लोमश उवाच 001
समुद्रं ते समाश्रित्य वारुणं निधिमम्भसाम् 001a
कालेयाः सम्प्रवर्तन्त त्रैलोक्यस्य विनाशने 001c
ते रात्रौ समभिक्रुद्धा भक्षयन्ति सदा मुनीन् 002a
आश्रमेषु च ये सन्ति पुन्येष्वायतनेषु च 002c
वसिष्ठस्याश्रमे विप्रा भक्षितास्तैर्दुरात्मभिः 003a
अशीतिशतमष्टौ च नव चान्ये तपस्विनः 003c
च्यवनस्याश्रमं गत्वा पुण्यं द्विजनिषेवितम् 004a
फलमूलाशनानां हि मुनीनां भक्षितं शतम् 004c
एवं रात्रौ स्म कुर्वन्ति विविशुश्चार्णवं दिवा 005a
भरद्वाजाश्रमे चैव नियता ब्रह्मचारिणः 005c
वाय्वाहाराम्बुभक्षाश्च विंशतिः सन्निपातिताः 005e
एवं क्रमेण सर्वांस्तानाश्रमान्दानवास्तदा 006a
निशायां परिधावन्ति मत्ता भुजबलाश्रयात् 006c
कालोपसृष्टाः कालेया घ्नन्तो द्विजगणान्बहून् 006e
न चैनानन्वबुध्यन्त मनुजा मनुजोत्तम 007a
एवं प्रवृत्तान्दैत्यांस्तांस्तापसेषु तपस्विषु 007c
प्रभाते समदृश्यन्त नियताहारकर्शिताः 008a
महीतलस्था मुनयः शरीरैर्गतजीवितैः 008c
क्षीणमांसैर्विरुधिरैर्विमज्जान्त्रैर्विसन्धिभिः 009a
आकीर्णैराचिता भूमिः शङ्खानामिव राशिभिः 009c
कलशैर्विप्रविद्धैश्च स्रुवैर्भग्नैस्तथैव च 010a
विकीर्णैरग्निहोत्रैश्च भूर्बभूव समावृता 010c
निःस्वाध्यायवषट्कारं नष्टयज्ञोत्सवक्रियम् 011a
जगदासीन्निरुत्साहं कालेयभयपीडितम् 011c
एवं प्रक्षीयमाणाश्च मानवा मनुजेश्वर 012a
आत्मत्राणपरा भीताः प्राद्रवन्त दिशो भयात् 012c
केचिद्गुहाः प्रविविशुर्निर्झरांश्चापरे श्रिताः 013a
अपरे मरणोद्विग्ना भयात्प्रानान्समुत्सृजन् 013c
केचिदत्र महेष्वासाः शूराः परमदर्पिताः 014a
मार्गमाणाः परं यत्नं दानवानां प्रचक्रिरे 014c
न चैतानधिजग्मुस्ते समुद्रं समुपाश्रितान् 015a
श्रमं जग्मुश्च परममाजग्मुः क्षयमेव च 015c
जगत्युपशमं याते नष्टयज्ञोत्सवक्रिये 016a
आजग्मुः परमामार्तिं त्रिदशा मनुजेश्वर 016c
समेत्य समहेन्द्राश्च भयान्मन्त्रं प्रचक्रिरे 017a
नारायणं पुरस्कृत्य वैकुण्ठमपराजितम् 017c
ततो देवाः समेतास्ते तदोचुर्मधुसूदनम् 018a
त्वं नः स्रष्टा च पाता च भर्ता च जगतः प्रभो 018c
त्वया सृष्टमिदं सर्वं यच्चेङ्गं यच्च नेङ्गति 018e
त्वया भूमिः पुरा नष्टा समुद्रात्पुष्करेक्षण 019a
वाराहं रूपमास्थाय जगदर्थे समुद्धृता 019c
आदिदैत्यो महावीर्यो हिरण्यकशिपुस्त्वया 020a
नारसिंहं वपुः कृत्वा सूदितः पुरुषोत्तम 020c
अवध्यः सर्वभूतानां बलिश्चापि महासुरः 021a
वामनं वपुराश्रित्य त्रैलोक्याद्भ्रंशितस्त्वया 021c
असुरश्च महेष्वासो जम्भ इत्यभिविश्रुतः 022a
यज्ञक्षोभकरः क्रूरस्त्वयैव विनिपातितः 022c
एवमादीनि कर्माणि येषां सङ्ख्या न विद्यते 023a
अस्माकं भयभीतानां त्वं गतिर्मधुसूदन 023c
तस्मात्त्वां देव देवेश लोकार्थं ज्ञापयामहे 024a
रक्ष लोकांश्च देवांश्च शक्रं च महतो भयात् 024c