लोमश उवाच 001
यदा त्वमन्यतागस्त्यो गार्हस्थ्ये तां क्षमामिति 001a
तदाभिगम्य प्रोवाच वैदर्भं पृथिवीपतिम् 001c
राजन्निवेशे बुद्धिर्मे वर्तते पुत्रकारणात् 002a
वरये त्वां महीपाल लोपामुद्रां प्रयच्छ मे 002c
एवमुक्तः स मुनिना महीपालो विचेतनः 003a
प्रत्याख्यानाय चाशक्तः प्रदातुमपि नैच्छत 003c
ततः स भार्यामभ्येत्य प्रोवाच पृथिवीपतिः 004a
महर्षिर्वीर्यवानेष क्रुद्धः शापाग्निना दहेत् 004c
तं तथा दुःखितं दृष्ट्वा सभार्यं पृथिवीपतिम् 005a
लोपामुद्राभिगम्येदं काले वचनमब्रवीत् 005c
न मत्कृते महीपाल पीडामभ्येतुमर्हसि 006a
प्रयच्छ मामगस्त्याय त्राह्यात्मानं मया पितः 006c
दुहितुर्वचनाद्राजा सोऽगस्त्याय महात्मने 007a
लोपामुद्रां ततः प्रादाद्विधिपूर्वं विशां पते 007c
प्राप्य भार्यामगस्त्यस्तु लोपामुद्रामभाषत 008a
महार्हाण्युत्सृजैतानि वासांस्याभरणानि च 008c
ततः सा दर्शनीयानि महार्हाणि तनूनि च 009a
समुत्ससर्ज रम्भोरूर्वसनान्यायतेक्षणा 009c
ततश्चीराणि जग्राह वल्कलान्यजिनानि च 010a
समानव्रतचर्या च बभूवायतलोचना 010c
गङ्गाद्वारमथागम्य भगवानृषिसत्तमः 011a
उग्रमातिष्ठत तपः सह पत्न्यानुकूलया 011c
सा प्रीत्या बहुमानाच्च पतिं पर्यचरत्तदा 012a
अगस्त्यश्च परां प्रीतिं भार्यायामकरोत्प्रभुः 012c
ततो बहुतिथे काले लोपामुद्रां विशां पते 013a
तपसा द्योतितां स्नातां ददर्श भगवानृषिः 013c
स तस्याः परिचारेण शौचेन च दमेन च 014a
श्रिया रूपेण च प्रीतो मैथुनायाजुहाव ताम् 014c
ततः सा प्राञ्जलिर्भूत्वा लज्जमानेव भामिनी 015a
तदा सप्रणयं वाक्यं भगवन्तमथाब्रवीत् 015c
असंशयं प्रजाहेतोर्भार्यां पतिरविन्दत 016a
या तु त्वयि मम प्रीतिस्तामृषे कर्तुमर्हसि 016c
यथा पितुर्गृहे विप्र प्रासादे शयनं मम 017a
तथाविधे त्वं शयने मामुपैतुमिहार्हसि 017c
इच्छामि त्वां स्रग्विणं च भूषणैश्च विभूषितम् 018a
उपसर्तुं यथाकामं दिव्याभरणभूषिता 018c
अगस्त्य उवाच 019
न वै धनानि विद्यन्ते लोपामुद्रे तथा मम 019a
यथाविधानि कल्याणि पितुस्तव सुमध्यमे 019c
लोपामुद्रोवाच 020
ईशोऽसि तपसा सर्वं समाहर्तुमिहेश्वर 020a
क्षणेन जीवलोके यद्वसु किञ्चन विद्यते 020c
अगस्त्य उवाच 021
एवमेतद्यथात्थ त्वं तपोव्ययकरं तु मे 021a
यथा तु मे न नश्येत तपस्तन्मां प्रचोदय 021c
लोपामुद्रोवाच 022
अल्पावशिष्टः कालोऽयमृतौ मम तपोधन 022a
न चान्यथाहमिच्छामि त्वामुपैतुं कथञ्चन 022c
न चापि धर्ममिच्छामि विलोप्तुं ते तपोधन 023a
एतत्तु मे यथाकामं सम्पादयितुमर्हसि 023c
अगस्त्य उवाच 024
यद्येष कामः सुभगे तव बुद्ध्या विनिश्चितः 024a
हन्त गच्छाम्यहं भद्रे चर काममिह स्थिता 024c