लोमश उवाच 001
ततः स वज्री बलिभिर्दैवतैरभिरक्षितः 001a
आससाद ततो वृत्रं स्थितमावृत्य रोदसी 001c
कालकेयैर्महाकायैः समन्तादभिरक्षितम् 002a
समुद्यतप्रहरणैः सशृङ्गैरिव पर्वतैः 002c
ततो युद्धं समभवद्देवानां सह दानवैः 003a
मुहूर्तं भरतश्रेष्ठ लोकत्रासकरं महत् 003c
उद्यतप्रतिपिष्टानां खड्गानां वीरबाहुभिः 004a
आसीत्सुतुमुलः शब्दः शरीरेष्वभिपात्यताम् 004c
शिरोभिः प्रपतद्भिश्च अन्तरिक्षान्महीतलम् 005a
तालैरिव महीपाल वृन्ताद्भ्रष्टैरदृश्यत 005c
ते हेमकवचा भूत्वा कालेयाः परिघायुधाः 006a
त्रिदशानभ्यवर्तन्त दावदग्धा इवाद्रयः 006c
तेषां वेगवतां वेगं सहितानां प्रधावताम् 007a
न शेकुस्त्रिदशाः सोढुं ते भग्नाः प्राद्रवन्भयात् 007c
तान्दृष्ट्वा द्रवतो भीतान्सहस्राक्षः पुरन्दरः 008a
वृत्रे विवर्धमाने च कश्मलं महदाविशत् 008c
तं शक्रं कश्मलाविष्टं दृष्ट्वा विष्णुः सनातनः 009a
स्वतेजो व्यदधाच्छक्रे बलमस्य विवर्धयन् 009c
विष्णुनाप्यायितं शक्रं दृष्ट्वा देवगणास्ततः 010a
स्वं स्वं तेजः समादध्युस्तथा ब्रह्मर्षयोऽमलाः 010c
स समाप्यायितः शक्रो विष्णुना दैवतैः सह 011a
ऋषिभिश्च महाभागैर्बलवान्समपद्यत 011c
ज्ञात्वा बलस्थं त्रिदशाधिपं तु ननाद वृत्रो महतो निनादान् 012a
तस्य प्रणादेन धरा दिशश्च खं द्यौर्नगाश्चापि चचाल सर्वम् 012c
ततो महेन्द्रः परमाभितप्तः श्रुत्वा रवं घोररूपं महान्तम् 013a
भये निमग्नस्त्वरितं मुमोच वज्रं महत्तस्य वधाय राजन् 013c
स शक्रवज्राभिहतः पपात महासुरः काञ्चनमाल्यधारी 014a
यथा महाञ्शैलवरः पुरस्तात्स मन्दरो विष्णुकरात्प्रमुक्तः 014c
तस्मिन्हते दैत्यवरे भयार्तः शक्रः प्रदुद्राव सरः प्रवेष्टुम् 015a
वज्रं न मेने स्वकरात्प्रमुक्तं वृत्रं हतं चापि भयान्न मेने 015c
सर्वे च देवा मुदिताः प्रहृष्टा महर्षयश्चेन्द्रमभिष्टुवन्तः 016a
सर्वांश्च दैत्यांस्त्वरिताः समेत्य जघ्नुः सुरा वृत्रवधाभितप्तान् 016c
ते वध्यमानास्त्रिदशैस्तदानीं समुद्रमेवाविविशुर्भयार्ताः 017a
प्रविश्य चैवोदधिमप्रमेयं झषाकुलं रत्नसमाकुलं च 017c
तदा स्म मन्त्रं सहिताः प्रचक्रुस्त्रैलोक्यनाशार्थमभिस्मयन्तः 018a
तत्र स्म केचिन्मतिनिश्चयज्ञास्तांस्तानुपायाननुवर्णयन्ति 018c
तेषां तु तत्र क्रमकालयोगाद्घोरा मतिश्चिन्तयतां बभूव 019a
ये सन्ति विद्यातपसोपपन्नास्तेषां विनाशः प्रथमं तु कार्यः 019c
लोका हि सर्वे तपसा ध्रियन्ते तस्मात्त्वरध्वं तपसः क्षयाय 020a
ये सन्ति केचिद्धि वसुन्धरायां तपस्विनो धर्मविदश्च तज्ज्ञाः 020c
तेषां वधः क्रियतां क्षिप्रमेव तेषु प्रनष्टेषु जगत्प्रनष्टम् 020e
एवं हि सर्वे गतबुद्धिभावा जगद्विनाशे परमप्रहृष्टाः 021a
दुर्गं समाश्रित्य महोर्मिमन्तं रत्नाकरं वरुणस्यालयं स्म 021c