युधिष्ठिर उवाच 001
भूय एवाहमिच्छामि महर्षेस्तस्य धीमतः 001a
कर्मणां विस्तरं श्रोतुमगस्त्यस्य द्विजोत्तम 001c
लोमश उवाच 002
शृणु राजन्कथां दिव्यामद्भुतामतिमानुषीम् 002a
अगस्त्यस्य महाराज प्रभावममितात्मनः 002c
आसन्कृतयुगे घोरा दानवा युद्धदुर्मदाः 003a
कालेया इति विख्याता गणाः परमदारुणाः 003c
ते तु वृत्रं समाश्रित्य नानाप्रहरणोद्यताः 004a
समन्तात्पर्यधावन्त महेन्द्रप्रमुखान्सुरान् 004c
ततो वृत्रवधे यत्नमकुर्वंस्त्रिदशाः पुरा 005a
पुरन्दरं पुरस्कृत्य ब्रह्माणमुपतस्थिरे 005c
कृताञ्जलींस्तु तान्सर्वान्परमेष्ठी उवाच ह 006a
विदितं मे सुराः सर्वं यद्वः कार्यं चिकीर्षितम् 006c
तमुपायं प्रवक्ष्यामि यथा वृत्रं वधिष्यथ 007a
दधीच इति विख्यातो महानृषिरुदारधीः 007c
तं गत्वा सहिताः सर्वे वरं वै सम्प्रयाचत 008a
स वो दास्यति धर्मात्मा सुप्रीतेनान्तरात्मना 008c
स वाच्यः सहितैः सर्वैर्भवद्भिर्जयकाङ्क्षिभिः 009a
स्वान्यस्थीनि प्रयच्छेति त्रैलोक्यस्य हिताय वै 009c
स शरीरं समुत्सृज्य स्वान्यस्थीनि प्रदास्यति 009e
तस्यास्थिभिर्महाघोरं वज्रं सम्भ्रियतां दृढम् 010a
महच्छत्रुहणं तीक्ष्णं षडश्रं भीमनिस्वनम् 010c
तेन वज्रेण वै वृत्रं वधिष्यति शतक्रतुः 011a
एतद्वः सर्वमाख्यातं तस्माच्छीघ्रं विधीयताम् 011c
एवमुक्तास्ततो देवा अनुज्ञाप्य पितामहम् 012a
नारायणं पुरस्कृत्य दधीचस्याश्रमं ययुः 012c
सरस्वत्याः परे पारे नानाद्रुमलतावृतम् 013a
षट्पदोद्गीतनिनदैर्विघुष्टं सामगैरिव 013c
पुंस्कोकिलरवोन्मिश्रं जीवञ्जीवकनादितम् 013e
महिषैश्च वराहैश्च सृमरैश्चमरैरपि 014a
तत्र तत्रानुचरितं शार्दूलभयवर्जितैः 014c
करेणुभिर्वारणैश्च प्रभिन्नकरटामुखैः 015a
सरोऽवगाढैः क्रीडद्भिः समन्तादनुनादितम् 015c
सिंहव्याघ्रैर्महानादान्नदद्भिरनुनादितम् 016a
अपरैश्चापि संलीनैर्गुहाकन्दरवासिभिः 016c
तेषु तेष्ववकाशेषु शोभितं सुमनोरमम् 017a
त्रिविष्टपसमप्रख्यं दधीचाश्रममागमन् 017c
तत्रापश्यन्दधीचं ते दिवाकरसमद्युतिम् 018a
जाज्वल्यमानं वपुषा यथा लक्ष्म्या पितामहम् 018c
तस्य पादौ सुरा राजन्नभिवाद्य प्रणम्य च 019a
अयाचन्त वरं सर्वे यथोक्तं परमेष्ठिना 019c
ततो दधीचः परमप्रतीतः सुरोत्तमांस्तानिदमभ्युवाच 020a
करोमि यद्वो हितमद्य देवाः स्वं चापि देहं त्वहमुत्सृजामि 020c
स एवमुक्त्वा द्विपदां वरिष्ठः प्राणान्वशी स्वान्सहसोत्ससर्ज 021a
ततः सुरास्ते जगृहुः परासोरस्थीनि तस्याथ यथोपदेशम् 021c
प्रहृष्टरूपाश्च जयाय देवास्त्वष्टारमागम्य तमर्थमूचुः 022a
त्वष्टा तु तेषां वचनं निशम्य प्रहृष्टरूपः प्रयतः प्रयत्नात् 022c
चकार वज्रं भृशमुग्ररूपं कृत्वा च शक्रं स उवाच हृष्टः 023a
अनेन वज्रप्रवरेण देव भस्मीकुरुष्वाद्य सुरारिमुग्रम् 023c
ततो हतारिः सगणः सुखं वै प्रशाधि कृत्स्नं त्रिदिवं दिविष्ठः 024a
त्वष्ट्रा तथोक्तः स पुरन्दरस्तु वज्रं प्रहृष्टः प्रयतोऽभ्यगृह्णात् 024c