वैशम्पायन उवाच 001
ततः सम्प्रस्थितो राजा कौन्तेयो भूरिदक्षिणः 001a
अगस्त्याश्रममासाद्य दुर्जयायामुवास ह 001c
तत्र वै लोमशं राजा पप्रच्छ वदतां वरः 002a
अगस्त्येनेह वातापिः किमर्थमुपशामितः 002c
आसीद्वा किनम्प्रभावश्च स दैत्यो मानवान्तकः 003a
किमर्थं चोद्गतो मन्युरगस्त्यस्य महात्मनः 003c
लोमश उवाच 004
इल्वलो नाम दैतेय आसीत्कौरवनन्दन 004a
मणिमत्यां पुरि पुरा वातापिस्तस्य चानुजः 004c
स ब्राह्मणं तपोयुक्तमुवाच दितिनन्दनः 005a
पुत्रं मे भगवानेकमिन्द्रतुल्यं प्रयच्छतु 005c
तस्मै स ब्राह्मणो नादात्पुत्रं वासवसम्मितम् 006a
चुक्रोध सोऽसुरस्तस्य ब्राह्मणस्य ततो भृशम् 006c
समाह्वयति यं वाचा गतं वैवस्वतक्षयम् 007a
स पुनर्देहमास्थाय जीवन्स्म प्रतिदृश्यते 007c
ततो वातापिमसुरं छागं कृत्वा सुसंस्कृतम् 008a
तं ब्राह्मणं भोजयित्वा पुनरेव समाह्वयत् 008c
तस्य पार्श्वं विनिर्भिद्य ब्राह्मणस्य महासुरः 009a
वातापिः प्रहसन्राजन्निश्चक्राम विशां पते 009c
एवं स ब्राह्मणान्राजन्भोजयित्वा पुनः पुनः 010a
हिंसयामास दैतेय इल्वलो दुष्टचेतनः 010c
अगस्त्यश्चापि भगवानेतस्मिन्काल एव तु 011a
पितॄन्ददर्श गर्ते वै लम्बमानानधोमुखान् 011c
सोऽपृच्छल्लम्बमानांस्तान्भवन्त इह किम्पराः 012a
सन्तानहेतोरिति ते तमूचुर्ब्रह्मवादिनः 012c
ते तस्मै कथयामासुर्वयं ते पितरः स्वकाः 013a
गर्तमेतमनुप्राप्ता लम्बामः प्रसवार्थिनः 013c
यदि नो जनयेथास्त्वमगस्त्यापत्यमुत्तमम् 014a
स्यान्नोऽस्मान्निरयान्मोक्षस्त्वं च पुत्राप्नुया गतिम् 014c
स तानुवाच तेजस्वी सत्यधर्मपरायणः 015a
करिष्ये पितरः कामं व्येतु वो मानसो ज्वरः 015c
ततः प्रसवसन्तानं चिन्तयन्भगवानृषिः 016a
आत्मनः प्रसवस्यार्थे नापश्यत्सदृशीं स्त्रियम् 016c
स तस्य तस्य सत्त्वस्य तत्तदङ्गमनुत्तमम् 017a
सम्भृत्य तत्समैरङ्गैर्निर्ममे स्त्रियमुत्तमाम् 017c
स तां विदर्भराजाय पुत्रकामाय ताम्यते 018a
निर्मितामात्मनोऽर्थाय मुनिः प्रादान्महातपाः 018c
सा तत्र जज्ञे सुभगा विद्युत्सौदामिनी यथा 019a
विभ्राजमाना वपुषा व्यवर्धत शुभानना 019c
जातमात्रां च तां दृष्ट्वा वैदर्भः पृथिवीपतिः 020a
प्रहर्षेण द्विजातिभ्यो न्यवेदयत भारत 020c
अभ्यनन्दन्त तां सर्वे ब्राह्मणा वसुधाधिप 021a
लोपामुद्रेति तस्याश्च चक्रिरे नाम ते द्विजाः 021c
ववृधे सा महाराज बिभ्रती रूपमुत्तमम् 022a
अप्स्विवोत्पलिनी शीघ्रमग्नेरिव शिखा शुभा 022c
तां यौवनस्थां राजेन्द्र शतं कन्याः स्वलङ्कृताः 023a
दाशीशतं च कल्याणीमुपतस्थुर्वशानुगाः 023c
सा स्म दासीशतवृता मध्ये कन्याशतस्य च 024a
आस्ते तेजस्विनी कन्या रोहिणीव दिवि प्रभो 024c
यौवनस्थामपि च तां शीलाचारसमन्विताम् 025a
न वव्रे पुरुषः कश्चिद्भयात्तस्य महात्मनः 025c
सा तु सत्यवती कन्या रूपेणाप्सरसोऽप्यति 026a
तोषयामास पितरं शीलेन स्वजनं तथा 026c
वैदर्भीं तु तथायुक्तां युवतीं प्रेक्ष्य वै पिता 027a
मनसा चिन्तयामास कस्मै दद्यां सुतामिति 027c