः 001c
लोका ह्येवं वर्तयन्ति अन्योन्यं समुपाश्रिताः 002a
त्वत्प्रसादान्निरुद्विग्नास्त्वयैव परिरक्षिताः 002c
इदं च समनुप्राप्तं लोकानां भयमुत्तमम् 003a
न च जानीम केनेमे रात्रौ वध्यन्ति ब्राह्मणाः 003c
क्षीणेषु च ब्राह्मणेषु पृथिवी क्षयमेष्यति 004a
ततः पृथिव्यां क्षीणायां त्रिदिवं क्षयमेष्यति 004c
त्वत्प्रसादान्महाबाहो लोकाः सर्वे जगत्पते 005a
विनाशं नाधिगच्छेयुस्त्वया वै परिरक्षिताः 005c
विष्णुरुवाच 006
विदितं मे सुराः सर्वं प्रजानां क्षयकारणम् 006a
भवतां चापि वक्ष्यामि शृणुध्वं विगतज्वराः 006c
कालेय इति विख्यातो गणः परमदारुणः 007a
तैश्च वृत्रं समाश्रित्य जगत्सर्वं प्रबाधितम् 007c
ते वृत्रं निहतं दृष्ट्वा सहस्राक्षेण धीमता 008a
जीवितं परिरक्षन्तः प्रविष्टा वरुणालयम् 008c
ते प्रविश्योदधिं घोरं नक्रग्राहसमाकुलम् 009a
उत्सादनार्थं लोकानां रात्रौ घ्नन्ति मुनीनिह 009c
न तु शक्याः क्षयं नेतुं समुद्राश्रयगा हि ते 010a
समुद्रस्य क्षये बुद्धिर्भवद्भिः सम्प्रधार्यताम् 010c
अगस्त्येन विना को हि शक्तोऽन्योऽर्णवशोषणे 010e
एतच्छ्रुत्वा वचो देवा विष्णुना समुदाहृतम् 011a
परमेष्ठिनमाज्ञाप्य अगस्त्यस्याश्रमं ययुः 011c
तत्रापश्यन्महात्मानं वारुणिं दीप्ततेजसम् 012a
उपास्यमानमृषिभिर्देवैरिव पितामहम् 012c
तेऽभिगम्य महात्मानं मैत्रावरुणिमच्युतम् 013a
आश्रमस्थं तपोराशिं कर्मभिः स्वैरभिष्टुवन् 013c
देवा ऊचुः 014
नहुषेणाभितप्तानां त्वं लोकानां गतिः पुरा 014a
भ्रंशितश्च सुरैश्वर्याल्लोकार्थं लोककण्टकः 014c
क्रोधात्प्रवृद्धः सहसा भास्करस्य नगोत्तमः 015a
वचस्तवानतिक्रामन्विन्ध्यः शैलो न वर्धते 015c
तमसा चावृते लोके मृत्युनाभ्यर्दिताः प्रजाः 016a
त्वामेव नाथमासाद्य निर्वृतिं परमां गताः 016c
अस्माकं भयभीतानां नित्यशो भगवान्गतिः 017a
ततस्त्वार्ताः प्रयाचामस्त्वां वरं वरदो ह्यसि 017c