लोमश उवाच 001
ततो जगाम कौरव्य सोऽगस्त्यो भिक्षितुं वसु 001a
श्रुतर्वाणं महीपालं यं वेदाभ्यधिकं नृपैः 001c
स विदित्वा तु नृपतिः कुम्भयोनिमुपागमत् 002a
विषयान्ते सहामात्यः प्रत्यगृह्णात्सुसत्कृतम् 002c
तस्मै चार्घ्यं यथान्यायमानीय पृथिवीपतिः 003a
प्राञ्जलिः प्रयतो भूत्वा पप्रच्छागमनेऽर्थिताम् 003c
अगस्त्य उवाच 004
वित्तार्थिनमनुप्राप्तं विद्धि मां पृथिवीपते 004a
यथाशक्त्यविहिंस्यान्यान्संविभागं प्रयच्छ मे 004c
लोमश उवाच 005
तत आयव्ययौ पूर्णौ तस्मै राजा न्यवेदयत् 005a
अतो विद्वन्नुपादत्स्व यदत्र वसु मन्यसे 005c
तत आयव्ययौ दृष्ट्वा समौ सममतिर्द्विजः 006a
सर्वथा प्राणिनां पीडामुपादानादमन्यत 006c
स श्रुतर्वाणमादाय वध्र्यश्वमगमत्ततः 007a
स च तौ विषयस्यान्ते प्रत्यगृह्णाद्यथाविधि 007c
तयोरर्घ्यं च पाद्यं च वध्र्यश्वः प्रत्यवेदयत् 008a
अनुज्ञाप्य च पप्रच्छ प्रयोजनमुपक्रमे 008c
अगस्त्य उवाच 009
वित्तकामाविह प्राप्तौ विद्ध्यावां पृथिवीपते 009a
यथाशक्त्यविहिंस्यान्यान्संविभागं प्रयच्छ नौ 009c
लोमश उवाच 010
तत आयव्ययौ पूर्णौ ताभ्यां राजा न्यवेदयत् 010a
ततो ज्ञात्वा समादत्तां यदत्र व्यतिरिच्यते 010c
तत आयव्ययौ दृष्ट्वा समौ सममतिर्द्विजः 011a
सर्वथा प्राणिनां पीडामुपादानादमन्यत 011c
पौरुकुत्सं ततो जग्मुस्त्रसदस्युं महाधनम् 012a
अगस्त्यश्च श्रुतर्वा च वध्र्यश्वश्च महीपतिः 012c
त्रसदस्युश्च तान्सर्वान्प्रत्यगृह्णाद्यथाविधि 013a
अभिगम्य महाराज विषयान्ते सवाहनः 013c
अर्चयित्वा यथान्यायमिक्ष्वाकू राजसत्तमः 014a
समाश्वस्तांस्ततोऽपृच्छत्प्रयोजनमुपक्रमे 014c
अगस्त्य उवाच 015
वित्तकामानिह प्राप्तान्विद्धि नः पृथिवीपते 015a
यथाशक्त्यविहिंस्यान्यान्संविभागं प्रयच्छ नः 015c
लोमश उवाच 016
तत आयव्ययौ पूर्णौ तेषां राजा न्यवेदयत् 016a
अतो ज्ञात्वा समादद्ध्वं यदत्र व्यतिरिच्यते 016c
तत आयव्ययौ दृष्ट्वा समौ सममतिर्द्विजः 017a
सर्वथा प्राणिनां पीडामुपादानादमन्यत 017c
ततः सर्वे समेत्याथ ते नृपास्तं महामुनिम् 018a
इदमूचुर्महाराज समवेक्ष्य परस्परम् 018c
अयं वै दानवो ब्रह्मन्निल्वलो वसुमान्भुवि 019a
तमभिक्रम्य सर्वेऽद्य वयं याचामहे वसु 019c
तेषां तदासीद्रुचितमिल्वलस्योपभिक्षणम् 020a
ततस्ते सहिता राजन्निल्वलं समुपाद्रवन् 020c