लोमश उवाच 001
इल्वलस्तान्विदित्वा तु महर्षिसहितान्नृपान् 001a
उपस्थितान्सहामात्यो विषयान्तेऽभ्यपूजयत् 001c
तेषां ततोऽसुरश्रेष्ठ आतिथ्यमकरोत्तदा 002a
स संस्कृतेन कौरव्य भ्रात्रा वातापिना किल 002c
ततो राजर्षयः सर्वे विषण्णा गतचेतसः 003a
वातापिं संस्कृतं दृष्ट्वा मेषभूतं महासुरम् 003c
अथाब्रवीदगस्त्यस्तान्राजर्षीनृषिसत्तमः 004a
विषादो वो न कर्तव्यो अहं भोक्ष्ये महासुरम् 004c
धुर्यासनमथासाद्य निषसाद महामुनिः 005a
तं पर्यवेषद्दैत्येन्द्र इल्वलः प्रहसन्निव 005c
अगस्त्य एव कृत्स्नं तु वातापिं बुभुजे ततः 006a
भुक्तवत्यसुरोऽऽह्वानमकरोत्तस्य इल्वलः 006c
ततो वायुः प्रादुरभूदगस्त्यस्य महात्मनः 007a
इल्वलश्च विषण्णोऽभूद्दृष्ट्वा जीर्णं महासुरम् 007c
प्राञ्जलिश्च सहामात्यैरिदं वचनमब्रवीत् 008a
किमर्थमुपयाताः स्थ ब्रूत किं करवाणि वः 008c
प्रत्युवाच ततोऽगस्त्यः प्रहसन्निल्वलं तदा 009a
ईशं ह्यसुर विद्मस्त्वां वयं सर्वे धनेश्वरम् 009c
इमे च नातिधनिनो धनार्थश्च महान्मम 010a
यथाशक्त्यविहिंस्यान्यान्संविभागं प्रयच्छ नः 010c
ततोऽभिवाद्य तमृषिमिल्वलो वाक्यमब्रवीत् 011a
दित्सितं यदि वेत्सि त्वं ततो दास्यामि ते वसु 011c
अगस्त्य उवाच 012
गवां दश सहस्राणि राज्ञामेकैकशोऽसुर 012a
तावदेव सुवर्णस्य दित्सितं ते महासुर 012c
मह्यं ततो वै द्विगुणं रथश्चैव हिरण्मयः 013a
मनोजवौ वाजिनौ च दित्सितं ते महासुर 013c
जिज्ञास्यतां रथः सद्यो व्यक्तमेष हिरण्मयः 013e
लोमश उवाच 014
जिज्ञास्यमानः स रथः कौन्तेयासीद्धिरण्मयः 014a
ततः प्रव्यथितो दैत्यो ददावभ्यधिकं वसु 014c
विवाजश्च सुवाजश्च तस्मिन्युक्तौ रथे हयौ 015a
ऊहतुस्तौ वसून्याशु तान्यगस्त्याश्रमं प्रति 015c
सर्वान्राज्ञः सहागस्त्यान्निमेषादिव भारत 015e
अगस्त्येनाभ्यनुज्ञाता जग्मू राजर्षयस्तदा 016a
कृतवांश्च मुनिः सर्वं लोपामुद्राचिकीर्षितम् 016c
लोपामुद्रोवाच 017
कृतवानसि तत्सर्वं भगवन्मम काङ्क्षितम् 017a
उत्पादय सकृन्मह्यमपत्यं वीर्यवत्तरम् 017c
अगस्त्य उवाच 018
तुष्टोऽहमस्मि कल्याणि तव वृत्तेन शोभने 018a
विचारणामपत्ये तु तव वक्ष्यामि तां शृणु 018c
सहस्रं तेऽस्तु पुत्राणां शतं वा दशसम्मितम् 019a
दश वा शततुल्याः स्युरेको वापि सहस्रवत् 019c
लोपामुद्रोवाच 020
सहस्रसम्मितः पुत्र एको मेऽस्तु तपोधन 020a
एको हि बहुभिः श्रेयान्विद्वान्साधुरसाधुभिः 020c
लोमश उवाच 021
स तथेति प्रतिज्ञाय तया समभवन्मुनिः 021a
समये समशीलिन्या श्रद्धावाञ्श्रद्दधानया 021c
तत आधाय गर्भं तमगमद्वनमेव सः 022a
तस्मिन्वनगते गर्भो ववृधे सप्त शारदान् 022c
सप्तमेऽब्दे गते चापि प्राच्यवत्स महाकविः 023a
ज्वलन्निव प्रभावेन दृढस्युर्नाम भारत 023c
साङ्गोपनिषदान्वेदाञ्जपन्नेव महायशाः 023e
तस्य पुत्रोऽभवदृषेः स तेजस्वी महानृषिः 024a
स बाल एव तेजस्वी पितुस्तस्य निवेशने 024c
इध्मानां भारमाजह्रे इध्मवाहस्ततोऽभवत् 024e
तथायुक्तं च तं दृष्ट्वा मुमुदे स मुनिस्तदा 025a
लेभिरे पितरश्चास्य लोकान्राजन्यथेप्सितान् 025c
अगस्त्यस्याश्रमः ख्यातः सर्वर्तुकुसुमान्वितः 026a
प्राह्रादिरेवं वातापिरगस्त्येन विनाशितः 026c
तस्यायमाश्रमो राजन्रमणीयो गुणैर्युतः 027a
एषा भागीरथी पुण्या यथेष्टमवगाह्यताम् 027c